________________
७६
व्यवहार - छंदसूत्रम् - ११/१ इति व्युत्पत्तेः यदिवा यो विशुद्ध कल्पव्यवहार क्रियते, स शुद्धपरिहार शुद्धश्चासौ परिहारश्च शुद्धपरिहार इति व्युत्पत्तेः । यथा यत् मासिकं वा यावत् षण्मासिकं वा प्रायश्चित्तमापनं तत् आपने अपरिभोगपिवर्त्तते, परिहियते इति, परिहारः । कर्म्मणिधञ् आपन्नेमेव परिहारः । आपन्नपरिहार इति व्युत्पत्तेः तथाचाह मासादी आवत्रे इति मासादिकं यत्प्रायश्चित्तस्थानमापन्नं तत् आपने आपन्नपरिहारे द्रष्टव्यं मासादिकं यत् प्रायश्चित्तस्थानमापन्नं तत् आपन्नपरिहार इति भावः । अथवा परिहरणां परिहार इति भावेधञ् । आपन्नेन प्रायश्चित्तस्थानेन परिहारो वर्जनं साधोरितिगम्यते आपन्नपरिहारः । तथाहि स प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत् प्रायश्चित प्रतिपत्त्यान विशुद्धो भवति तावत् परिहियते इति इह तेन आपन्नपरिहारेण प्रकृतमधिकारो न शेषेः परिहारैः तदेवं परिहार शब्दनिक्षेप प्ररूपणकृता, संप्रतिस्थानशब्दे निक्षेपप्ररूपणार्थमाह
[ भा. २१३ ]
-
नामंठवणादविए, खेत्तऽद्धा उड्डवसहि विरतीय । संगमपग्गहजी हे अचलगणाण संधणा भावे ।।
वृ . इह स्थानशब्द प्रकरणात् प्रत्येकमभिसंबध्यते । नामस्थानं दविए इति द्रव्ये द्रव्यस्य स्थानं द्रव्यस्थानं क्षेत्रस्थानं अद्धाकाल इत्यनर्थांत काले काल एववास्थानं कालस्थानं उर्ध्वस्थानां वसतिस्थानं विरतिस्थानं संयमस्थानं प्रग्रहस्थानं योधस्थानमचलस्थानं गणनास्थानं संधनास्थानं भावेभावविषयं 1 एषगाथाक्षरार्थः । भावार्थ उच्यते तत्र नामस्थापने प्रतीते द्रव्यस्थानं द्विधा आगमतो नीआगमतश्च आगमतः स्थानशब्दार्थज्ञातातत्रचानुपयुक्तः, नोआगमतो ज्ञशरीर भव्यशरीर तद्व्यतिरिक्त भेदात् त्रिविधं तत्र ज्ञशरीरभव्यशरीरे प्रतीते इति, तद्व्यतिरिक्त द्रव्यस्थानं क्षेत्रादि स्थानं च प्रतिपादयति । । [ भा. २१४ ] सचित्तादीदव्वंखेत्ते गामादि अट्ठ दुविहाओ ।
सुरनागभवठाणं सेसाणं कायभवठाणं ।।
बृ- ज्ञशरीर भव्यशरीर व्यतिरिक्तं नो आगमती द्रव्ये द्रव्यस्य स्थानं त्रिधा सचित्तादि । पदैकदेशे पदसमुदायोपचारादेवं निर्देशो यावत्पुनरिदंद्रष्टव्यं सचितद्रव्यस्थानादि तद्यथा सचित्तद्रव्यस्थानमचित्तद्रव्यस्थानं मिश्रद्रव्यस्थानं च । तत्र सचित्तद्रव्यस्थानमपि त्रिधा द्विपद सचित्तद्रव्यस्थानं चतुष्पद सचित्तद्रव्यस्थानमपदसचित्तद्रव्यस्थानं च तत्र दिने दिने यत्र मनुष्या उपविशंति, तच्च द्विपदानां सचित्तद्रव्याणां स्थानं यत्र पुनर्दिनेदिने चतुष्पदागवादयो निवसंति तच्च चतुष्पद सचित्तद्रव्यस्थानं यत्रपुनर्गुरुकंफलं निक्षिप्यते तत्रापदानां हरितकायानां स्थानं जायते किलेति तत् अपदसचित्तद्रव्यस्थानं यत्र फलकादीनि निक्षिप्यते तत् अचित्तद्रव्यस्थानंयत्पुनस्तेषामेव द्विपदादी नामलंकृतविभूषितानां स्थानं जलभृतस्य वाघटस्य यत् स्थानं तत् मिश्रद्रव्यस्थानं खेत्ते गामादिइति । क्षेत्रे विचार्यमाणे गामादि द्रष्टव्यं किमुक्तं भवति, क्षेत्रं नामग्रामनगरादिस्तस्यस्थानं क्षेत्रस्थानं, अथवा यत्र क्षेत्रे ग्रामादिग्राम नगरादि निवेश्यते तत् क्षेत्रं ग्रामादीनां स्थानमिति क्षेत्रस्थानं क्षेत्रमेवस्थानं क्षेत्रस्थानमिति व्युत्पत्तेः, तथा च लोके ग्रामादीनामुद्वसितानां स्थानमवलोक्यवक्ताभवति । इदं ग्रामस्थानमिदं नगरस्थानमिति अद्धदुविहाउ इत्यादि । अद्धाकालः स द्विधा जीवेषु अजीवेषु च तत्राजीवेषु यस्य यावती स्थितिः तस्यतावान् कालः स्थानं जीवेषु संसारिषु पुनर्द्विविधः कालः कार्यस्थितिः भवस्थितिश्च तत्र सुरनारकाणामेकभवावस्थानात् भवस्थानं भवस्थितिः कालस्थानं, शेषाणां तिर्यड्मनुष्याणामनेकभवग्रहणसंभवात् कायभवस्थानं यथासंभवाकाय स्थितिः कायस्थानं अवस्थितिः, श्रवस्थानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org