________________
उद्देशक :
:-७, मूल- १८२, [भा. ३३२१]
३१३
वृ- किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते । अशिवावमौदर्यादिकमादिशब्दात् म्लेच्छपरचक्रादि भयपरिग्रहो बहिः कारणजातं भवेत् ? तत एतैः कारणैर्ब्रतुबद्धेऽपि काले पूर्वमनुशिष्ट्यानुलोमनं क्रियते । कथं क्रियते इत्याह
[भा.३३२२]
सगिं जंपति रायाणो सगिं जंपति धम्मिया । सगिं जंपति देवावि तंपि ताव सगिं वदा ।।
वृ- सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति धार्मिकाः सकृञ्जल्पन्ति देवा अपि त्वमपि तावत्सकुद्वदसि ततः स्वयमुक्त्वा कथमकस्मान्निष्काशयसि ।
[भा. ३३२३]
अनुलोमिए समाणे तं वा अन्नं वज्रइ उदेजाहि ।
अनोवनुकंयाए देज्जाहीवक्कयं तस्स ||
बृ- एवमुक्तेनप्रकारेणानुलोमिते सति तामन्यां वा यदि वसतिं दद्यात् यदि वा अन्योनुकम्पया तस्य वक्रयं भाटकं दद्यात् ! [भा. ३३२४]
अन्नं व देवसहिं सुद्धमसुद्धं च तत्थ ठायंति । असती पुरुसा विजइननीमो दाउण को तंसि ||
वृ- अन्यां वा वसति मन्योऽनुकम्पया दद्यात् किं विशिष्टामित्याह- शुद्धामशुद्धां वा शुद्धां विशुद्धय विशुद्धि कोटिरहितामशुद्धां विशुद्ध्य विशुद्ध कोटिदूषितां वा तत्र तिष्ठन्ति अथ स तामन्यां वा वसतिं न ददाति नापिकोप्यन्यो भाटकं शुद्धामशुद्धां वसतिं तदाऽसति एकस्या प्युक्तरुपस्य प्रकारस्याभावे स पुरुषते पोरुषी क्रियते कथमित्याह छिन्न कालां वसतिं दत्वा संप्रत्य सम्पूर्ण एव काले अस्मान्निष्काशयसि न निर्गच्छामः । कः स्वं वसतिं दत्त्वा साम्प्रतमसि दत्वा दानमनीश्वर इति वचनात् अथ किञ्चिक्तव्यं तर्हि राजकुले गच्छामः एवं परुषितो यदि तिष्ठति ततः सुन्दरमथ न तिष्ठति तदा राजकुले गन्तव्यं । [भा. ३३२५] रायकुले ववहारे चाउम्मासं तु दाउनिछुभती ।
पच्छाकडाय तहियं दाऊणभणीसरो होति ।।
वृ- राजकुले गत्वा व्यवहारः क्रियते । कथमित्याह-चतुर्मासं दत्वा एषोऽस्मान्निष्काशयति तत्र राजपुरुषैर्दत्त्वा दानमनीश्वरो भवतीति न्यायमनुसरद्भिः पश्चात्कृतः ।
[भा. ३३२६]
पच्छा कडो भणेज्जा अच्छउ भंडं इहन्निवार्यमि ।
अहयं करेमि अन्नं तुब्भं अहवा वि तेसिंतु ।।
वृ- सउक्तप्रकारेण राजकुलेपश्चात्कृतः सन् ब्रूयात् इह यत्र यूयं तिष्ठथ च तत्र निवातेभाण्डं क्रयाणकं तिष्ठतु अन्यथा कोपिष्यति । युष्माकंपुनरन्यां वसतिं करोमि । अथवा तेषां क्रयाणकानां योग्यमन्यत्स्थानं करोमि ।।
[भा. ३३२७]
असती अन्नाए ऊ ताहे उवेहा न पच्चनीयतं ।
ठायंति जत्थ जंपति चोए कम्मादि तहिं दोसा ।।
वृ- एवमुक्ते यदान्या वसतिः प्राप्यतेतदा तत्र गन्तव्यमथान्या वसतिर्नास्तितदाऽन्यस्या वसतेरभावे उपेक्षा कर्तव्या । किमुक्तं भवति ? यद्यन्यां वसतिं क्रीत्वा ददाति अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यं न पुनः तत्रैवास्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयं स हि प्रत्यनीकीकृत्यः सन् साधूनामन्यस्य वसतिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जल्पति ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International