SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १, [भा. २३६ ] ८३ भवति साधवश्च रात्रौ न भुंजंते ततः । सा नियमतोर्देवसिकी संप्रति त्रिविधाया अप्यालोचनाया वैभागिक्याः प्रशस्ताप्रशस्तदिनचिंतां चिकीर्षरिदमाह । | [ भा. २३७] विभागेन अप्पसथ्ये दिनं मि रत्तिचिवक्खवतोवावि । आइल्लादोणि भवेति वक्खवतो होइ तइया उ ।। वृ- इह त्रिविधालोचना वक्तुमुपक्रांता तद्यथा विहारालोचना उपसंपदालोचना अपराधालोचना च एकैका द्विधा ओधतो विभागतञ्च तत्रोघतो भोजनकाले प्रत्यासन्ने भावान्न प्रशस्ताप्रशस्तदिनचिंता विभागतः पुनरस्तीति सा प्रोच्यते । आदिल्लादोन्निभवेइत्ति आधे द्वे आलोचने विहारालोचना उपसंपदालोचना चेत्यर्थः विभागेन विस्तरेण दीयमाने भवेयातामप्रशस्ते दिने रात्रौ वा अप्रशस्तायां विष्टिव्यतीपातादिदोषकलितेपि दिवसरात्रौ वा दीयते इति भावः दोषाभावात्, तथा पूर्वसूरिभिरनुज्ञातत्वात्, विक्खवतोवा वेत्ति विपक्षतो वापि ते द्वै आद्ये आलोचने भवेयातां अप्रशस्तस्य प्रशस्तो विपक्षस्ततोऽयमर्थः प्रशस्ते वा दिवसे रात्रौ वा ते स्यातामिति विवक्खतो होउ तइयाओ इति तृतीया पुनरपराधालोचना विभागतो दीयमाना विपक्षतः सर्वस्य वाक्यस्य विपक्षव्यवच्छेदफलतया सावधारणत्वाद्विपक्षत एव प्रशस्तएव दिवसे रात्रौ वा भक्तीति भावः सांप्रतमोघालोचनायाः प्रकारमाहअप्पामूलगुणे उत्तरगुणतो विराधना अप्पा । अप्पापासथ्यादिसु दानग्गह संपयोगोहा । | भा. २३८ ] - अल्पा स्तोकविराधना मूलगुणेषु प्राणातिपातनिवृत्त्यादिषु रात्रिभोजनविरमणपर्यंतेषु अल्पा विराधना उत्तरगुणेषु पिंडविशुद्ध्यादिषु अल्पा विराधना पार्श्वस्थादिषु पार्श्वस्थावसन्नकुशील संसक्तेषु दानग्रहसंप्रयोगतः दानसंप्रयोगतो ग्रहणसंप्रयोगतश्च एषा ओधत ओधेनालोचना एवमालोच्य मंडल्यामेकत्रसमुद्दिशंति विहारविभागालोचनाया विधिमाह - [भा. २३९ ] भिक्खादिनिगए सुरहिते विवडंति फट्टगपईओ । सव्वसमक्खं केई ते विसरियंनुसारेति ।। वृ- भिक्षादिनिर्गतेषुभिक्षार्थमादिशद्वाद्विचारभूमिगमनार्थमन्यप्रयोजनार्थं वा बहिर्विनिर्गतेषु साधुषु किमुक्तं भवति यस्यां वेलायां शिष्याः प्रतीच्छकाश्चबहिर्विनिर्गता भवंति तदानिं रहिते रहितस्य एकाकिन आचार्यस्य समीपे स्पर्द्धकपतिकाः स्पर्द्धकखामिनो विकट्यंति, केचित् पुनराचार्या एतत् ब्रुवते ये स्पर्धकपतिना सह समागतः साधवस्तेषां समक्षं स्पर्धकपतयो विकटयंति, किंकारणमिति चेत् । आहते वीसरियंनुसारेति, यस्मात्ते यत् किमपि विस्मृतं तत् स्मारयंति कथयंति संप्रति यत् आलोचनीयं तदालोचनाविषयं विधिमाह [ भा. २४०] - मूलगुणापढमकाजा तत्थवि पढमं तु पंथमादीसु । पाय अमपज्जणादी बिइए उल्लाइ पंथे वा । बृ- इह द्विविधा अपराधा मूलगुणापराधा उत्तरगुणापराधाश्च, तत्र उभयसंभवे प्रथमं, मूलगुणत्ति मूलगुणापराधा आलोचनीयाः, तेष्वपि मूलगुणापराधेषु मध्ये प्रथमं मूलगुणापराधः प्राणतिपात इति, स प्रथममालोचनीयः । स च षड् जीवकायविषय इति कायाः प्रथमतः आलोचयितव्यास्ते च कायाः पृथिव्यादिक्रमेण तत्र सूत्रे उपन्यस्ता इति, तत्थवित्ति, तेष्वपि कायेषु पृथिव्यादिषु प्रथमं पृथिवीकायमेवमालोचयेत्, पंथमादीसु पायअपमज्जणादी, पंथादिषु यत्पादाप्रमार्जनादिकृतं किमुक्तं 1 For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy