________________
३६८
व्यवहार-छेदसूत्रम् -२- ८/२०१ वृअपरो अन्यं ब्रूते त्वमाचार्यान् भण यथा अमी आचार्येणानुज्ञाता अधिकान्यपि भाजनानि प्रतिगृह्णन्ति । तत्र यो लज्जालुतया आचार्यान् विज्ञपयितुं न शक्नोति तस्य कारणेन भणन्ति चाचार्यान् यदिचशठभावंतस्यज्ञात्वाआचार्यान्विज्ञपयितुंनेच्छन्ति । इतरथाशठभावेऽपिज्ञातेयदि विज्ञपयति तद तेषां प्रायश्चित्तं भवति लघुको मासः । [भा.३६१७] जइपुन आयरिएहिंसमयेव पडिस्सुयं भवति तस्स !
लखणमलक्खणजुयं अतिरेगंजंतुतंतस्स || वृ- यदि पुनस्तस्य लजालोः कारणेनाचार्यास्तस्य समक्षं विज्ञप्ता आचार्यैश्च स्वयमेव तस्य लजालोरतिरिक्तपात्रग्रहणं प्रतिश्रुतमङ्गीकृतं तदा यल्लभ्यते अतिरिक्तं पात्रं लक्षणयुक्तमलक्षणयुक्तं वा तत्तस्य दातव्यं । गत एकः प्रकारोद्वितीयं प्रकारमाह[भा.३६१८] बितितो पंथेभणंती आसन्ना गंतु विन्नवंति गुरुं ।
तंचेवपेसवंतिदूरगयाणं इमे मेरा ।। वृ-द्वितीयस्तान् पथिदृष्ट्वा भणति ममापि योग्यानि भाजनानि प्रतिगृह्णीत । एवं प्रार्थिता यदि ते आसन्ना वर्तन्तेतदाआगत्य गुरुं विज्ञपयन्ति यथाअमुकंसाधुर्वदतिममयोग्यानिभाजनानि प्रतिगृह्णीत अथवा तमेव साधुमभ्यर्थयमानं प्रेषयन्ति यथा त्वमेवाचार्य विज्ञपय । तेषामेव कुर्वतां प्रायश्चित्तं मासलघु । दूरेगतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी ।तामेवाह[भा.३६१९] गेण्हासो अतिरेगंतत्थपुन वियाणगा गुरु अम्हं ।
देति तगंवन्नं साहारणमेव ठाति ।।। वृ- दूरगतान् सांभोगिकः साधुरवलोक्य ब्रूते अस्माकमपि योग्यं पात्रमाददीध्वम् । ततस्तैरिदं वक्तव्यमतिरिक्तंपात्रंगृहीष्यामस्तत्रपुनर्विज्ञायकाअस्माकंगुरवस्तदेवबाअतिरिक्तंपात्रंदास्यति । अन्यद्वा कोजानातिकदाचिदतिरिक्तंपात्रंसुन्दरमितिकृत्वास्वंय प्रतिगृह्णन्ति यस्यवा इष्टंतस्मै ददति, । एवं साधारणस्थापयन्ति । उक्तो द्वितीयः प्रकारस्तृतीयमाह[भा.३६२०] तइतो लक्खणजुत्तंअहीयं वीसाएतेसयंगेण्हे ।
एए तिन्निविगप्पा होति अरेगस्स नायव्वा ।। इ-तृतीयः प्रकारः पुनरयंतेप्रेषिताः साधवोविंशतेरधिकंपात्रंस्वयमेवगृह्णन्ति । एते त्रयो विकल्पा अतिरिक्तस्यपात्रस्यसंभवायज्ञातव्याः । तदेवंव्यापारितानांच्छिन्नानिगतानि ।साम्प्रतमाभिग्रहिकाणां च्छिन्नानि प्रतिपादयितुमाह[भा.३६२१] सच्छंद पडिन्नयणा गहिए गहणे य जारिसंभणियं ।
. अलंथिरधुवधारणियं सोवा अन्नोयणंधरए ।। वृ- स्वच्छन्दा नाम आभिग्राहिकास्ते अव्यापारिता एवाचार्यानापृच्छय गतास्ते यदि च्छिन्ना संदिष्टास्ततस्तेषामपिसैवसामाचारी याप्राकव्यापारितानांच्छिन्नानामुक्ता ।पडिन्नयणत्ति प्रतिज्ञापना नाम विधिना पात्रादीनां मार्गणा कर्तव्येत्युपदेशदानं उद्गमादिशुद्धानि पात्रादीनि प्रतिग्राह्याणीत्यु. पदेशदानमितिभावः । तदागहीतेग्रहणेच याशंकल्पाध्ययनपीठिकायांभणितंतादृशंकर्तव्यं । तत्र यावन्तिसंदिष्टान्याचार्येणतावन्तिगृहीतानि यदिन केनचित्भणितंपूर्वं यथाममापि योग्यं पात्रं गृह्णीमो गृहीते स एव ग्राहकश्चिन्तयति । अहमाचार्यानुज्ञातं धारयिष्यापि । यदि वास एवाचार्यो धारयिष्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org