________________
व्यवहार-छेदसूत्रम् -२- ८/२०२ जायइदेहस्सजउ पुव्वं वयणं ततोसेसं ।। वृ-कुत्सिता कुटी कुकुटीशरीरमित्यर्थः । तस्यां शरीररुपायाः कुकुट्या अण्डकभिवाण्डकं मुखं केनपुनः कारणेनाण्डकंमुखमुच्यतेतत आह-यतोयस्मात् चित्रकर्मणिगर्ने उत्पातेवा पूर्वदेहस्यवदनं मुखं निष्पद्यते । पश्चातशेषं ततः प्रथमभावितया मुखमण्डकमित्युच्यते[भा.३६७९] थलकुक्कुडिप्पमाणंजंवा नायासिए मुहे खिवति ।
___ अयमन्नो सुविगप्पो कुक्कुडिअंडो वा नकवले ।। वृ-इहकवलप्रक्षेपणाय मुखेविडम्बितेयदाकाशंभवति, तत्स्थलंभण्यते,स्थलमेव कुकुड्यएडके स्थलकुक्कुड्यण्डकं तस्य प्रमाणं यदनायासिते मुखे कवलं प्रक्षिपति । किमुक्तं भवति ? यावत्प्रमाणमात्रेणकवलेन मुखेप्रक्षिप्यमाणेन मुखंन विकृतंभवतितत्स्थलकुक्कुड्यण्डकंप्रक्षिपति । किमुक्तं भवति ? यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुकुड्यण्डकंप्रमाणंगाथायामण्डकशब्दलोपःप्राकृतत्वात् अयमन्यः कुक्कुड्यण्डकोपमेकवले विकल्प: अयमन्योऽर्थः कुक्कुड्यण्डकप्रमाणमात्रशब्दस्यैत्यर्थः । एतेनकवलमात्रेणाष्टादिनासंख्याद्रष्टव्या तदेवं कृता विषमपदव्याख्याभाष्यकृता । सम्प्रति नियुक्तिविस्तर:[भा.३६८०] अठत्तिभणिऊणं छम्मासा हावत्तेउबत्तीसा ।
नायं चोगवयणंपासाएहोति दिठंतो ।। वृ- अष्टाविति भणित्वा यावदवमौदर्यं तावदेतत्संस्तरतो मध्यं भणितं असंरतरतः पुनत्रिंशत्कं प्रमाणंभणितमुत्सर्गः पुनस्यमुपदेशः षण्मासादारभ्य तावत् हापयेत् यावत् द्वात्रिंशत्कवलाः । इयमत्र भावना यदि योगानांनहानिरुपजायते तदाषण्मासान उपवासं कृत्वा पारणके एक सिक्थमाहारयेत् । अथतेनानसंस्तरतिततः पारणके द्वे सिक्थे आहारयेत् । एवमेकैकसिक्थपरिवृद्ध्या तावन्नेयं यावदेकं लम्बनंकवलमित्यर्थः । तेनाप्यसंस्तरणेकवलपरिवृद्धिर्वक्तव्यासाचतावत्यावदेकत्रिंशत्कवलाः । षण्मासानुपवासंकर्तुमशक्नुवन्एकेन दिवसेनोनंषएमासक्षपणं कृत्वाएवमेव सिक्थकवलपरिवृद्धया पारणकं कुर्यात् । एवमेकैकहान्या षण्मासक्षपणं तावद्वक्तव्यं यावच्चतुर्थ कृत्वा पूर्वप्रकारेण सिक्थकवलपरिवर्धनेन पारणकं परिभावयेत् । अथ न संस्तरति ततो दिने दिने भुंक्त्वा तत्राप्येवमेव सिस्थादारभ्य यावद्वात्रिंशत्कवला इति अत्र चोदकवचनं यद्येवमष्टावित्यादि सूत्रोपनिबद्धं नाममात्र प्रवचनमात्माचार्य आह-सिद्धिप्रासादनिर्मापणाययोगानांसंधारणनिमित्तमेतन्मध्यमुपात्तंसूत्रेणततो नकश्चिद्दोषः तथाचात्र प्रासादोभवतिद्दष्टान्तःस चाग्रेभावयिष्यते । सम्प्रति यदुक्तंछम्मासहायतेउ बत्तीसा इति तद्भावनार्थमाह[भा.३६८१] छम्मासा खमणं तंभि सिस्थादण्हा तु लंबनं ।
ततो लंबनवड्डीए जावेकंतीस संथरे ।। [भा.३६८२] एकमेक्वं तु हावेत्ता दिनं पुवकमेणओ।
दिने दिने उसिस्थादी जावेक्कतीस संथरे ।। वृ- षण्मासक्षपणान्ते सिक्थमेकमादिशब्दात् असंस्तरणेद्वे त्रीणि चत्वारि इत्यादि परिग्रहोऽनातु भुंक्ते मे (न) संस्तरणे च सिक्थपरिवृद्धिस्तावत्कर्तव्या यावल्लम्बनं केवलो भवति तेनाप्यसंस्तरणे द्वात्रिंशदयिद्रष्टव्याः । परमेतत्कस्यापि कदाचिदन्यथाप्रकाममोजित्वदोषप्रसक्तेर्यत आह-एत्तो एगेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org