SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१-१/१ भवति? पथि व्रजता स्थंडिलादस्थंडिलमस्थंडिलात् स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिका नीलमृत्तिकातोवा कृष्णमृत्तिकां, एवं शेषवर्णोष्वपतिभावनीयं, संक्रामता पादयोर्यत्प्रमार्जनंन कृतं तथा वातोद्धतेन सचित्तेन रजसा सचित्तवा वा मृत्तिकया संसृष्टेन हस्तेन संसृष्टेन मात्रकेणा वा यत् मिक्षाग्रहणं कृत्तं, तदेवमाद्यालोचयेदिति सर्वत्रापि सामर्थ्यात् योजनीयं, बितिए उल्लाइपंथे वा इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यत् उदकार्दादि आदिशब्दात् सस्निग्धादि परिग्रहः एतदुक्तंभवति, उदकार्टेन सस्निग्धेन वा हस्तेन मात्रकेणा वा भिक्षाग्रहणं कृतंपथि वा मार्गेवा अयतनया उदकमुत्तीर्णांच | एवमादितदालोचयेत् । [भा.२४१) तइए पइट्ठियादी, अभिधारणवीयणादि वाउंमि; बीयाइ घट्टपंचमे, इंदिये अनुदायतो छट्टे । वृ-अप्काय विराधनालोचनानंतरं तृतीये तेजस्काये यत् प्रतिष्ठितादि तेजसि परंपरादिप्रतिष्ठितं भक्तंपानं वागृहीतं, आदिशब्दात्सज्योतिषिवसताववस्थानं कृतमित्येवमादीतिभाव तदालोचयेत्। तदनंतरंवायौवातकाये यत् अभिधारण वीजनादिकृतंधार्तेनबहिर्वातोभिसंधारितोभक्तंपानं शरीरं वा वीजनकादिना वीजितं एवमादि तदालोचयेत्, ततः पंचमे वनस्पतिकाये बीयाइघट्टित्ति यवबीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् तेन यदि वा बीजादिकं भिक्षासु पतितंग्रहीतमित्येवमादितदालोचयेत्तदनंतरंषष्ठेत्रसकाये इंद्रियानुपात्ततइंद्रियवृद्धिक्रमेणालोचना दातव्या, तद्यथाप्रथमतोद्वींद्रियाणांसंघट्टनपरितापनाद्यालोचयेत्, तदनंतरंत्रींद्रियाणांततचतुरिंद्रियाणां ततः पंचेंद्रियाणामिति एवं प्रथममूलगुणापराधेषुक्रमेणालोचितेषुसत्सु । [भा.२४२] दुब्भासिय हसियादीबीएतइएअजावियग्गहणं । घट्टणपुव्वरयाईइंदियआलोगमेहुण्णे । वृ-द्वितीये मूलगुणापराधे मृषावादेमृषावादविषये यकिमपिदुर्भाषितंभणितंहासेन वा मृषावादो भणित आदिशब्दात्क्रोधेन वामानेन वा माययावा लोभेन वा भयेन वा यत् किमपि मृषाभणितमिति परिग्रहस्तदालोचयेत्, तदनंतरंतृतीयेमूलगुणापराधेएदत्तादानलक्षणेयत्अयाचितस्यतृणडगलादेर्ग्रहणं उपलक्षणमेतत्तेन अननुज्ञाप्य वाअवग्रहंकायिकादिव्युत्सृष्टंभवेदित्यादि परिग्रहः तदालोचयेत्ततो मैथुने मैथुनविषये यद्घट्टने पूर्वरतादि, किमुक्तं भवति, ? चैत्यभवनमहिमादिषु प्रभूतजनसंमद्दे स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत; पूर्वतक्रीडितं वा अनुस्मृतं स्यात् । इंदियत्ति इंद्रियाणि वा मनोहराणि उपलक्षणमेतत् वदनस्तनादिकमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत् इत्यादि तदालोचयेत् । मुच्छातिरित्तपंचमे; छ? लेवाडअगयसुंठादी; गुत्तिसमिईविवक्खाणामिगहणुत्तरगुणेसु । वृ-चतुर्थमूलगुणापराधालोचनानंतर पंचमेमूलगुणापराधे परिग्रहविषयभूते यत् उपकरणेषुमूर्छा कृता भवेत्, अइरितत्ति अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत् तदनंतरं षष्ठे मूलगुणापराधे रात्रिभोजने लेवाडित्ति लेपकृदवयवः कथमपिपर्युषितो भवेत् । अगदं वा शुंठ्यादि किंचित् सन्निहितं परिभुक्तं भवेत् एवमादि आलोचयेत्, एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु उत्तगुणाविषये गुप्ति समितिविपक्षाः कृताः । अनेषणीयग्रहणं वाकारि, किमुक्तं भवति गुप्तिषु www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy