________________
३७०
व्यवहार- छेदसूत्रम् - २८/२०१ वृ- कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा ततस्तस्य पात्रमतिरिक्तं लम्बते इत्यन्यस्य द्वितीयस्य साधोरतिरिक्तं पुराणंपात्रं च भवति । गतं कालगतद्वारमधुना दुर्लभद्वारमाह-दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभपात्रस्तस्मिन्नपि इमानि वक्ष्यमाणानि पञ्च भाजनानि धारयेत् । तान्येवाहनंदिप डिग्गहविपग्रहे य तह कमढगंविमत्तोय | पासवणमत्ततो विय तक्कज परुपणा चेव ।।
[ भा. ३६२८]
वृ- यस्मिन् देशे पात्राणिदुर्लभानि तत्रेमान्यतिरिक्तानि थ्रियन्ते तद्यथा-नन्दी प्रतग्रहो विपतद्ग्रहः । कमढकं विमात्रकं प्रश्रवणमात्रकं च तत्कार्यग्ररुपणा चैवं कार्या, नन्दी पतद्ग्रहोऽतिशयेन महान्पतग्रहस्तेनाध्वनि अवमौदर्ये परचक्करोधे च प्रयोजनं तथा च कश्चित् ब्रूयात् दिने दिने युष्माकमहमेकं पात्रं भरिष्यामि । ततस्तत् नंदीपात्रं भार्यते एतेन कारणेन गच्छोपग्रहनिमित्तं धार्यते, विपतग्रहः पतग्रहात् किञ्चिदूनः स एतदर्थं धार्यते कदाचित्पतद्ग्रहो मिद्येत । अन्यच्च भाजनं तस्मिन् देशे दुर्लभं तत एतेन कार्यंभविष्यति, कमढकः सागारिकरक्षणायध्रियतेच, तथा कदाचिदेकाकी जायते तत्र च भक्तं पतद्ग्रहे गृहीतं पानीयं मात्रके यत्र च भोजनकं रक्षणार्थमवतीर्णस्तत्र सागारिकास्तोत यत्रैव भुङ्कते तथा वसतिर्महती छोतिरिति जुगुस्सा क्रियेत् । ततस्तद्रक्षणाय कमढके भोजनं करोति । तथा विमात्रको मात्रकातू मनाक् समधिक ऊनतरो वा तत्र मात्रकः कदाचित् भिद्येतान्यच्च तत्र देशे भाजनं दुर्लभं । तत एतेन प्रयोजनं भविष्यतीति स ध्रियते प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकरणाय ग्लानस्याचार्याणां चार्थाय ध्रियते । एषा कार्यग्ररूपणा । सम्प्रति दुविहाएगमणेगा ।
[भा. ३६२९]
एगो निद्दिसएगं एगो अनेगा अनेग एांवा ।
गोगे ते पुन गणिवसभे भिक्खुखुड्डेय ।।
वृ-ये पात्राणि प्रयच्छन्ति ते द्विविधास्तद्यथा-एको वा स्यादनेके वा येभ्योऽपि ददति पात्राणि तेऽपि द्विविधा एको वा स्यादनेके वा । तत्रैको नियमतो, ऽनेके विकल्पतो निर्देशा भवन्ति । अत्रचतुर्भङ्गिका, एको दाता एकं सम्प्रदानं निर्देशति आचार्यस्यमुकस्य वृषभस्य भिक्षौः क्षुल्लकस्य वा दास्यामि एष प्रथमो भङ्गः । एको अनेकान्निर्दिशतीति द्वितीयः । अनेके एकमिति तृतीयः । अनेकेऽनेकानिति चतुर्थः । ते पुनर्निर्देश्याः कि इत्याह-गणी वृषभो भिश्रुः क्षुल्लकश्च गणी द्विविध आचार्य उपाध्यायश्च । एवमेते पञ्च भवन्तिया अपि स्त्रियो निर्दिशतिता अपि पञ्च तद्यथा प्रवर्तिनी अभिसेव्वा (च्या) भिक्षुकी स्थविरा क्षुल्लका च । तथा चाह[ भा. ३६३०]
-
एमेव इत्थव पंचगमा अव निद्दिसति मीसे ।
वाउं वच्चति पेसेति वा वितिं ते पुन विसेसा ।।
बृ- एवमेव अनेनैव संयतगतेन प्रकारेण स्त्रीवर्गे निर्दिश्यमाने पञ्चगमा भवन्ति । अथवा यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशति । संयतानपि निर्दिशतिं संयतीरपि तदेतदागमद्वारेऽभिहितम् सम्प्रतिगमद्वारे वक्तव्यं । तथापि तत्रैव नवरं दत्वा व्रजति प्रेषयति च अग्रेगतः नीते पुनर्विशेषः सचायं नीतानि भाजनाति समो निर्दिशति स समाने वा संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः अत्र च त एव चत्वारो भङ्घाः । तद्यथा-संयतः संयतं निर्दिशति, संयतः संयतान्, संयताः संयतं, संयताः संयतान् । एवं समाननिर्दिर्शे चत्वारो भङ्काः । एवमसमाननिर्देशऽपि द्रष्टव्यास्तद्यथा संयतः संवतीं निर्दिशति, १, संयतः संयतीः २, संयताः संयती ३, संयताः संयती ४ एवं कालगते प्रतिभग्ने वा सहाये दुर्लभद्वारे च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org