________________
३००
व्यवहार - छेदसूत्रम् - २ ७/१८०
बृ- ज्ञाते क्षेत्रे यत् पूर्वं दृष्टं तदेव स्थण्डिलं भवति । अज्ञाते यदि वेलायां प्राप्तास्तदा संज्ञादिगताः स्थण्डिलं प्रेक्षन्ते ।
[भा. ३२५६ ]
अह पुन विकाले पत्ताई ता चेव उकरति उवओगं । अकरणे हवंति लहुगा वेलं पत्ताण चउगुरुगा ।।
वृ- अथ पुनर्विकाले विकालवेलायां प्राप्तास्तत आगच्छन्त एवं स्थण्डिलविषयमुपयोगं कुर्वन्ति अथ प्रमादतोऽमङ्गलबुद्ध्या वा न कुर्वन्तितदा उपयोगस्याकरणेचत्वारो लघुकाः प्रायश्चित्तं, वेलाप्राप्तानां पुनः स्थण्डिलविषयोपयोगःकरणे प्रायश्चित्तं चत्वारो गुरुकाः ।
[भा. ३२५७ ]
आणादिणो य दोसा कालगते संभमादिसं हुजा ।
अच्छंतमनच्छन्ना विनासगरिहं च पावेति ।।
बृ- न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषास्तथा तेषां मध्ये कोऽपि रात्रौ कदाचित्कालं कुर्यात्तत्र स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापयन्ति । अपरिष्ठापयत्तां च वेतालोत्थानदोषः अथ परिष्ठापयन्ति तर्ह्यस्थण्डिलदोषासंग: । तथाहि रात्रौ वह्नि संभवो वा स्तेन संभ्रमो वा परचक्रविभ्रमो वा जातः सोऽपि च व्रती कालगतः स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापितस्तत्र यदि अग्निसंभ्रमादिषु कथमनाथकलेवरमिति त्यक्त्वा व्रजाभो मा प्रवचनस्योड्डाहो भूदिति विचित्य तिष्ठन्ति तस्य समीपे तदा तेषामग्न्यादेर्विनाशं उपधिर्वा स्तेनादिभिरपग्रहणं अथ न तिष्ठन्ति । किन्तु तत्त्यक्त्वा पलायन्ते तदा ते जनमध्ये प्राप्नुवन्ति । अथवा स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति । तदा मलिनैर्वस्त्रैस्तस्मिन्परित्यज्याने प्रवचनस्यापभ्राजना अहो अमी वराका अदत्तदाना मृता अपि शोभां न लभते । संभमादिसु होजा इत्यादिकमेव व्याख्यानयति
[भा. ३२५८ ]
तेनगि संभमादिसु तप्पडिबंधेन दाहो हरणंवा । मइलेहिवच्छडुंती गरिहाय अथंडिलेवावि ।।
वृ- स्तेनाग्रिसंभ्रमादिष्वादि शब्दात्परचक्रसंभ्रमादि परिग्रहः तत्प्रतिबन्धेन कालगतप्रतिबन्धेन तिष्ठतामग्निदाहं स्तेनैर्वाहरणं स्यात् । अथ स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति । तदा मलिनैर्वस्त्रैरुपेतं छर्द्दयन्तीति गर्हा स्यात् । अथैतद्दोषभयाद्वा तद स्थण्डिलेऽपि परिष्ठापयन्ति तदा अस्थण्डिले परिस्थापनादोषः । [भा. ३२५९]
एएदोस अपेहिय अह पुन पुव्वं तु पेहितं हाति । ता ताहिच्चिय निभाए ते दोसा न होताय ।।
बृ- एते अनन्तरोदिता दोषा अप्रेक्षितेस्थण्डिले भवन्ति । अथपुनः पूर्वं प्रत्युपेक्षितमभविष्यत्त एते अनन्तरोदिता दोषा ना भविष्यन् ।
[भा. ३२६०]
Jain Education International
अह पेहिएवि पुच्विं दियाव रातो व होज वाघातो ।
सावय तेन भया वा ढक्कि या ताहे अत्थावि (तो) । ।
वृ- अथ पूर्वं प्रेक्षितेऽपि स्थण्डिले दिवा वा रात्रौ वा भवेत् व्याघातः कथमित्याहस्वापदभयात् स्तेनभयाद्वा यदि वा रात्रौ द्वाराणि ढक्कितानि पिहितानि तदा आस्थापयन्ति धरन्ति न परिष्ठापयन्तीत्यर्थः । तदा बन्धनच्छेदनजागरणादिका पूर्वोक्ता यतनापि, (वा) स्थाण्डिलस्य व्याघातः तर्हि यावत्स्तेनादि भयापगमो भवति स्थण्डिलं वा किमपि कालोचित्तं प्राप्यते, तावत्सैव प्राक्तनी यतना कर्त्तव्या ।।
For Private & Personal Use Only
www.jainelibrary.org