________________
उद्देशकः-८. मूल - २०१, [भा.३६४१] [भा.३६४१] एगेउपुव्वभणिए कारणनिक्कारेणदुविहभेदो ।
आहिंडगउहाणे दुविहाते होतिएकेक ।। वृ. एकाकी द्विविधमेदः पूर्वमोधनियुक्तौ भणितस्तद्यथा-कारणे निष्कारणे च । पुनः साधवो द्विविधा-आहिण्डका अवधावने च । एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः । साम्प्रतमेनाभेव विवरीषुः प्रथमतः कारणनिष्कारणैकैकप्रतिपादनार्थमाह[भा.३६४२] असिवादीकारणिया निक्कारणियाच चक्कथूभादी ।
उवएस अनुवएसा दुविहा आहिंडगा हुंति ।। वृ-अशिवादिभिरादिशब्दादवमौदर्यराजद्विष्टादिपरिग्रहः कारणैरेकाकिनः कारणिकाः, चक्रस्तूपादौ आदिशब्दात्प्रतिमानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिका ये आहिण्डकास्ते द्विविधा भवन्ति तद्यथा उपदेशतोऽनुपदेशतश्च । तत्रये उपदेशेनते द्वादशसंवत्सराणि सूत्रंगृहीत्वा द्वादशसंवत्सराणि तस्यैव सूत्रस्यार्थं गृहीत्वा य आचार्यकं कर्तुकामः स द्वादशसंवत्सराणि देशदर्शनं करोति । तस्य व्रजतो जघन्येन संघाटको दातव्यः उत्कर्पणानियताः साधवः येऽनुपदेशेन देशदर्शनं कुर्वन्तितेचैत्यानिवन्दिष्यामहे इत्यवधिं कृत्वा व्रजन्ति । [भा.३६४३] ओहावंतो दुविहा लिंगे विहारे यहोतिनायव्वा ।
- एगागी छप्पेते विहारे तहिंदोसुसमणुन्ना ।। वृ- अवधाविनो द्विविधा-लिङ्गेन विहारेण च । लिङ्गेनोत्प्रव्रजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामाभवन्ति ज्ञातव्याः । षडप्पेते कारणिका १निष्कारणिका २ औपदेशिका ३ अनौपदेशिका ४ लिङ्गेनावधाविनः५ ।विहारेणावधाविनश्च ६प्रायेणैते एकाकिनोविहरन्तिगच्छन्तिवाऔपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छान्निर्गतास्तेन एकाकिनो भण्यन्ते । इतेरऽपि पञ्च यद्यपि वृन्देन हिण्डतेतथापिगच्छान्निर्गता एकाकिनः प्रोच्यन्ते । तत उक्तंपडप्येते विहारिण एकाकिनस्तर्हि तेषु षट्सु मध्ये द्वयोः समनोज्ञा द्वयोः सांभोगिकास्तद्यथा अशिवादिकारणिका उपदेशा हिण्डकाश्च तैरानतानिभाजनानिग्रहीतव्यानि, शेषैरानीतानांभजना कारणैगुह्यन्ते निष्कारणेनेति | [भा.३६४४] निक्कारणिएसुवदेसिएय आपुच्छिऊण वच्चंते ।
अनुसासंतिओताहेवसहा उतहिंइमेहिंतु ।। वृ- निष्कारणिकोऽनौपदेशिकश्च यद्यार्यमापृच्छय व्रजति तदा तत्र व्रजते एभिर्वक्ष्यमाणेर्वचनैर्वृषभा अनुशासति । कैर्वचनैरित्याह[भा.३६४५] एसेव चेइयाणंभत्तिगतोजो तवंमिउजमती ।
इइअनुसिठे अठिते अंसंभोगायारभंडंतु ।। वृ. एष एवचैत्यानांभक्तिगतोभक्तिमुपनतोयस्तपसिद्वादशप्रकारे यथाशक्तिउद्यच्छतिएवमनुशिष्यमानो यदि तिष्ठति ततः सुन्दरं । अथ न तिष्ठति तर्हि यत्तस्य सांभोगिकमुपकरणं तन्निवर्त्यते इतरदसांभोगिकमाचारभाण्डंसमप्यते । अथकथमसांभोगिकमाचारभाण्डमुपजातमत आह[भा.३६४६] खगूडेणीवहयं अमणुन्ने सागयस्सवाजंतु।
.. अंसभोगिय उवकरणंइहरा गच्छेतगंनस्थि ।। वृ- यदुपकरणं खग्गूडेनोपहतं यदि वा यत् अमनोज्ञेम्योऽसांभोगिकेभ्य आगतस्योपसंपन्नस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org