SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ७, मूल - १६४, [भा. २९२२] २४३ वृ- यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि यकाभिश्च प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथितं ता यदि एकमाचार्यमाश्रिताः । अथवा आत्मीया अपि सत्यः शय्यातरपिण्डाद्या सेविन्यः परं गुरुं कुतश्चित्कारणात् व्रजेयुः प्रतिपन्ना यदि वा सा प्रवर्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासेवितं परगुरुत उपसम्पदं प्रतिपन्नासु एतासुतिसृष्वति यद्याचार्यः स्वयं पृच्छति कोऽत्र भूतार्थ इति तदा प्रायश्चित्तं चत्वारो गुरुकाः किं कारणमिति चेदत आह[भा. २९२३] भंडण दोसा हंती वगडासुतं मि जे भणिवपुव्विं । सयमविय वीसुकरणे गुरुगा चावल्लया कलहो ।। वृ- तासां तिसृणामपि स्वयं प्रच्छने भण्डनदोषा भवन्ति ये भणिताः पूर्वं कल्पाध्ययने प्रथमोद्देशके वगडासूत्रे ते चेमे तासां स्वयं प्रच्छने त्रिषु स्थानेषु भण्डनं तानि च त्रीणि स्थानान्यमूनि आत्मनो द्वौ गच्छौ संयतवर्गः संयतीवर्गश्च तृतीयोऽन्याचार्याः सक्ताः संयताः संयत्यश्च एषैको वर्गोभ (ग) एयते । भण्डनं पुनरेवं जायते ताः संयत्यः परकीयरूपाः पृष्टाः सत्यौ ब्रूयुर्यथा जानीमो यत् दुःखापिता इहलोकसहायया निजप्रवर्तिन्या एवमुक्तेसंयतास्ताभिः सह कलहं कुर्युः । संयतीनामपि परस्परं रण्डाराटिर्भवति । तथान्ये गच्छवर्तिनः साधवः पराचार्येण समं परसंयतैः समं परसंवतीभिश्च समं राटिं विदध्युर्यत् एवं दोषास्तस्मात् द्वावपि तौ संयतीवर्गावात्मनः आत्मनाचार्यस्य कथयतः । यदि पुनस्ताः संयत्यः स्वयमेव विष्वक् संभोगं कुर्वन्ति ता तासां प्रायश्चित्तं चत्वारो गुरुकाः, कस्मादिति चेदत आहचापल्यतश्चपलतादोषेण कलहः परस्परं भूयादिति हेतोः ।। [भा. २९२४] पत्तेयं भूयत्थं दोपहंपि गणहरो तुलेऊणं । मिलिउं तग्गुण दोसे परिक्खिउं सुत्तनिद्दोसो ।। वृ-यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयं तौ च गणधरौ द्वावपि संयती वर्गयोः प्रत्येकं भूतार्थं तुलयित्वा सम्यग् विज्ञाय तत एकत्र मिलित्वा तयोर्द्वयोरपि संयतीवर्गयोर्गुणदोषान परीक्ष्य सूत्रनिर्देशः कर्तव्यः । सचायं यदि नानुतपंति ततस्तत्रैव यत्र मिलिताः सयतीनां परोक्षं संभोगं कुर्वन्ति । प्रत्यक्षं संयतीनां विसंभोगकरणे तुच्छतया कलहभावात् ।। मू. (१६५) नोकप्पइ निग्गंथाणं निग्गंधी अप्पणो अड्डाए पवावेत्तए वा मुंडावेत्तए वा सेहावेत्तएवा उवठावेत्तए वा संभुंजित्तए वा तीसेइत्तरियं दिसं वा अनुदिसं वा उद्दिसित्तएवा धारेत्तए वा । मू. (१६६) कप्पइ निग्गंन्थाणं निग्गंधि अन्नेसिंअट्टाए पच्वावेत्तए वा धारेत्तए 'वा ।। [भा. २९२५] संभोगंमि पवत्ते इमा विसंभुजते उवठविउं । सीसायरियत्ते वा पगत्ते न दिक्खति दिक्खेय ।। - बृ- पूर्वसूत्रेभ्यः संभोगे प्रवृत्ते प्रस्तुतसूत्राभिहिता उपस्थाप्य संभुज्यते अथवा शिष्यत्वमाचार्यत्वं च प्रकृतमस्ति ततः शिष्याचार्यत्वे प्रकृतेऽनेनापि सूत्रद्वयेनेदमुच्यते-अन्यस्यार्थाय निर्ग्रन्थी दीक्षन्ति नात्मनोऽर्थयेति । अनेन सम्बन्धेनायातस्यास्य व्याख्या न कल्पते निर्ग्रन्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं सामायिकारोपणतो मुंडापयितुंलोचकारापणतः शिष्यापयितुमासेवनाशिक्षाग्रहणप्रदानतः उपस्यापयितुमुत्थापनाकरणतः संभोक्तुं षणां सांभोगिकानामन्यतमेन यथा योगेन संभोगेन वस्तुं वा तथा तस्या इत्वरां दिशमाचार्य लक्षणामनुदिशं वा उपाध्यायादिरूपामुद्देष्टुं वा धारयितुं वा कल्पते । निर्ग्रन्थानां निर्गथीमन्येषामपि इत्यादि प्राग्यन्नवरमन्येषामित्याचार्यस्योपाध्यायस्य वा प्रर्वर्तिन्या For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy