________________
उद्देशक :- ७, मूल - १६६, [भा. २९३१]
२४५
न विद्यन्ते अथ च तस्मिन्नेकमण्डवे तस्य साधीर्माता भगिनी अन्या वा काचननालसम्बधा स्वजनास्ति, कोऽप्यन्यो ग्रामं नगरं वा तासां मात्रादीनां मेलनं मेलापकः साधोर्भवति । सच मात्रादिकः स्त्रीजनो धर्मे कथितेऽकथितेवा प्रव्रज्यां प्रतिपत्तुमभ्युपगतो यथा वयं प्रव्रज्यां प्रतिपद्यामहे । एवं प्रव्रज्यामभ्युपगते मात्रादावशङ्कनीये स्त्रीवर्गे यंतना कर्तव्या । सा चेयं तेन साधुना चतुर्विधया तुलनया तोलयितव्यस्तद्यथा- द्रव्यतः क्षेत्रतः कालतोभावतश्च । तत्रद्रव्यतो यदि समर्थ हारमुपधिभैषजादिकं चोत्पादयितुं समर्थः, । तथाकस्याप्येवं स्भावतो भवति । यथा न शक्नोतिस्थातुं प्रथमालिकां विना चतुर्थरसिकादिकं वा पानकं न शक्नोति पातुं । ततस्तद्योग्यं पानकं प्रथमालिकां वा नेतुं समर्थः; । क्षेत्रतो यदि शक्नोति पथि पादाभ्यां गन्तुमध्वनि वा यदि शक्नोति आहारादिकमुत्पादयितुम् । कालतो ग्रीष्मकाले पानकं शीतकाले तत्कालप्रायोग्यमाहारादिकं तदुत्पादयितुं समर्थः । रात्रौ मध्याह्ने वा यदि गन्तुं प्रभुः, भावतो यदि क्रोधादीनां जयं कर्तुं क्षमो ज्ञानदर्शनचारित्राणि सामाचारी च ग्राहयितुमीशस्ततो यावदाचार्याणां प्रवर्तिन्या वा मूलं न प्राप्नोति, तावदनया चतुर्विधया तुलनयात्मानं तुलयित्वा यदि समर्थो जातस्ततः प्रव्राजयति । एतदेवाह[भा. २९३२]
असिवादिकारणगतो वोच्छिन्नमडंबसंजती रहितो ।
कहियाकहियउवठिय असंकइत्थी समाजयणा ।।
वृ- अशिवादिभिः कारणैरेकाकी व्यवच्छिन्ना ग्रामनगरादयो दिक्षुविदिक्षु च यस्मात्तस्मिन् व्यवच्छिन्ने संयतीरहिते मडवे गतस्तत्र च धर्मे कथिते अकथिते वा मात्रादयो व्रतग्रहणार्थमुपस्थितास्तासु अशङ्कासु अशङ्कनीयास्वियं वक्ष्यमाणा यतनातामेवाह
[ भा. २९३३]
आहारा दुप्पायणे दव्वे समुईच जाणते तीसे । जइतरइ गंतु खेत्ते आहारादीनि अद्धाणे ।।
बृ- द्रव्ये द्रव्यतो यद्याहारादीनामादिशब्दादुपध्यादि परिग्रहः उत्पादने समर्थः । समुइ नाम स्वभावः भावं तस्या जानाति यथा प्रथमालिकां विना न शक्नोति चतुर्थरसिकादिकं च पानीयं पातुं न शक्नोति, ततस्तद्योग्यं पानं प्रथमालिकांचोत्पादयितुं क्षमः । तथा क्षेत्रतो यदि पथि पादाभ्यां गन्तुं तरति अध्वनि वाहारादिकमुत्पादयितुम् । [ भा. २९३४ ]
गिम्हातिकाले पानग निसिगमनातिसुवा विजइसत्तो । भावे को हाइजओ गाहणनाणेय चरणे य ।।
वृ- काले ग्रीष्मादौ यदि पानकमुत्पादयितुमीश उपलक्षणमेतत् । शीतकाले वर्षाकाले च प्रायोग्यं तत्सम्पादयितुं शक्तो भावे यदि क्रोधादिजयः कर्तुं शक्यते ज्ञाने चरणे च तस्या ग्रहणे समर्थस्तदा यावदाचार्यमूलं प्रवर्तिनी मूलंचन प्राप्नोति । तावदेतया चतुर्विधायात्मानं तोलयित्वा यद्यात्मनः समर्थता गम्यते तदा प्रव्राजयति यावत्कथा समर्थो वा प्रव्राजयति । अत्रेयं मार्गणा यो यावत्कथं परिपालयितुं समर्थः स नियमात् प्रव्राजयति, इतरस्मिंस्तु भजना । तथाहि यो यावत्कथं परिपालयितुं समर्थः तस्य यद्याचार्यः सलब्धिकः परिपालने समर्थोऽन्यो वा स्वगणशक्तः परिपालयितुं क्षमः, ततः प्रव्राज्य तस्य समर्पयति । अथाचार्योऽन्यो वा स्वगणाशक्तस्तां परिपालयितुसमर्थस्तदा न प्रव्राजयति । इयमितरस्मिन्
भजना ।।
[भा. २९३५]
Jain Education International
अब्भुज गयरं पडिवजिउ कामो जो उपव्वावे ।
For Private & Personal Use Only
www.jainelibrary.org