________________
उद्देशक :- ७, मूल - १८२, [भा. ३३०८]
३११
संयता वा शंक्यंते यथा नूनमेतैरस्मद्भाण्डमपहृतमथवा एतेषां द्वारेण स्तेनैरपहतं यदि वा एतैरेव संयतैः कस्यापि दुस्थितस्य सम्प्रदत्तमिति । एवं शङ्कायां स विनाशं वा कुर्यात् । यदि वा राजकुलेऽन्यत्र वा नीत्वा वा ग्रामबृहत्पुरुषपार्श्वे कर्षणं तत्र भूयसी जनगर्हेति
[भा. ३३०९ ]
पेहाविया रज्जायादी जे य दोसा उदाहिया । अच्छंते ते भवे तत्थ वयए भिन्नकप्पता ।।
वृ- ये दोषाः पूर्वं कल्पाध्ययने मद्योदकधान्यसालादिषु सागारिके चोपाश्रये प्रेक्षायां विचारभूमौ स्वाध्यायादौ वाऽमिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुरथैतद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पता दोषा मासकल्पे वर्षाकालकल्पे वा अपरिपूर्ण एव सति निर्गमात् ।
[भा. ३३१०]
भिक्खं गते वा तेसु वक्कति बेतिनीहमे ।
नीनिएवा विपाले नं उवहिस्सासिवावणा ।।
वृ- भिक्षां गतेषु वा तेषु साधुषु वक्रयीभाटकेन गृहीतशालादिको ब्रूते । यथा निर्गच्छत यूयं मम गृहात्तदा भिक्षाटन व्याघातस्तत्कालमन्यवसत्यलाभेजनगर्हा सूत्रार्थव्याघातश्च । अथवा तेषु भिक्षांगतेषु पश्चादागत्य वसतिपालं निष्काशयन्ति तस्मिन् निष्काशने नमिति वाक्यालङ्कारे उपधिः स्यादशिवापन स्तेनैरपहरणं विस्मरणतो वा नशनमिति ।
[भा. ३३११]
अहवा भरियभाणाउ आगत जइनिच्छुभे । भत्तपानविनासोउ भुञ्जएसागते इमे ।।
बृ- अथ भक्तभृतभाजनानागतान् यदि निष्काशयति तदा गृहीतभक्तपानं विनाशो गतं भिक्षाद्वारमधुना भोजनद्वारमाहअथ भुञ्जानेषु स वक्रयी समागतस्तदा इमे वक्ष्यमाणा दोषाः तानेवाहः[भा. ३३१२] जिया अट्टि सरक्खावि लोगो सव्वोविवोहितो ।
पगासिए य अन्नेसिं हीला होइ पवयणे ।।
वृ- साधून साधुक्रियया भुञ्जानान् दृष्ट्वा स विपरिणतभावो ब्रूते जिता एतैरस्थिसरजस्का अपि कापालिकास्तेभ्योऽप्यमी हीनाचारा इति भावस्तथा लोकः सर्वोऽप्येतैः पाणकैरिवैकत्र भुञ्जानैर्वोटितो विट्टालितो न केवलं स एवं तत्र ब्रूते - किन्त्वन्येषामपि जानानां स प्रकाशयति, प्रकाशिते वान्येषां प्रवचनस्य हीला भवति तदेवं भुंजणत्ति व्याख्यातमधुना ग्लानद्वारमाहसीयवायाभितावेहि गिलाणो जंतु पावई । अमंगलं भउक्खित्ते ठाणमन्नोवि नो दए । ।
[भा. ३३१३]
वृ- शीतेन वातेन अभितापेन च यत् ग्लानो आगाढादि परितापनं प्राप्नोति तन्निष्पन्नं स्पर्धकपतेराचार्यस्य वा प्रायश्चित्तं तथा तैर्निष्काशितैम्लन उत्क्षिप्तस्तस्मिन उत्क्षिप्ते वसतिमन्यां मार्गयतां मृतोऽयमित्यमङ्गलमितिकृत्वा मारिस्पृष्टोऽयमिति भयेन वाऽन्योऽपि कश्चित्स्थानं न ददाति ।
[भा. ३३१४] गहिते उत्थाणरोगेन अच्छंते नौनियंमि वा ।
वोसरियंमि उड्डाहो धरणे वायविराधना ।।
वृ तथा ग्लाने उत्थाणरोगेणातीसाररोगेण गृहीते तिष्ठति निष्काशिते वाऽतीसारे दोषस्तथा चाहव्युत्सृष्टे उड्डाहो धरणे चात्मविराधनामरणगाढतरग्लानस्य वा भावात् । उपसंहारमाहएए दोसा जम्हा तहियं होंति उठायमाणाणं ।
[भा. ३३१५]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org