________________
२४४
व्यवहार - छंदसूत्रम् - २- ७ / १६६
अर्थाय ते एतस्या उपग्रहं करिष्यन्तीत्यादि अभिप्रायेण शेषं सुगमम् । अत्रभाष्यकारः प्राहअन्नट्टमप्पणा वा पव्वावणे चउगुरुंच आणादी । मिच्छत्ता तेन संकठ्ठ मेहुणे गहणे जंच ॥
[भा. २९२६]
वृ- शिष्यस्य मे सर्वकार्येषु सहायिनी भविष्यति इत्येवमन्यार्थमेवमात्मनो वार्थाय यदि प्रव्राजयति निर्ग्रन्थी तदा तस्य प्रायश्चित्तं चतुर्गुरु आज्ञादयश्च दोषास्तथा मिथ्यात्वं तीर्थकरवचनातिक्रमात् । तथा स्तैन्यार्थं शङ्कायां किमयं प्रव्राज्य (ज्य) हरिष्यति उत धर्मश्रद्धया प्रव्राजयतीत्येवं रूपायां यत्प्रयश्चित्तं चतुर्लघु उपलक्षणमेतत् । निःशङ्कितमेषप्रव्राज्य हरिष्यतीति निश्चयेऽप यत्प्रायश्चित्तं चत्वारो गुरुकाः । तथा मैथुने शङ्किते शङ्किते यथा किं मैथुनार्थमेव प्रव्राजयित उत्ंधर्मश्रद्धयाति यत्प्रायश्चित्तं चतुर्गुरुकम् । नूनमेषमैथुनार्थं प्रव्राजयतीत्येवं निःशङ्कितेयन्मूलं प्रायश्चित्तम् । यच्च ग्रहणे कशुकादिसंघाट प्रावरणोपदेशदाने कक्षान्तरादिदृष्ट्रा परोभयसमुत्थदोषैर्ब्रह्मचर्यविराधनं तन्निमित्तमपि प्रायश्चित्तमापद्यते ।। [ भा. २९२७] तेनमेहुणे वा हरइ अयं संकसंकिए सीही । कक्खादभिक्खदंसण मथथकातोभये दोसा ।।
वृ- अयं प्रव्राजनाव्याजेन हरतीत्येवं शङ्कायामशङ्किते वा स्तैन्यस्यार्थे तथा मैथुनशङ्खायमशङ्किते वा मैथुने या शोधिः प्रायश्चित्तं तदापद्यते । तथा कक्षादीनामथक्रमप्रस्तावमभीक्ष्णदर्शने आत्मोभयदोषा उपलक्षणमेतत् [परदोषाश्चय तानपि प्राप्नोति एतदेव सविशेषमाह
[ भा. २९२८ ]
हरतिती संकाए लहुगा गुरुगाय होति नीसंको ।
मेहुणसंके गुरुगा निस्संकिए होइ मूलं तु ।।
वृ- अथ प्रव्रज्यादानव्याजेन हरतीत्येव शङ्कायां प्रायश्चित्तं चत्वारो लघुकाः । निशङ्के हरणे नूनमेष निश्चितं हरिष्यतीत्येवं निश्चये भवन्ति चत्वारो गुरुकाः । तथा मैथुनाशङ्कायां चत्वारो गुरुका निःशङ्किते मैथुने वा भवति मूलं अमुमेवार्थं सूत्रकृताङ्गालापकेन संवादयति
[भा. २९२९]
अविधूवगादिवासो पडिसिद्धो तहयवाससतिहिगा । वीसत्थादीदोसा वि जट्ठा एवं तुवृत्ता ।।
वृ- पूर्वसूत्रकृताङ्गे एयोक्ता अभिहिताः पूर्वोक्ताः ।। [भा. २९३०]
पव्वावणेसपक्खे परिच्छिए दोसविवज्जिए । दिक्खाएवं सुत्तं सफलं सुत्तनिवातोउकारणिउ ।।
वृ- यस्मादेते दोषाः सपक्षे प्रव्राजना कर्तव्या । तद्यथा- पुरुषाः संयतैः प्रव्राजनीयाः, स्त्रियः संयतीभिः, संयतिरनुज्ञाताभिः साच दीक्षा परिपृच्छय किं प्रव्रजसि इति पृष्टा यद्यभ्युपगच्छति तदा दातव्या परदोषवर्जिते अठारसपुरिषेष्वेवमादिदोषरहिते । अत्रपर आह-यद्येतत्तत्वं तर्हि सूत्रमफलं सूत्रे परपक्षेऽपि दीक्षाया अभ्यनुज्ञानात्तस्याश्चासम्भवात् । आचार्यः प्राहसूत्रनिपातः कारणिकः कारणमपेक्ष्येदं सूत्रं प्रवृत्तमिति भावः । किं तत्कारणमत आह
[भा. २९३१]
Jain Education International
कारणमेगमडवेखंतियमादीसु मेलणा होइ । पव्वज्जमब्भुवगए अप्पाणेच उव्विहातुलना ।।
वृ- कारणमशिवादि लक्षणमधिकृत्य कोऽपि साधुरेकाकी जातः कथमप्येक मण्डवेगतः एक मण्डवं नाम यस्य निवेशस्य सर्वासु दिक्षुच नास्ति कोऽप्यन्यो ग्रामो नगरं वा तस्मिन्नेवमण्डवे गतस्तत्र च संयत्यो
For Private & Personal Use Only
www.jainelibrary.org