________________
उद्देशकः-६, मूल - १५८, [भा. २८०९]
२२१ - दोसबहुला गणतो अवक्कमे काइसंबंधो ।। वृ-अनन्तरसूत्रेष्वभिनिर्विगडादिका वसतिरुक्ता ।तासुचअभिनिर्विगडादिकासुसंयतीनांमध्ये उपाश्रयस्य दोषेण कापि दोषबहुला सामाचारी प्रमादपरा सती गणादपक्रामेत् । तस्या अनेन सूत्रेण विधिरुच्यते इत्येषसूत्रसम्बन्धः ।।प्रकारान्तरेण सम्बन्धमाह[भा.२८१०] इत्थी पण्हाइजहिं वसोयएतेन सबलियायारो ।
उजय विहारमनं उव्वेज बिइतोभवेजोगो।। वृ- यत्र स्त्री उपलक्षणमेतत् पुरुषो वा प्रश्नौति प्रस्पन्दते मिथुनकर्म समारभते इत्यर्थः । वाशब्दः सम्बन्धस्यप्रकारान्तरोपदर्शने । तत्रतत्दृष्टातेन हेतुना काचित् उदीर्णप्रबलवेदा सचित्ते वाऽचित्तेवा तत्राचित्तेमृतकस्यसच्चित्तेपुरुषलिङ्गेतिर्यक्योनिकलिङ्गेवाशबलिताचारासती अन्यदुद्यतविहारमुपेयात् आश्रयेत्तस्या विधिरनेनोद्यतेइत्येष द्वितीयो योगः सम्बन्धो अनेन सम्बन्धेना-यातस्यास्य व्याख्यान कल्पते-निर्ग्रन्थीनां वा निर्ग्रन्थीनां वा निर्ग्रन्थी क्षत्ताचारां शबलाचारां संक्लिष्टाचारां क्षतादीनां शब्दानामर्थः प्राग्वत् । तस्य स्थानस्य अनालोचयित्वा यस्मिन सेविते सा क्षताचाराऽभवत् तत्स्थानमअनालोच्य तस्मात्स्थानादप्रतिक्राम्य तथा तस्य स्थानस्य विषये प्रायश्चित्तमप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुंवा तस्यां इत्वरां दिशमनुदिशं वा उद्देष्टुमनुज्ञापयितुं नापि तस्याः स्वयं धारयितुंकल्पते इत्येष सूत्राक्षरार्थः । । सम्प्रतिभाष्यविस्तरः । तत्र परप्रश्नावकाशमाह[भा.२८११] जा होइपरिभवंतीह निगया सीयए कहंसती ।
संवासमाइएहिंसछलिज्जइ उज्जमंतावी ।। वृ- याप्रमादगणं परिभवन्ती धर्मश्रद्धया गृहवासांदिह निर्गता सा कथं सीदति येन सा क्षताचारापि जाता । अत्र सूरिराह-संवासादिभिः सा उद्यच्छत्यपि उद्यमकुर्वत्यपिशबली क्रियते । इयमत्रभावनासाएकाकीत्वेन विहरन्तीगृहस्थाभिः समंवसन्तीस्वशक्त्यनुसारेणोद्यमं कुर्वत्यपिच्छलनां प्राप्नोति । आदिशब्दाद्गोचरचर्यायां विचारभूमौ वा यतः सत्येकाकिनी च्छलनामाप्नुयादिति । अथैकाकिनी सा कथंजातेत्यत आह[भा.२८१२] अद्धाण निग्गयादी कप्पट्टी संभरति जा बितिया ।
आगमनदेसभंगे चउत्थीपुन मग्गए सिक्खं ।। वृ-अध्वनिअवमौदर्येणाशिवेन वा निर्गता ।आदिशब्दात्राजद्विष्टेनवासार्थेन वास्तेनैरभिहटता, निर्गताऽपि परिगृह्यते । एषा प्रथमा, द्वितीया कप्पट्टि दुहितरं संस्मरन्ती एकाकिनी जाता । तृतीया परचक्रगमनेन देशभङ्गे एकाकिनी । चतुर्थी शिक्षामृगयमाणा एकाकिनीजाता । [भा.२८१३] गोउम्मुगमादीया नायापुव्वमुदाहडा उमे ।
असिवे यदुढे यसत्थे वातेनभिहते ।।। वृ- अवमौदर्ये संयत्यो न संस्तरंति । तत्र गोज्ञातं पूर्वमुदाहृतं य था अल्पं गोब्राह्मणं नन्दति तत एतत् ज्ञातमवधार्य या यत्र संस्तरति सा तत्र गच्छति, अशिषे समुपस्थिते उल्मुकज्ञातमुदाहृतं पूर्व कल्पाध्ययने यथा उल्मुकानि बहूनि मिलितानिज्वलन्तिएकं द्वेवानज्वलतः, । एवमशिवमपि बहुषु गाढमुपतिष्ठति ।नैकस्मिन् द्वयोर्वाततोवृन्दधाते एकाकिनीजाता । एताभ्यांप्रकाराभ्यामध्वानं प्राप्ता । तथा राजद्विष्टेन पूर्वभणितेनैकाकिनी जायते । सार्थे वा स्तेनैभिरह्टता एकाकिनी जायते, ततः सा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org