________________
४१६
व्यवहार - छंदसूत्रम् - २- १०/२५१ नो से तत्थ सुए सिया, जहा से तत्थ आणा सिया आणाएणं ववहारं पठवेज्जा३ नो से तत्थ आणासिया, जहा सं तत्थ धारणासिया, धारणाएणं ववहारं पट्टवेज्जा ४, नो से तत्थ धारणा सिया, जहा से तत्थ जीए सिया, जीएणंववहारं पठवंज्जा५ । एएहिं पंचहिंववहारहिंववहारं पठवेज्जातं आगमेणं सुएणं आणाए। धारणाएणं जीएणं जहाजहा आगमै सुए आणा धारणा जीए तहा तहा ववहारं पठवेज्जा से किमाहु भंते ? आगमबलिया समणा निग्गंधा इच्छेयं पंचविहं ववहारं जया जया जहिं जहिं तथा तथा तहिं तहि अनिस्सि ओवसियं ववहारमाणे समणे निग्गंथे आणाए आराहए भवइ । बहु आगमितो पडिमं पडिवज्जइ आगमो इमो वि खलु । सव्वं व पवयणं ववहारविसयत्थं । ।
[भा. ३८७६ ]
[भा. ३८७७ ]
खलियस्स व पडिमाए ववहारो कोत्ति सो इमं सुत्तं । ववहारविहिन्नू वा पडिवज्जइ सुत्तसंबंधो ||
वृ- अनन्तरसूत्रेप्रतिमाभिहिता तां चप्रतिमां प्रतिपद्यते बह्नागभिकः अयमपि पञ्चविधोऽपि व्यवहारः खल्वागमः ततआगमप्रस्तावात्प्रतिमासूत्रानन्तरं व्यवहारसूत्रमवादि, सध्ये वत्यांदि वाशब्दः सम्बन्धस्य प्रकारान्तरोपदर्शने सर्वं प्रवचनं प्रावचनिकश्च व्यवहारविषयस्थं व्यवहारविषयान्तर्गतमतोऽवश्यं व्यवहारो वक्तव्य इति व्यवहारसूत्रम्, अथवा प्रतिमायां स्थितस्य प्रतिमायाः स्खलितस्य को व्यवहारः किंकर्तव्यमिति प्रश्नमाशंक्य सव्यवहारः पञ्चविध इत्यादिकमिदं सूत्रमुपन्यस्तं, यदिवानन्तरसूत्रेप्रतिमाः प्रतिपद्यते इत्युक्तं ताश्च प्रतिपद्यते व्यवहारविधिज्ञो नेतर इति प्रतिमासूत्रादनन्तरं व्यवहारसूत्रस्व सम्बन्धः । सूत्राक्षरसंस्कारः सुप्रतीतो, विशेषव्याख्यां तु भाष्यकृत्करिष्यति । तत्र 'तत्थ आगमे सिया आगमेन व्यवहारं पट्टवेज्जा' इत्यादि अस्य व्याख्यामाह
[भा. ३८७८ ] सो पुन पंचविगप्पो आगम सुय आण धारणा जीए ।
सेतंमि बबहरते उप्परिवाडी भवे गुरुगा ।।
?
वृ- स पुनर्व्यवहारः पञ्चविधः प्रज्ञप्तस्तद्यथा आगमः श्रुतमाज्ञा धारणा जीतमिति । तत्र सति आगमादौ व्यवहारे यदि उत्परिपाट्या उत्क्रमेण व्यवहरति तदा प्रायश्चित्तं चत्वारो गुरुकाः । इयमंत्र भावना, आगमे विद्यमाने यद्यन्येन सूत्रादिना व्यवहरति तदा चतुर्गुरुकं, यदा पुनरागमो न विद्यते तदा श्रुतेन व्यवहर्तव्यम् श्रुते विद्यमाने यद्याज्ञादिभिर्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तं यदा श्रुतमिति न विद्यते तदा आज्ञया व्यवहर्तव्यम् आज्ञायां विद्यमानायां यदि धारणया प्रस्थापयति तदा चतुर्गुरुकं, आज्ञाया अभावे धारणया व्यवहर्तव्यंयदि पुनर्धारणायां सत्यां जीतेन व्यवहति तदा चतुर्गुरुकं, धारणाया अभावे जीतेन व्यवहर्तव्यमिति । तत्र 'से तत्थ आगमे सिया' इत्यादिकस्य सूत्रावयस्यायमर्थः । तत्र तस्मिन् व्यवहारपञ्चकमध्ये से तस्य साधोरागमः स्यात्तर्हि आगमेन व्यवहारं प्रस्थापयेत् । व्यवहारेर्निश्शेषः सूत्रादिभिरेतदेवाह
[भा. ३८७९] -
आगमव्यवहारी आगमेन वबहरेइ सो न अन्नेणं । न हि सूरस्स पगासं दीयपगासो विसेसेइ ।।
वृ- स आगमव्यवहारी आगमेन व्यवहरति नान्येन श्रुतादिना, तस्य ततो हीनत्वादेतदेव प्रतिवस्तूपमया दर्शयति, न हि सूर्यस्य प्रकाशं दीपप्रकाशो विशेषयति, न सूर्यप्रकाशात् दीपप्रकाशोऽधिकतरः किन्तु हीन इत्यर्थः । एवमिहापि यादृशी विषय आगमस्य नैतादृशः शेषाणां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International