________________
४२६
[भा. ३९३७]
पेहेऊणं खेत्ते केई पहाणादि गंतु तु सरणं । पुच्छंताण कहती अमुगत्थ वयं तु गच्छामो ।।
वृ- केचित्साधवो वर्षारात्रयोग्यं क्षेत्रंप्रत्युपेक्ष्यानुज्ञाप्य चेदं चिन्तयन्ति, यथाऽत्र प्रत्यासन्नेषु स्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च वर्षाप्रायोग्चाणि तत्र प्रचुराणि न सन्ति, समासन्नश्च वर्षाकालस्ततो मा केचिदन्येऽजानन्तोऽत्र तिष्ठेयुरिति स्रानादिसमवसरणेसर्वेऽपि मिलिताभविष्यन्तीति तत्र गत्वा सर्वेषां विदितं कुर्मः । एतच्चिन्तयित्वा तदनन्तरं स्नानादिसमवसरणं गत्वा तेषां पृच्छतां कथयन्ति अमुकन वयं वर्षाकरणाय गच्छाम इति ।
व्यवहार - छंदसूत्रम् - २- १० / २५१
[ भा. ३९३८ ] घोसणय सोच्च सन्निस्य पच्छिणा पुव्वमतिगए पुच्छा । पुव्यठिते परिणते एत्थ भणते न से इच्छा ।।
वृ- प्रागुक्तं घोषणां श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो धर्मश्रद्धिकास्तत्र श्रावका भूयांसः तिष्ठन्तीति परिभाव्य निर्मर्यादस्तत्र पूर्वतरं गतो गत्वा च संज्ञिनः संज्ञिवर्गस्य प्रेक्षणा संस्तवधर्मकथादिभिरात्मीकरणंततः पश्चादागताः क्षेत्रिकास्तैः स पृष्टो युष्माकमग्रे कथितं ततः कस्मादिह त्वमागतः स तृष्णीक आसीत् । तत क्षेत्रिकैरुक्तं गच्छत यूयं, सम्प्रत्यपि श्रावकवर्गश्च तस्मिन् पूर्वस्थिते परिणत आसीत् ततः पश्चात् ब्रूते मा निर्गच्छतु वयं द्वयोरपि वर्तिष्यामहे । अत्र यत् क्षेत्रिकाणामाभवति । न से तस्य निर्मर्यादस्य वा इच्छा प्रभवति । साम्प्रतमिमामेव गाथां व्याचिख्यासुः प्रथमतो घोषणकं भावयति
[भा. ३९३९]
बाहुल्ला संजयाणं उवग्गो यावि पाउसे । ठियामो अमुगे खेत्ते घोसण न्नोन साहणं ।।
वृ- संयतानां समन्ततः प्रत्यासन्नेषु बाहुल्यात् उपाग्रश्चातिप्रत्यासन्नश्च अपिशब्दादन्यानि च वर्षा प्रायोग्याणि क्षेत्राणि न सन्ति ततो मा अन्ये प्रविशन्त्विति स्नानादिसमवसरणे घोषणादिमन्योन्यकथनं कृतवन्तो यथा वयममुकक्षेत्रे स्थिताः स्म इति घोषणस्यैव प्रकारान्तरमाहविभिज्जतेच ते पत्ता, पहाणादीसु समागमो ।
[भा. ३९४० ]
पहु प्पत्ते य नो काले सन्ना घोसणयं ततो ।
वृ- साधूनां स्नानादिषु समागमे यो यत आगतः स तत्र संस्थितस्ते च विवक्षिताः क्षेत्रमनुज्ञाप्य तत्र प्राप्तास्तत्र यदेकैकगच्छस्य समीपे गत्वा क्रमेण कथ्यते तदा कालो न प्राप्यते उत्सूरस्य भवनात्ततो ये सङ्घसमवायाः चैत्याद्वा संप्रस्थितास्तान् आसन्नान् कृत्वा मेलापके मेलयित्वा महता शब्देन घोषणकं कुर्वते । यथा शृणुत साधवोऽस्माभिरमुकं क्षेत्रं वर्षानिमित्तमनुज्ञापितमिति सोच्चा सन्निसेत्यादि व्याख्यानार्थमाह
[भा. ३९४१]
दानादि सड्ड कलियं सोऊण तत्थ कोइ गच्छेज्जा । रमणिज्जं खेत्तंतिय धम्मका लद्धि संपन्नो ||
वृ- तत् घोषणकं श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो दानादिप्रधानश्राद्धकलितं तत् रमणीयं क्षेत्रमिति कृत्वा तत्र गच्छेत्[ भा. ३९४२ ]
Jain Education International
संथव कहाहि आऊट्टिऊण अत्ती करेइ ते सड्ढे । तेवि य तेसु परिनया इयरेवि तेहिं अनुपत्ता ।।
For Private & Personal Use Only
www.jainelibrary.org