________________
उद्देशक :- ८, मूल - २०१, [भा. ३६०३ ]
आयरियादीणठा तब्भुवभोगो न इहराउ ||
वृ-प्राणदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात् तस्य यः सङ्घाटकः सक्षपणं कर्तु न शक्नोति न च तस्यान्यः संघाटको विद्यते । ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति तस्य विपरिहरणाय एकाकि हिंडते सद्वितीयसंघाटकवतः साधोः प्राणदवार्थं क्षपणकरणे संघाटाभावे विकल्पपरिहारी क्षपणकरणसमर्थो भिक्षामेकाकी हिण्डमानः पतगृहे पानकंगृह्णाति । मात्रकंभक्तं अनेन कारणेन स्थविराणामोघोपधिरुपोमात्रको जिनवरैर्वितीर्णोऽनुज्ञातः औधनिर्युक्तौ तथाभिधानात् । एतेन यदुक्तं तीर्थकरैर्नानुज्ञातो मात्रक इति तन्मिथ्येत्यावेदितमत एव तस्यैवं ब्रुवतश्चतुर्गुरुकं प्रायश्चित्तं तथा तस्य मात्रस्योपभोग आचार्यादीनामाचार्यग्लानप्राघूर्णकबालवृद्धादीनामर्थाय यत्प्रायोग्यग्रहणाय उपलक्षणमेतत् संसक्तभक्तपाने शोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणानुज्ञात इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञात एतच्च परिभाव्य तत आर्यरक्षितौश्चिन्तितं प्रायः प्राणरक्षाय संसक्तभक्तपानविशोधिकरणाय च मात्रकपरिभोगोऽनुज्ञातस्तत्र भूयसां प्राणानामप्कायप्रभृतीनां संसक्तभक्तपानानं च वर्षासमये तत्र आर्यरक्षितैर्वर्षासु मात्रकपरिभोगोऽनुज्ञातः शेषकालं तु लोभप्रसङ्गनिवारणाय प्रतिषिद्धस्तथा चाह
[ भा. ३६०४ ]
गुणनिष्पत्ती बहुगी दमासे होहितित्ति वितरति । लोभे पसज्रमाणे वारेति ततो पुनो मत्तं । ।
३६५
- गुणनिष्पत्तिर्बह्णी दकमासे वर्षारात्रे भविष्यतीति तत्प्रारंभसमये भगवन्त आर्यरक्षिता मात्रकपरिभोगं वितरन्त्यनुजानन्ति । ऋतुबद्धे काले आचार्यादिप्रायोग्यग्रहणलक्षणं कारणमतिरिच्यान्यत्कारणं समस्ति केवलं लोभ एव प्रसज्यते । तथा हि यत् उत्कृष्टं तत्तल्लोभेन मात्रके गृह्णाति तत इत्थं लोभे प्रसजति तन्निवारणायाचार्यादिप्रायोग्यग्रहणाभावे पुनर्मात्रकं तदा वारयन्ति । एवं सिद्धं ग्रहणं आयरियाईण कारणे भोगो । पाणदयठवभोगो बितिओ पुन रक्खियञ्जातो ।।
[भा. ३६०५ ]
वृ- एवमुक्तप्रकारेण मात्रस्यग्रहणं सिद्धं यतः सूत्रे ओधनिर्युक्त्यादौ आचार्यादीनां कारणे आचार्यादिप्रायोग्यग्रहणेन कारणेन मात्रकस्य भोगोऽनुज्ञातो द्वितीयः पुनरुपभोग आर्यरक्षितात्प्राणदयार्थं प्रवृत्तः कारणाभावे तु मात्रकपरिभोगे प्रायश्चित्तं तदेवाह
[भा. ३६०६ ]
जत्तियमित्ता वारा दिनेन आणेइ तित्तिया लहुगा । अठहिं दिनेहिं सपयं निक्कारणमत्तपरिभोगे ।।
[भा. ३६०७ ]
वृ- निष्कारणं कारणाभावे मात्रकस्य परिभोगे यावन्मात्रान्वारान् दिवसेनैकेन तेन मात्रेणानयति तावतो लघुका मासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदं पुनर्ब्रतारोपणं मूललक्षणमष्टमं प्रायश्चित्तमिति
भावः ।
जे बेंति घेत्तव्यो न म्मत्तओ जे यतं न धारेंति ।
चउ गुरुगा तेसिं भवे, आणादिविराहणा चेव ।।
वृ-ये ब्रुवते न ग्रहीतव्यो मात्रको ये च तं मात्रकं न धारयन्ति तेषां प्रत्येकं प्रायश्चित्तं भवति चत्वारो गुरुकाः आज्ञादयश्च दोषाः । प्राणविपक्षेः संयमविराधना वा अन्यच्च ।। लोए होइ दुगंछा वियारपडिग्गहेण उड्डाहो ।
[भा. ३६०८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org