SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ २४२ व्यवहार-छेदसूत्रम्-२-७/१६४ द्वे फलके एकत्र कृते फलक सम्पुट इत्युच्यते । एवं निर्ग्रन्थसूत्रात् द्वितीयं निर्ग्रन्थी सूत्रं सम्पुटसदृशं भवति तत उक्तं द्वयोरपि सूत्रयोः सम्पुटक इति निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तं भवति । विशेषोपलंभोवा इति ये निर्ग्रन्थीसूत्रंपठ्यते । ततः शिष्याणां विशेषोपलम्भो भवति । दूरव्यवधाने तु न स्यात् ततो भवति विशेषोपलंभ इति कृत्वा निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तमेघमनेन सम्बन्धेनायातस्यास्य व्याख्या-या निर्ग्रन्थ्यो वा सांभोगिकाः स्युस्तेषां न कल्पते प्रत्यक्षं प्रत्येकं सांभोगिकी सांभोगां कर्तुं कल्पते परोक्षं प्रत्येकं सांभोगिकं विसांभोगीकर्यु यत्रैववा तानि निर्ग्रन्र्थ्य आत्मीयान् आचार्योपाध्यायान्पश्यन्तितत्रैव एवंवदन्ति ।अथ नमितिवाक्यालङ्कारे ।भदन्तअमुकया सहास्मिन् कारणेसमापतिते परोक्षप्रत्यक्षप्रत्येकं संभोगविसंभोगकरोमि ।साचसेतस्याः प्रवर्तिन्याः प्रति तपति मिथ्यादुष्कृतप्रदानेनानुतपति असद्धातदाख्यानमिति प्रत्यायपयति । एवं सतिन कल्पते परोक्षं प्रत्येकं सांभोग विसंभोगकर्तुमतसा तस्याः प्रागुक्तप्रकारेणनानुतपितास्वतएवं सतिसेतस्याः कल्पते परोक्षप्रत्येकंसंभोगं कर्तुमितिसूत्राक्षरार्थः । । सम्प्रतिभाष्यकारः प्राह[भा.२९१८] एसोवगमो नियमा निग्गंधीणं पिहोइनायव्यो। जं एत्थंनाणतंतमहं वुच्छंसमासेणं ।। वृ-यो निग्रन्थसूत्रस्य व्याख्यागम उक्त एष एव गमो निर्गन्थीनामपि सूत्रे भवति ज्ञातव्यः केवलं यदत्रनानात्वंतदहं समासेन वक्ष्ये । तदेव विवक्षुः प्रथमतः प्रश्नमुत्थापयति[भा.२९१९] किं कारणंपरोक्खं संभोगा तासुकीरइवीसुं ! पाएणताहि तुच्छा पच्चक्खंभंडणंकुजा ।। वृ- किं कारणं केन कारणेन तासु संयतीसु परोक्षं संभोगो विष्वक् क्रियते । आचार्य आह-हि यस्मात्प्रायेण ताः संयत्पस्तुच्छाः । ततः प्रत्यक्षं विसंभोगकरणेभण्डनं कुर्युः ।। [भा.२९२०] दोनि विससंजतीयागणीणो एकस्स वा दुवेवगा । वीसुकरणंभितेच्चिय कवोयमादी उदाहरणा ।। वृ-द्वौगणिनावाचार्योससंयतीकौ परस्परंसांभगिकावथवा एकस्यद्वौवर्गौसंयतवर्गः संयतीवर्गश्च । अपरस्य त्वेक एव संयतवर्गः । तौ यां विसंभोगां कुरुतस्तां तैरेव चटकगृहिककपोतप्रविशनादिरुपादुदाहरणात्प्रागुक्तप्रकारेण विसंभोगंकुरुतइत्यर्थः । कथमित्याह[भा.२९२१] पडिसेवितं तुनाउंसहिती अप्पणा गुरुणंतु । तेविय वा हरिऊणंपुच्छंती दोविसडभावं ।। वृ- काश्चित्संयत्यः कासांचित् संयतीनां प्राधूर्णिका गतास्ताभिश्च पूर्वप्रकारेण प्रथमालिका कृता जाताशय्यातरपिण्डाशङ्का ।अथवा हरितोपलिप्तायां वसतौ स्थिता यदि वासदीपायांततस्ताभिरागत्य निजप्रवर्तिन्याकथितं यथा-एताः शय्यातरपिण्डमासेवन्ते । प्रतिदिवसंहरितोपलिप्तायां वसतौ वसन्ति सदीपायां वेति सापिप्रवर्तिनी तन्मुखात्प्रतिसेवितमितिज्ञात्वाताभिः सहगत्वात्मनोगुरुणां कथयति । तेऽपिचगुरवो व्याहृत्य आकार्यद्वावपिसंयतीवर्गौसद्भावं पृच्छन्ति । केवलंयदिताएकगुरुप्रतिबद्धा अन्यथा दोषस्तथा चाह[भा.२९२२] जइताउएगमेगंअहवावी परगुरुंवइजाहि । अहवावी परगुरुतो परवत्तिणी तीसुवीगुरुगा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy