________________
२६०
व्यवहार-छेदसूत्रम् -२-७/१७३ तेन कारणेन तासुच चतसृष्वपिसन्ध्यासुन श्रुतमुद्दिश्यते, पठ्यतेवामाभूतूच्छलनादोष इति कृत्वा आह,-यदिसन्ध्यासुगुह्यकाश्चरन्तिततः कथमावश्यकं सन्ध्यायां क्रियते,ततआह[भा.३०२२] जाव होमादिकजेसुउभओ संज्झओसुरा ।
लोगेन भासिया तेन संझावासगदेसणा ।। वृ-यावत्होमादिकार्येषुउभयोः सन्ध्ययोः सुरागुह्यकालोकेनभाषितास्तिष्ठंति,तावद्वयमावस्यक कुर्मस्तेषांतत्रव्यापृतत्वादावश्यकस्यापिच सन्ध्याकृत्यरुपत्वात्तेन सन्ध्यायामावश्यकदेशना । [भा.३०२३] एते उसपक्खं मी दोसा आणादयो समक्खाया ।
परपक्खंमि विराधन दुविधेन विसेण दिलंतो ।। वृ-एतेप्रवचनवेदिनामतीव सिद्धाःसपक्षेउद्देशतआज्ञादयोदोषाः समाख्याताः, तद्यथा-आज्ञा तीर्थकराणां भग्ना भवति, अनवस्थातंदृष्ट्राअन्येषामपितथा करणात् । मिथ्यात्वंतीर्थकराज्ञाभङ्गात्; विराधना द्विविधा-संयमविराधना आत्मविराधना च । तत्र संयमविराधना ज्ञानाचारविराधना दात्मविराधनादेवताच्छलनात्; | परपक्षेऽपिएतेदोषाः । केवलंयासंयमविराधनासा ज्ञानाचारविघातास्मिका, ब्रह्मघातात्मिकाच ज्ञातव्या ।तत्रद्विविधेन विषेण द्रव्यविषेण भावविषेण च दृष्टान्तः - [भा.३०२४] दव्वविसं खलुदुविहं सहजं संजोइयं चतंबहुहा ।
एमेवय भावविसं,सचेयणाचेयणंबहहा ।। वृ- द्रव्यविषं खुल द्विविधं, तद्यथा-सहज संयोगिमं च संयोजन संयोगस्तेन निवृत्तं संयोगिमं भावादिमइतीमप्रत्ययस्तच्चसहसंयोगिमंच बहुधा अनेनैव प्रकारेण खलु द्विविधंभावविषयं तद्यथासहजं संयोगिमंच तच्च प्रत्येकंसचेतनमचेतनंच बहुधाबहुप्रकारं । [भा.३०२५] सहजं सिगियमादी संजोइमधयमहुंच समभागं ।
दव्यविसं नेगविहंएत्तोभावंमिच्छामि ।। वृ- सहजं द्रव्यविषं शृङ्गिकादि, । संयोगिमं धृतं मधु च समभागं, । एतच्चैकैकमपि द्रव्यविष मनेकविधंद्रष्टव्यमत ऊध्वभावे भावविषं वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति[भा.३०२६] पुरिसस्स निसग्गवीसं इत्थी एवं पुमंपि इत्थीए ।
संजोइमोसपक्खो दुण्हवि परपक्ख नेवत्थो ।। वृ-पुरुषस्य निसर्गविषंस्त्रीनेपथ्योपेता एवं स्त्रिया अपिसहजं विषंपुमान्नेपथ्योपेतः संयोगिमविषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः, | स्वपक्षः परपक्षनेपथ्यः । तद्यथा-संयतस्य पुरुष स्त्रीनेपथ्योपेतो निर्गन्थ्याः स्त्रीपुरुषनेपथ्योपेता। [भा.३०२७] घाणरसफासतो वा दव्वविसं वा सइतिवाएइ ।
सव्यविसयानुसारीभावविसंदुजई असई ।। वृ-द्रव्यविषंध्राणतोरसतःस्पर्शतोवा सकृदेकवारतोअतिपातयति ।वा विभाषायांतेऽपिसकृदतिपातवैकल्पिकं भवति । तथाहि-द्रव्यविषं जीवितान्न च्यावयेदिति । भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु संप्रापकत्वात्तथा दुर्जयमल्पसत्वेन जेतुमशक्यत्वानियमाच्चासकृदनेकवारमतिपातयति, विनाशयति ।भावविषमूर्च्छितानामनेकमरणभावात् । उपसंहारमाह-.
[भा.३०२८] जम्हा एएदोसा तम्हा उसपक्खसमणसमणीहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org