________________
उद्देशक : १, मूलं : १, [भा. २१०]
७५
नवनामानि भवंति एषगाथाक्षरार्थः अधुना भावार्थ उच्यते, तत्र नामस्थापनं प्रतीत, द्रव्यपरिहारी द्विधा आगमतो नो आगमतश्च तत्रागमलः परिहारशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिधा ज्ञशरीरं भव्यशरीरं तद्व्यतिरिक्तः तत्र ज्ञ शरीर भव्य शरीरे प्राग्वत् । तद्व्यतिरिक्त परिहार परिय परिहारादि प्रतिपादनार्थ माह भा. २११/
-
बृ- द्रव्य इति द्वार परामर्शः नो आगमतो ज्ञ शरीर भव्यशरीरव्यतिरिक्तो द्रव्यपरिहारोनाम यत् कंटकादि कंटकमादिशद्वात् स्थाणु विषसप्पादिकं च परिहरति द्रव्यस्य परिहारो द्रव्यपरिहार इति व्युत्त्यतेः । परिरयो नाम पर्याहारः परिधिरितियावत् उक्तं च पज्जाहारोत्तिवा परिरओति वा एगठं; परिरयेण परिहारः । परिरय परिहारः स च परियो भवति संभवति, गिरि नद्यादीनां विषयेइयमत्र भावनायत् गिरिनदीमादि शब्दात् समुद्रमटवीं वा परिरयेण परिहरति एष परिश्यपरिहारः । तथा परिहियते इति परिहरणां भावे अनट्तच्चद्विधा लौकिकं लोकोत्तरं च तत्र लौकिकं यथा माता पुत्रं परिहरति भ्रातरं परिहरति न परिभुंक्ते इत्येवमादि, लोकोत्तरं साक्षादाह - परिहरणाधरणाभोगे
लोकोत्तरं परिहरणं द्विधाधरणे भोगेच । धरण परिहरणां, परिभोगपरिहरणं चेत्यर्थः, तत्र धरणपरिहरणां नाम यत् किमप्युपकरणां संगोपयति प्रतिलेखति च न परिभुंक्ते, परिभोग परिहरण यत् सौत्रिककल्पादि परिभुंक्त प्रावृणोतीत्यर्थः । उक्तंच,
लोगे जहमाताऊ पुत्तं परिहरति, एवमादीओ लोउत्तर परिहारो दुविहो परिभोग धरणेयं । अत्रैवंव्युत्पत्ति परिहरणमेवपरिहारः । परिहरणा परिहार: लोउत्तरवज्जइतरिए वर्जवर्ज्यं, तद्विधा लोगत्ति लौकिक, उत्तरति लोकोत्तरं, लौकिकं द्विधा इत्वरं यावत् कथितं च, तत्रेत्वरंयत् सूतकं मृतकादिदशदिवसान् यावत्वर्ज्यते इतियावत्कधितं बरुडछिपकचर्म्मकारडोंबादि एतेहियावज्जीवं शिष्टैः संभोगादिना वर्ज्यते, लोकोत्तरमपविर्ज्यं द्विधा इत्वरंयावत्कथितं च तत्रेत्वरं दाने अभिगमसड्डे इत्यादि यावत्कथि कमङ्कारसपुरिसेसुंवीसं इथ्वीसुदसनपुंसे, इत्यादि वर्ज्य इत्तरिए इत्यत्रेत्वरग्रहणमुपलक्षणां तेन यावत्कथिकमित्यापिद्रष्टव्यं तस्यपरिहारः परित्यागो वर्जन परिहारः । खोडादिभंगनुग्गहभावे आवणसुद्धपरिहारो । मासादी आवणां तेनउ पगयं न अन्नेहिं ।।
| भा. २१२ |
?
Jain Education International
कंटगमादी दव्वे, गिरिनदि माईण परिरयो होइ परिहरणधरणाभोगे. लोउत्तरवज्ज इत्तरिए ।
बृ. खोटभंगइतियाउक्कोडभंगइतिवा अक्षोभंगइतिवा एकार्थ, उक्तंच निशीथचूर्णोखोटभंगोत्तिबाउक्वोडभंगोत्तिवा अक्खोड भंगोत्ति एगट्टं । । खोटंनामयत् राजकुलेहिरण्या विद्रव्यंदातव्यं । आदिशब्दात् वेष्टिकरणं चारभटादीनां भोजनादि प्रदानमित्यादि परिग्रहः, खोड़ादेर्भगः खोडादिभंगाऽनुग्रहः पदैकदेशेपदसमुदायोपचारादनुग्रहपरिहारः । एतदुक्तं भवंति राजकृतानुग्रहवशेन एकद्वित्र्यादि वर्ष मर्यादयाथयोक्तरूपखोटादिभंजन एकंद्वे त्रिणि वर्षाणि यावत् वसति तावन्तंवाकालंयावत् राज्ञानुग्रहः कृतस्तावंतंकालं वसति न च हिरण्यादि प्रददाति नापि वेष्टिं करोति न चापि चारभटादीनां भोजनादि प्रदानं विधत्ते एष खोटादिभंगोअनुग्रह परिहारः, भावेइति भावविषय परिहारो द्विधा तद्यथा आपन्नपरिहारः शुद्धपरिहारश्च तत्र यत् विशुद्धः सन् पंचयाममनुत्तरं धर्मं परिहरति करोति, परिहारः शब्दस्य परिभोगेऽपिवर्त्तमानत्वात् स शुद्धपरिहारः शुद्धस्य सतः परिहारः पंचयामानुत्तरधर्म्मकरणं शुद्धपरिहार
For Private & Personal Use Only
www.jainelibrary.org