________________
२६२
व्यवहार-छेदसूत्रम् -२-७/१७३ मंगलत्वात्तथाहि अन्येषां परमश्रद्धाजननं, यथैकोऽमुकस्याङ्गस्यश्रुतस्कन्धस्य च पारगत आचार्येण चैवंसकलजनसमक्षं पूजितस्तस्माद्वयमपिगाढतरमुत्साहंकुर्म इति, तथा अध्ययनानांवाव्यवच्छेदोऽन्यथा नानुज्ञातमन्येषां दीयते इति तेषां व्यवच्छेदःस्यात् । अत्रैवापवादमाह[भा.३०३५] बिइयपयं आयरिएअंगसुयक्खंधमुद्दिसंतंमि ।
मंगलसद्धाभयगोरवे य तह निठिएचेव ।। वृ-सपक्षे उद्देशः कर्तव्यो न परपक्षेइत्युत्सर्गः ।अत्रद्वितीयपदमपवादपदं यदि प्रवर्तिन्यास्तत् श्रुतं न विद्यतेतत आचार्यः परपक्षेऽपिसंयतीरुपेअङ्गश्रुतस्कन्धंवाउपलक्षणमेतदध्ययनादिकंचोदिशति । अथवासत्यपितस्मिन्प्रवर्तिन्याः श्रुतेआचार्ये संयत्वा अङ्गं श्रुतस्कन्धंवाउदिशतिमङ्गलादीनि भवन्ति ततः स एवोदिशति । स परमं ज्ञानपात्रामिति मङ्गलबुद्धिरुपजायते तथा यस्मादाचार्येणोद्दिष्टमिदमत आदरेण पठनीयमिति तत्पाठविषया महती श्रद्धा भवति । तथा यदि पाठे प्रमादं करिष्यामि ततो न पठितमित्याचार्यारुष्येयुरितिभयं तथा ममेदमाचार्येणगौरवेणोद्दिष्टंतस्मादादरेणपठित्वाशीभ्रंसमाप्ति नयामि | तह निढ़िए चेवात्ति तदा निष्ठिते अङ्गे श्रुतस्कन्धे वा समाप्ति नीते यथासंभवमेतैरेव कारणैरङ्गं श्रुतस्कन्धं वाचार्योऽनुजानीयात् । [भा.३०३६] एमेव संयतीवा उद्दिसंतीसंजयाण बिइयपदे ।
असतीएसंजयाणंअज्झयणाणंचवोच्छेदो ।। वृ- तत् विवक्षितं श्रुतं संयतानां न विद्यते अध्ययनानां चान्यथा व्यवच्छेदः स्यात् ततो द्वितीयपदेनापवादपदेन गाथायांसप्तमी तृतीयार्थे संयत्यपि संयतानामुदिशति । [भा.३०३७] एवं ताउद्देसो अज्झाओवी न कप्पइविगिठे ।
दोहंपिहुंतिलहुगा विराधनाासेव पुव्वुत्ता ।। वृ- एवमुक्तेन प्रकारेणतावदुद्देशोऽभिहितो यथाव्यतिकृष्टे कालेसन क्रियतेअध्यायोऽप्यध्येयमात्मविराधना च ।तत्रज्ञानविराधनाज्ञानाचारहननादात्मविराधनाप्रान्तदेवताच्छलनात् । [भा.३०३८] बितियविगिठेसागारियाएकालगय असतिवुच्छेदो ।
एवं कप्पइतहियं किं ते दोसान संतीओ ।। वृ-कदाचित्साधवः कारणेन सागारिकायांवसतौ स्थितास्तत्रपरिचारणाशब्दं श्रुत्वा यस्य यत्पराजितं स तत्परावर्तयति । आदि शब्दात् स्तेनकादिष्यपि समापतत्सु यस्य यत्पराजितं स तत् गुणयति परिग्रहस्तथा कालगतः संयतो यदि कारणेन प्रतीक्षापयितव्योभवति । तदा रात्रौ जागरणनिमित्तं यस्य यत्पराजितंसतत्परावर्तयति । तथा यस्य सकाशेतत् श्रुतमधीतं कालगतोऽन्यत्र च तत् श्रुतं नास्ति । ततःसम्प्रतिपरितंमाविस्मृतियायात्अनुपेश्रायांचसोऽकुशलस्ततएवमेतैःकारणैर्द्वितीयपदमधिकृत्य व्यतिकृष्टेऽपिकालेऽध्यायः कल्पते । अत्र पर आह-तत्रापवादपदेन व्यतिकृष्टेऽपिकाले पठति किं ते दोषाः आज्ञाभङ्गादयो न सन्तिन भवन्ति । अत्रोत्तरमाह[भा.३०३९] भणइजेणजिनेहिं अनुणायाइकारणेताई।
तो दोसोनसंजायइजयणाए तहिं करेंतस्स ।। वृ-भण्यतेऽत्रोत्तरं दीयते-येन कारणेन जिनैः कारणे सागारिकादिलक्षणे तानि पठनान्यनुज्ञातानि तस्मात्कारणात्रहस्य श्रुतस्यापिचयतनया वक्ष्यमाणलक्षणया ।तत्रसागारिकवसत्यादौ पाठं कुर्वतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org