SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- ८, मूल - २०१, [ भा. ३५९२] ३६३ एक्कं बहूण कप्पड़ हिंडंतु य चक्कवालेण वृ- अत्र परश्चोदयति यद्यतिरेकपात्रे गृह्यमाणेऽनन्तरोक्ता दोषास्ततोऽवमं गणनया हीनं पात्रं धारयतु । यथा यथाऽल्पोपधिता तथा तथा बहुबहुतरगुणसंभवात् । कथं तथा हीनं धारयत्वित्याह-एकं बहूनां पञ्चानां कल्पते ते च पञ्चजनाश्चक्रवालेन एकस्मिन् दिने एको द्वितीये द्वितीय इत्यादिरूपेण हिण्डतामेतदेव स्पष्टयति [भा. ३५९३ ] पंचहमेगपायं दस मेणं एकमेक्को पारेउ । संघट्टणादि एवं न होति दुविहं च सिंओमं ।। वृ- पञ्चानां जनानामेकं पात्रं भवतु । तेषां च मध्ये एकैकः क्रमेण चक्रवाललक्षणेन दशमेन पारयतु । यस्य यस्मिन् दिने पारणकं स तत्यात्रं गृहीत्वा हिण्डतामेवं च तेपां परिपाट्यादशमदशमातिक्रमे दिवसे वारके भवति । एवं च संघट्टनादिने दोषा न भवन्ति । किं च तेषां यद्विविधमवमौदर्यं द्रव्यावमौदर्यं पञ्चानामेकस्य पात्रस्य भावात् भावावमौदर्यं च दशमदशमातिक्रमेण पारणात् तत् गुणो भवति । आहारे उवगरणे दुविहमेव होति तेसिं तु । [ भा. ३५९४ ] सुत्ताभिहियं च कयं वेहारियलक्खणं चेव ।। वृ- द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च आहारविषयं भावावममुपकरणविषयं द्रव्यावममित्यर्थः । सूत्रे चाभिहितवैहारिकाणां विहारे हितं वैहारिकं तेन गच्छतां लक्षणमल्पोपधिताऽल्पाहारता च तत्कृतं भवति । एतदेवाह [भा. ३५९५ ] वेहारियाण मन्त्रे जहसिं जल्लेणमइलियं अंगं । मइलाय चोलपट्टा एवं पायं च सव्वेसिं ।। वृ-मन्ये यथा अमीषां वैहारिकाणां जल्लेन शरीरोत्थेन मलेनमलिनमङ्गं यथा च मलिनाश्चोपलट्टास्तथा सर्वेषामेकं पात्रं भवति तत एकपात्रग्रहणे वैहारिकालक्षणं कृतं भवति । अत्राचार्य आहजेसिं एसुवदेसो तित्थयराणं तु कोविया आणा । [भा. ३५९६ ] चउरोय अनुग्धाया नेगे दोसा इमे हुति ।। वृ- येषामेषउपदेशस्तैस्तीर्थकारणामाज्ञा कोपितास्तीर्थकरैः पात्रद्वयस्य प्रत्येकमनुज्ञातात्तेषां च प्रायश्चित्तं चत्वारो मासाः अनुद्घाता गुरवः । यत इमे वक्ष्यमाणा अनेके दोषा भवन्ति तानेवाह[भा. ३५९७ ] अद्धाणे गेलन्ने अप्प पर वयायभिन्नमायरिए । आदेस बालबुड्डा सेहाखमगाय परिचत्ता ।। वृ- अध्वनि ग्लानत्वेन आत्मा परश्च तैस्त्यक्तः । इयमत्र भावना - ये अध्वनिर्गता विस्मरणतः पतितोपधयः स्तेनापहृतोपधयो वा भिन्नपात्रा वा तद्विषये आत्मा परो वा त्यक्तो भवति । यदि तेषां पात्रं ददाति तदा आत्मा त्यक्तः पात्राभावे भिक्षाटनासंभवात् । अथ न ददाति अध्वनिर्गतास्त्यक्ता अपि बहूनामेषां पात्रमित्युक्तं तत एकेन पात्रेण यदानीतं न तेन बहवोऽध्वनिर्गताः संस्तरेयुः तथा ग्लानविषयेऽप्यात्मापरो वात्यक्तः स्यात्तथाहि-यदि ग्लानस्य ददातितत्पात्रं तदात्मा त्यक्तोऽथन ददाति तदापरो ग्लान इति । अन्यस्याध्वनिर्गतानां ग्लानस्य वा तत्पात्रार्पणे स्वयं कुलालभाण्डं वाचनीय स्यात्तच्चानीतं यदिकथमपिभिद्यते तदा तन्मूल्यं दाप्येत कलहादयो वा दोषाः स्युः । वयायत्ति व्रतान्यपि च परित्यक्तानि स्युर्यतः प्रत्येकपात्रग्रहणे एकत्रसंसक्त भक्तं पानं वा गृहीत्वा प्रत्युपेक्षत प्रत्युपेक्ष्यान्यत्र For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy