________________
२२४
--
व्यवहार-छेदसूत्रम् -२.६/१५८ स्ततस्तदादिकं वृषभादिक्रमे प्रवर्धमानं तावदयसेयं यायत्पर्यन्ते चरमं पाराञ्चितमितीयमक्षरयोजना भावार्थस्त्वयम्-संयत्या प्रेषणे प्रवर्तिन्या विसर्जितायामविसर्जितायां वा यद्यपाध्यायो न विसर्जयति तदातस्यप्रायश्चित्तंचत्वारोलघुकास्ततोऽन्येनसाधुनागीतार्थेन स उपाध्यायोभण्यते । तथाप्यमुत्कलने चतुर्गरु ततो यः साधुरुपाध्यायस्थान प्राप्तस्तेन स प्रज्ञास्तेन स प्रज्ञाप्यते तथाप्य विसर्जने षड्लघु तदनन्तरमाचार्यस्थान प्राप्तः साधुः प्रेष्यते तेनाप्यविसर्जने षड्गुरु कुलेन ततः कुलस्थविरेण वा भावनीयस्तत्राविसर्जने च्छेद: | गणेन गणस्थविरेण वा भणनेऽप्यविसर्जने मूलं सङ्घन स्थविरेण वा प्रज्ञापनायामप्यमुत्कलनेऽनवस्थाप्यंतथासंयत्याभणनेप्रवर्तिन्या विसर्जितायामविसर्जितायांवायदि आचार्यो न विसर्जयति तदा तस्य प्रायश्चित्तं चतुर्गुरुकम् तदनन्तरं तस्य समीपे वृषभः प्रेष्यते तस्याप्यमुत्कलनेषलघु ।तत उपाध्यायस्थानप्राप्तेनसाधुनाभणनेऽप्यविर्सजनेषट्गुरु । तदनन्तरमाचार्यस्थानप्राप्तः साधुःप्रेषणीयः । तस्याप्यमुत्कलनेच्छेदः । कुलेन कुलस्थविरेणभणितेऽप्यविसर्जने मूलंगणेनगणस्थविरेणवाऽनवस्थाप्यं सङ्घन सङ्घस्थविरेणवापाराञ्चितंसंघातिक्रमेतस्या गणादपहरणं सङ्केन । तथा चाह[भा.२८२५] साहत्थमुंडियं गच्छवासिणंबंधविभगती।
अन्नस्सदेइसंघो नाणचरणरक्खणा जत्थ ।। वृ- पार्श्वस्थादिभिः स्वहस्तमुण्डितां गच्छवासिनी पार्श्वस्थादि गच्छवासिनी वा बान्धवा उद्यतविहारिणो ये संसारानिस्तारयन्ति तान् विमार्गयन्तीअन्यस्याचार्यस्योपाध्यायस्यान्यस्याश्च प्रवर्तिन्याः सो ददाति । यत्रतस्या ज्ञानचरणरक्षणा भवति किमित्वेवमत आह[भा.२८२६] नाणे चरणस्सपव्यजकारणं नाणचरणतोसिद्धी ।
जहि नाणचरणवुड्डीअज्जाठाणंतहिं वुत्तं ।। वृ- प्रव्रज्याकारणं ज्ञानस्य चरणस्य च ज्ञानचरणनिमित्तं प्रव्रज्या प्रतिपद्यते इति भावः । यतो ज्ञानचरणतः सिद्धिर्नान्यस्मात्ततो यत्र ज्ञानचरणवृद्धिस्तत्रार्याणामार्यिकाणां स्थानप्रवस्थानमुक्तं तीर्थकरगणधरैः ।पार्श्वस्थादीनां सकाशे ज्ञानचरणेन ततस्तेभ्यस्तामपहृत्य सङ्घो अन्यस्य ददाति ।। [भा.२८२७] मोत्तूण इत्थ चरिमं इत्तिरितो होइऊ दिसाबंधो।
उसन्नदिक्खियाए आवकहाएदिसाबंधो ।। वृ- अत्र एतेषु चतसृषु मध्ये चरमां चउत्थी पुन मग्गए सिक्खमित्येवंरुपां मुक्त्वा शेषाणां तिसृणामध्वनिर्गतादिकादीनां दिग्बन्ध इत्वरो भवति । चरमायाः पुनरवसन्नदीक्षिताया यावत्कथिको दिग्बन्धः।
मू. (१५९) कप्पइ निगंधाण वा निग्गंधीण वा निग्गंथं अन्नगणाओ आगयंखुयायारं जाव तरस ठाणस्स आलोयावेता पडिक्कमावत्ता निन्दावेत्ता गरहावेत्ता विउट्टावेत्ता विसौहावेत्ता अकरणाए अब्भुट्ठावेत्ता अहारिहं पायच्छितंपडिवजावेत्ता उवठ्ठावेत्तए वा धारेत्तएवा ।।
वृ-अस्याक्षरगमनिका भाष्यविस्तरश्च प्राग्वत्द्रष्टव्यस्तथा चाह[भा.२८२८] एसेवगमो नियमा निगंथाणंपि होइनायव्वो ।
नवरं पुन नाणत्तं अनवठ्ठप्पोय पारंची ।। वृ- एष एवानन्तरोदितो गमः प्रकारो निर्ग्रन्थानामपेत्य गणादागच्छतां भवति नियमात् ज्ञातव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org