________________
૨૨૮
व्यवहार-छेदसूत्रम्-२- ८/१९० [भा.३४०२] अझुसिरमादीएहिं अनिसिटुंतुपंचिगाभयणा ।
अहसंथडपासुद्धे विवजए होतिचउलहुगा ।। वृ- अझुषिरादिभिः पादरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरूपेषु इयं वक्ष्यमाणा भजना विकल्पना । तामेवाह-अह संथडेत्यादि शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरुपः संस्तारकः स गृहीतव्यस्तदभावे पार्थेनकृतस्तस्याप्यभावे ऊर्ध्वकृत एवं क्रमेण यतनया ग्रहणं कर्तव्यम् । यदि पुनर्विपर्यासेन गृह्णाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । [भा.३४०३] अंतो वस्सयबाहिं निवेसवाडसाहिएग्गामे |
खेत्तंतो अन्नगामखेत्तबहिंवा अबोवच्छं ।। दृ-एवमन्तर उपाश्रवस्य यदि संस्तारकं फलकरुपनलभतेतदाबहिरुपाश्रयस्य तथैव गृहीतव्यः । तत्राप्यलाभेऽनेनैवक्रमेण निवेशनादानेतव्यस्तत्राप्यसति वाटकात् तत्राप्यलाभेसाहीतः तत्राप्यसति दूरादपि ग्राममध्यादांनेतव्यो ग्राममध्येऽप्यसति क्षेत्रान्तस्तत् क्षेत्रमध्या भावादन्यग्रामादानेतव्यस्तत्राप्यसति क्षेत्रावहिष्टोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्तव्यं यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः सम्प्रत्यानयने यतनामाह[भा.३४०४] सुत्तंचं अत्थं च दुवे विकाउंभिक्खं अडतो उदुए विएसे ।
लाभे सहएतिदुवेविघेत्तुंलाभासती एगदुवेव हावे ।। वृ-सूत्रंच अर्थंच द्वावपिकृत्वा भिक्षामटन द्वावप्येषयेत् गवेषयेत् तद्यथा भिक्षांसंस्तारकंच, तत्र लाभेसतिसमर्थोद्वावपिगृहीत्वा प्रत्यागच्छतिलाभासतिभिक्षांगतस्यसंस्तारकाभावे एकं सुत्रमर्थवा यदि वा द्वावपिहापयतिसंस्तारकगवेषणेन | [भा.३४०५] दुल्लभेसेजसंथारेउउबद्धंमि कारणे ।
मग्गणमि विहीएसोभणतो खेत्तकालतो ।। वृ-ऋतुबद्ध कालं कारणे समापतितेदुर्लभेशय्यासंस्तारके यन्मार्गणंतत्रक्षेत्रतःकालतच विधिरेष भणितो अनेन विधिना(ना)न्यथेति । - [भा.३४०६] उउबद्धे कारणमि अगेण्हणेलहुगगुरुगवासासु।
उउबद्धे जंभणियंतचेव य सेसयंवोच्छं ।। वृ- ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं गृहीतव्यः संस्तारकरततः तत्र तस्याग्रहणे चत्वारो गुरुकाः । तथा या ऋतुबद्धे काले यतना भणिता गवेषणादौ सर्वेसावर्षास्वपिद्रष्टव्या शेिषं वक्ष्याम | प्रतिज्ञातमेव करोति । [भा.३४०७] वासासु अपरिसाडी संथारो सो अवस्स घेत्तव्यो ।
मणिकुट्टिमभूमीए वितमगेण्हाणेचउगुरुआणा !। वृ- वर्षासु यदि मणिकुट्टिमायां भूमी वसन्ति तथापि संस्तारकोऽपरिशाटिः फलकरुपोऽवश्यं गृहीतव्यस्तमगृह्णाति प्रायश्चित्तं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतत् अनवस्थादयश्चदोषाः । [भा.३४०८] पाणासीयलकुंथू उप्पायगदीहगोम्हि सिसुनागे ।
पणए य उवहि कुत्थणमलउदकवहो अजीरादी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org