SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ व्यवहार- छेदसूत्रम् - २८/२०१ धारेत्तएवापरिग्गहितएवासोवाणंधारेस्सइ नो से कप्पइतं अनापुच्छित्ता अनामंतिय अन्नमन्नेसिंदाउं वा अनुप्पयाउं वा, कप्पइ से तंआपुच्छिय आमंतिय अन्नमन्नेसिं दाउँ वा अनुप्पयाउं वा । [भा. ३५८८ ] उवही दुरठाणे साहम्मि व तेन खखणा चेव । अनवत्तेते उ इमं अतिरेगपडिग्गहे सुत्तं ।। वृ- अनन्तरसूत्रे इदमुक्तं विस्मरणतः पतित उपधिर्दूरादप्यध्वन आनेतव्य इत्युपदेशः कृतो अन्येषां च विस्मरणः पतितं गृहीत्वा दूरेऽपि येषां सत्कस्तेषां दातव्योऽन्यथाऽदाने साधर्मिका चोरिका स्यात् । तत उपधौ दूराध्वनि साधर्मिकस्तैन्यरक्षणेऽनुवर्तमाने इदमप्याधिकृतं सूत्रमतिरेकपतद्रहविषयं दूराध्वाधिकारे साधर्मिकस्तैन्यरक्षणाधिकारेऽभिहितामित्येष सूत्रार्थः । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्ग्रन्थानां निर्गन्धीनां वा अतिरेकमतिरिक्तं पतद्रहं अन्यस्य अर्थाय इदमविशेषितं वचनंसाधर्मिकस्यार्थायेति द्रष्टव्यं । धारयितुंवा स्वयं वा परिग्रहितुंसोवाणं धारयिष्यति इदं विशेषितवचनं अमुको गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः साधुः तस्य भविष्यतीति भावः अहं वा नं धारयिष्यामि ममैव भवीष्यतीति भावः । अन्यो वाणमिति सर्वत्र वाक्यालङ्कारे धारयिष्यति । इदं विशेषितवचनं अमुको गणी वाचकोऽन्यो वा विशेषानिर्दिष्टः । साधुः यस्य कस्याप्यहं दास्यामि न वा से तस्य कल्पते । यस्य विशेषतो निर्दिष्टं अमुकस्य दातव्यं तं अनापृच्छय अनाम्म्रत्र्य वा अन्येषां अन्येषां यदृच्छया दातुं वा अनुप्रदातुं वा, कल्पते से तस्य तान् आपृच्छ्य आमन्त्र्या च अन्येषामन्येषां दातुं वा अनुप्रदातुं वा एष सूत्राक्षरसंस्कारः । अधुना भाष्यकृत् सामान्यविशेषवचनरुपयोरुद्देशनिर्देशयोः स्वरुपमाह[भा. ३५८९ ] साहम्मिय उद्देसो होइ इत्थि पुरिसाणं । ३६२ गणिवायगनिद्देसो अमुगगणी वायए इयरो || वृ- साधर्मिक इत्युद्देशी भवति स्त्रीणां पुरुषाणां वामिधानमिति निर्देशः । अथवा गणी वाचक इत्युद्देशः | अमुको गणी अमुको वाचक इतीतरो निर्देशः । सम्प्रति नियुक्तिविस्तरःऊनातिस्तिधरणे चउरो मासा हवंति उग्धाया । आणाइणो य दोसा संघट्टणमादिपलिमंथो || [भा. ३५९० ] वृ- गणनया प्रमाणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्यधरणे प्रायश्चित्तं चत्वारो मासा उद्घाता लघवः आज्ञादयश्च दोषास्तथा पात्रपरिकर्मणां कुर्वन् तज्जातान् प्राणान् संघट्टयति आदिशब्दात् परितापयति अपद्रावयति वा ततस्तन्निमित्तमपि तस्य प्रायश्चित्तं तथा प्रतिदिवसमुभयकालं पात्राणि अन्यद्वातिरिक्तमुपकरणं प्रत्युपेक्ष्यमाणस्य परिमन्थः सूत्रार्थव्याघात तस्मात् गणनया प्रमाणेन च सूत्रोक्तमुपकरणं धारयितव्यं । तत्र पात्रमधिकृत्यातिरेकं व्याख्यानयित [भा. ३५९१] दो पायाणुन्नाया अतिरेगं तइयं - पात्रं च माणातो । धारते पाणक्कड्डणभारे पडिलेह पलिमंथो || वृ - द्वे पात्रे तीर्थकरैरनुज्ञाते । तद्यथा पात्रं मात्रं च । यदि तृतीयं पात्रं गृह्णाति तदा गणनयातिरेकं भवति । यच्च प्रमाणं पा६ स्योक्तं ततो यदि बृहत्तरं गृहाति तदा प्रमाणतोऽतिरेकं तत्र गणनया प्रमाणेन वातिरिक्तं पात्रं धारयति । परिकर्मखायां तज्जातातज्जातप्रमाणसंघट्टणमुपलणमेतत् । प्राणानां परितापनमपद्रावणं च तथाध्वनि तद्वहने भारः उभयकालं प्रतिदिवसं प्रतिलेखने परिमन्थः । चोदेति अतिरंगे जइ दोसा तो धरेड उभंतु । [भा. ३५९२] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy