________________
व्यवहार - छेदसूत्रम् - २ ६/१५३ नानाजीवापेक्षया तरतमभेदेन चिन्त्यमाना असंख्येया एवं समयाधिकायामपि जघन्यस्थिती द्विसमयादिकायामपि जघन्यस्थितावेव तावद्वाच्यं यावदुत्कृष्टं स्थितिस्थानं । एवं कृष्णलेश्यायां परिणामा असंख्येया भवन्ति । एवं नीललेश्यागतस्य विशुद्धस्य भावस्य फलमाहविसुज्झतेन भावेन मोहो समवचिज्जइ । मोहस्सावचएयाविभावसुद्धी वियाहिया ।।
[भा. २७६३]
बृ- विशुद्धयता भावेन लेश्यागतेन मोहो मोहनीयं कर्म समपचीयते हानीमुपगच्छति मोहस्यापचये वापि भावविशुद्धिर्जीवस्य परिणामविशुद्धिर्व्याख्याता प्रतिपादता । यथा कालक्षेपमृते केवलश्रिया लाभो भवति ।। अथ मोहनीयं कर्म उदयप्राप्तं शुभपरिणामेन क्षपयितुं शक्यते किंवा नेति शक्यन्ते इति ब्रूमस्तथा चाह
[भा. २७६४]
२१२
उक्कदंतं जहा तोयं सीयलेन ज्झविञ्जए । गोवा अगदेनं तु वेरगेण तहोदओ ।।
वृ-यथा उत्कथ्यमानं तोयं शीतलेन तोयेन क्षिप्यते । गदो वा अगदेन तता मोहनीयस्योदयो वैराग्येण क्षिप्यते । तदेवमुक्तं प्रसक्तानुप्रसक्तमधुना प्रकृते योजनामाहअसुभोदयनिप्फन्ना संभवंति बहुविहा ।
[भा. २७६५ ]
दोसा एंगानियस्सेवं इमे अन्ने विहिया । ।
वृ- अशुभोदयेन अशुभकर्मोदयेन निष्पन्ना अन्तरूपाश्रयस्याभिर्निविगडायां वसतावेवमेकाकिनो बहुविधा दोषास्तदेवं अन्तरुपाश्रयस्याभिनिर्विगडायां दोषा उक्ताः सम्प्रति बहिरुपाश्रयस्याभिनिर्विगडाया दोषानाह । इमे वक्ष्यमाणा अन्ये दोषा एकाकिनो व्याख्याताः प्रतिपादिताःमिच्छत्त सोहि सागारियादि गेलणणखद्धपडिनीए । हिपेल्लणित्थियो रोगे तह सल्लमरणेय ।।
[ भा. २७६६ ]
बृ- एकाकिनो मिथ्यात्वगमनं तथा शोधिरभावस्तथा सागारिकप्रवेशोवसतौ आदिशब्दाच्चचलत्कुड्यां वसतौ कुट्यादिप्रपतनत आत्मवरिधनेतपिरिग्रहस्तथा ग्लानत्वे प्रतिजागरणा-भावस्तथा एकाकिनो मन्दाग्नेर्निवारकाभावात् प्रचुरभक्षणसंभवस्तथा च ग्लानत्वादिभावः । तथा एकाकी प्रत्यनीकस्य गम्यो भवति । तथा उद्भ्रामका दण्डपाशादयो नगररक्षा एकाकिनं चौरोऽयं हेरिको वा न ज्ञायते । कथमन्यथा एकाकीति विचिन्तयतो बहिः प्रेरयेयुः । ग्रामान्नगराद्वा बहिर्निष्काशयेदिति भावः । तथा स्त्रीदोषा एकाकिनो जायन्ते । तथा च्यालेन दष्टस्य भेषजाकरणसंभवः रोगस्य च वृद्धिगमनं, तथा सशल्यस्य सतो मरणमित्येष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुराहओगाढमप्पसहायं पनवेति कुतित्थिया ।
[भा. २७६७ ]
समावणो विसोहिंच कस्स पासे करिस्सइ ।।
वृ- ओगाढमप्यसहायं कुतीर्थिकाः प्रज्ञापयंत्यतो मिध्यात्वगमनं, तथा समापन्नः प्रायश्चित्तं कस्य पार्श्वे शोधिं करिष्यति । नैव कस्यचित पार्श्वे ततः शोध्यभावः । । सम्प्रति सागारिकद्वारं ग्लानद्वार चाहभया आमोसवादीणं सिज्जं वयति सारियं ।
[भा. २७६८]
असहायरस गेल को से किच्चं करिस्सइ ।।
वृ- आमोषकादीनां भयात्तस्मिन्नेकाकिनि सति शून्यां शय्यां वसतिं दृष्ट्वा तां सागारिको व्रजति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org