________________
व्यवहार-छेदंसूत्रम् - २- ७ / १६६ गुरुगा अविमाने अन्नेगणधारणसमत्थे ।।
वृ- योऽभ्युद्यतमेकतरं नाम लब्धिक आर्यिकाणां परिपालने च समर्थस्तदा तस्य मात्रादिकाव्रतग्रहणार्थमुपस्थिताः स यदि अभ्युद्यत विहारं मरणं वा प्रतिपत्तकामस्तर्हि यदि तस्याचार्योन्यो वा स्वगणसत्कः परिपालने समर्थस्तदा ता प्रव्राज्यत्तस्यसमर्पयति समर्प्य वाभ्युद्यतविहारमरणंवा प्रतिपद्यते अथ-नास्त्याचार्यः स्वगणसक्तो वातासां परिपालकस्तदा अन्यस्मिन् गणधारणसमर्थेऽविद्यमाने योऽभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः प्रव्राजयति तस्य प्रायश्चित्तं चत्वारो गुरुकाः ।। [भा. २९३६ ] जो विय अद्धित्ती पव्यावेंतस्स होंति गुरुगाउ । जहा जोड समत्थो सो पव्वा वेइ ता उवा ।।
२४६
वृ- योऽप्यलब्धियुक्तो न तत्प्रायोग्याहारयितुमीशस्तस्यापि प्रव्राजयतो भवन्ति चत्वारो गुरुकाः प्रायश्चित्तं यत एवमसमर्थतायां प्रायश्चित्तं तस्माद्यः समर्थः स ता मात्रादिकाः स्त्रीः प्रव्राजयति । एवं तुलेऊणप्पं सा वि तुलिजइ उदव्वमाईहिं । कायाणं दायाणं दिक्ख सिक्ख इत्तरदिसानयणं ।।
[भा. २९३७]
वृ- एवमुक्तेन प्रकारेणात्मानं द्रव्यादिरूपया चतुर्विधया तुलनया तोलयत्वा या सौ प्रव्राजनीया सापि द्रव्यादिभिस्तोलयितव्या । सा च तुलनाग्रे भणिष्यते । यदि तुलनायामुक्तायां सा ब्रूते सर्वमहं कर्तुं समर्था इति तदा सा दीक्षणीया सा च तुलना तस्याः कर्तव्या यस्याः स्वभावो न ज्ञायतेयस्याः पुनः स्वभावो ज्ञातो वर्तते । तत्रान्मतुलनैव प्रागुक्ता कर्तव्या, ! अथ यदि तस्य माता भगिनी वा ततः कथं तस्याः स्वभावो न ज्ञायते । उच्यते स लघुकएव नष्टः प्रव्रजितो वा । ततः स्वभावापरिज्ञानं कायाणदायणमिति कायानां पृथिवीकायादीनां कर्तव्यं । यथा एष पृथिवीकाय उच्यतेऽयमप्कायोऽयं तेजस्काय एष वायुकायोऽयं वनस्पतिकाय एष चलनधर्मा द्वीन्द्रियादिस्त्रसकायस्तत्र पृथिव्या आलिखनादि न कर्तव्यमप्कायेन स्वगात्रसेवनादि, तेजस्कायेन प्रतापनादिच वनस्पतिकायेन दन्तधावनादित्रसकायस्य परितापनादि । यदि पुनः कायैः कार्यमुपजायते, तदा तत्कारणे, प्रासुकेन परिमितेन कर्तव्यम् । एवमभ्युपगते तस्या दीक्षा दातव्या । तदनन्तरं ग्रहणशिक्षा सेवनाशिक्षा च शिक्षणीया । तत्र ग्रहणशिक्षा सा दशवैकालिकादि सूत्र पाठनीया । आसेवनाशिक्षा यत्परिधानपनादि शिक्षते तत्र परिधापनविधिमुपदर्शयितुकामेन पूर्वं लघुबालकसंयती नेपथ्येन परिधाप्यते तत उच्यते एवमार्ये त्वमपि परिधानं कुर्याः तथा भिक्षाटनसामाचारी संक्षेपेण कथयति । तत इत्वरदिकरणं यावदाचार्यसकाशं न व्रजामि तावदहमेव ते आचार्योऽहमेवच प्रवर्तिनी । आचार्यसमीपंगतानांत्वाचार्या ज्ञातारस्ततो वक्ष्यमाणविधिना गुरुसमीपे नयनं । एष नियुक्ति गाथासमासार्थः । साम्तमेनामेव विवरीषुः भाष्यकारः आह
[ भा. २९३८ ]
पेज्जादि पायरासा सयनासनवत्थपाउरणदव्वे ।
दोसीण पुव्वाणि य सयनादि असक्याएहिं । ।
बृ- गृहस्थावस्थायां प्रातराशा प्रथमालिकापेयादिरूपा पेया प्रतीता । आदिशद्वान्मण्डकमोदकादिपरिग्रहस्तथा शयनासनवस्त्राणि शोभनानि प्रावरणानि च कालोचितान्यासीरन् । इदानीं तु व्रतप्रतिपत्तौ प्रथमालिकायां भक्तं दोसीणमिति पर्युषितं भविष्यति । दुर्बलानि च शयनादीनि शयनासनवस्त्राणि प्रावरणानि च एतस्य कर्तुमशक्यता इयं द्रव्ये द्रव्यविषया प्रतिपृच्छा, । पडिकाराय बहुविहा विसयसुहा आसि से न पुन इण्हिं ।
[भा. २९३९]
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org