SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १, [भा. २०२] वृ- एतस्य अनंतरोदितस्य पंचषष्ट्यधिकैकोनचत्वारिंशच्छतप्रमाणस्यराशेश्चतुर्विंशत्यधिकेनशतेनभागहरणं भागेचहते अंकालब्धास्ते दिवसा ज्ञातव्याः शेषास्त्वंका उद्धरिता अहोरात्रस्य चतुर्विंशत्युत्तरशतभागाः । [ भा. २०३ ] ७३ अहवावितीसइगुणे, सेसेतेनेवभागहारेण । भइयं मिजंतु लब्भइते उमुहुत्तामुणेयव्वा ।। वृ- अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरमिदंलब्ध दिवसानामुपरिभागास्तावत्तदवस्था एव ध्रियंते तथैव शास्त्रे व्यवहार दर्शनात् अथवा अपिसमुच्चये स च समुच्चयः प्रकारांतरस्यै वान्यस्या श्रूयमाणत्वात् शेषे उद्धरिते राशौमुहूर्त्तानयनायस्त्रिंशद्गुणेकृतेततस्तेनैव चतुर्विंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत्लभ्यतेतेमुहूर्त्ताज्ञातव्या । [भा. २०४] तस्सविजं अवसेसं बावटीएउतरसगुणकारी । गुणकारभागहारे बावटीएय उववट्टी ।। वृ-तस्यापिमुहूर्त्तस्यसंबंधियदवशेषमुद्भरितं तस्यमुहूर्त्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः गुणकरणं किमुक्तं भवति यदवशेषंतिष्टति, ततुद्वाषष्ट्या गुण्यते ततोगुणकारभागहारेइतियस्योपरितनस्यरार्शेर्गुणकरमभवत् स गुणकार योगात्गुणकारः, अधस्तनस्तुभागंहरतीतिभागहारः गुणकारञ्च भागहारश्चगुणकारभागहारं समाहारो द्वंद्वस्तस्मिन् षष्टीसप्तम्योर्थंप्रत्यभेदस्ततएतदुक्तं भवति गुणकारभागहारयोद्वषिष्ट्या अपवर्त्तोऽपवर्त्तनाक्रियते । [ भा. २०५ ] दोहिं तु हिते भागे जेद्धाते बिसठिभागाओ । एएसिमागयफलंरिक्खाईणं कमेणइमं ।। बृ- भागहारराशेश्चतुर्विंशत्यधिकशतप्रमाणस्यद्वाषष्टया पवर्त्तनायां जातौद्वौ ताभ्यां तुद्वाभ्यांहृते भागे ये अंका लब्धास्तेद्विषष्टिभागाएव तुरेवकारार्थोः मुहूर्त्तस्य ज्ञातव्याः सांप्रतमागतफलप्रतिपादनार्थमिदभाह एएसिमित्यादिएतेषां भागहाराणांमृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणा नवनायभागं हरतां, यत् आगतमेवफलमागतफलं तत् क्रमेण ऋक्षादि मासपरिपाट्या इदं वक्ष्यमाणं तदेवाह अहोरतसत्तवीसंत सत्तसत्तडिभागनक्खत्तो । [भा. २०६ ] गुणती बिसद्विभागायबत्तीसं ।। वृ- नाक्षेत्री नक्षत्र संबंधीमासः सप्तविंशतिरहोरात्राः सप्तषष्टिभागाः त्रिः सप्त त्रयोवारासप्त एकविंशतिरित्यर्थः तथाहियुगदिनराशिः त्रिंशदधिकाष्टादश शतप्रमाणो ध्रियते, तस्य सप्तषष्टिर्युगेनक्षत्र मासा, इति सप्तषष्ट्या भागोहियते लब्धासप्तर्विशति रहोरात्रा एकविंशतिरहोरात्रस्यसप्तषष्टिभागाः, तथा चांद्रश्चंद्रमासएकोनत्रिंशदहोरात्राद्वाषष्टिभागा अहोरात्रस्यद्वात्रिंशत् तथाहितस्यैवयुगदिनराशेस्त्रिंशदधिकाष्टादशशतमानस्य युगे चंद्रमासाद्वाषष्टिरिति द्वापष्ट्याभागेहते एतावदेवलभ्यते इति । उडुमासोतीसदिना आइच्योती सहोइ अद्धं च । अभिवढिएकत्तीसाएगवीससयं च भागाणां ।। [भा. २०७] - वृ-ऋतुः मासपरिपूर्नानि त्रिंशद्दिनानि एकषष्टिर्युगेऋतुम्र्म्मासइत्येकषष्ट्या अनंतरोदितस्यध्रुवराशेर्भा गहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्यार्द्धं यतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्टायाध्रुवराशेर्भागहरणे एतावल्लभ्यते इति अभिवर्द्धितो अभिवर्द्धितमास् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy