________________
२०१
उद्देशक:-६, मूल - १५१, [भा. २७०४] खेडंसि वा कव्वडसि वा इत्यादिपरिग्रहः । राजधान्यां वा एगवगडाए एगो बगडः परिक्षेपो यस्या सा । एकवगडातस्यांतथाएकस्मिन् प्रदेशे निष्क्रमणप्रवेशो यस्याः साएकनिष्क्रमणप्रवेशे तस्यांन कल्पते बहूनामकृतश्रुतानामगीतर्थानामित्यर्थः । एकत एवास्यां वसतौ वस्तुं अस्ति चात्र एतेषां मध्ये आचारप्रकल्पधरतहिनास्त्यमीषांकश्चिच्छेदः परिहारो वाशब्दादन्यदपिप्रायश्चित्तमथ नास्तिकश्चिदत्र एतेषांमध्ये आचारप्रकल्पधरस्तर्हिसेतेषामन्तरा तस्मात्स्थानादिप्रतिक्रमणालक्षणाच्छेदः परिहारो वा । [भा.२७०५] एगमि वी असंतेन कप्पती कम्पतीयसंतमि ।
उउबद्ध वासासुयगीयत्थो देसिएचेव ।। वृ- एतेषां बहूनामकृतश्रुतानामेकतो वसतामेकस्मिन्नपि गीतार्थेऽसत्यविद्यमाने ऋतुबद्धे वर्षासु च वस्तुं न कल्पते । यदि वसति तत् ऋतुबद्धे काले प्रायश्चित्तं मासलघु वर्षाकाले चतुर्लघुकं । अथैकोऽप्यस्तिगीतार्थस्तर्हि तस्मिन् ऋतुबद्ध वर्षासु च वस्तुंकल्पते, न तत्र प्रायश्चित्तमिति भावः । किं कारणंगीतार्थेन सह संवसतां न प्रायश्चित्तमत आह-गीतार्थो देशकएव भवति । इयमत्रभावनायथा केचित्पुरुषाअटव्यां विप्रनष्टाः, केनचिद्देशकेन दृष्टास्तेमणिता माइतो व्रजन्तोऽटवीं प्रविशताहं भवतो निस्तारयामि, । ततस्तेन ऋजुकेन पथा नगरं प्रापिता, एवं गीतार्थोऽपि मोक्षपथविप्रनष्टानां मोक्षपथप्रदर्शक इतितेन सह संवसतांसतां कालद्वयेऽपिनास्तिप्रायश्चित्तमिति ।। [भा.२७०६] किह पुन होज बहुनामगडसुयाणंतुएगतो वासो ।
होजा हिकक्खडमिखेत्ते अरसादिचइयाणं ।। वृ- कथं केन कारणेन पुनर्बहूनामकृतश्रुतानामेकत्र वासो भवेत्, । सूरिराह-कर्कश क्षेत्रे अरसादित्याजितानां भवेदेकत्र वासः । तथाहि-ते साधवो महति गच्छे वर्तमाना नगरे रुक्षेरसविरसादिभिराहारै निर्भिसिताः सम्प्रधारयन्तिकियच्चिरवयंरुक्षाहारैर्योगसंस्तरणकर्तुशक्नुमस्तस्मादच्छाम एवं चिन्तयित्वा गच्छादपक्रामन्ति । एवमेतेषामकृतश्रुतानांबहूनामेकत्र वासः[भा.२७०७] चइयाणयसामत्थं संघयणजुयाणमाउलाणंपि।
उउवासेलहुलहुगा सुत्तमगीयाणमानादी ।। वृ.अस्सविरसादिभिराहारैस्त्याजितानामाकुलानां संहननयुतानामपि अपिशब्दो भिन्क्रमत्वादत्र योजितएवं सामत्थंपर्यालोचनं भवति । यथा कियन्तंकालं वयंरुक्षाहाराः स्थास्यामस्तस्मादपक्रमामो गच्छादिति, एवं चिन्तयित्वा यदिऋतुबद्धेकालेवसन्तितदा प्रायश्चित्तंमासलघुवर्षाकालेचतुर्लघुकं । एतेनागीतार्थानां विषयेऽधिकृतंसूत्रन केवलमधिकृतप्रायश्चित्तंकिन्त्वाज्ञादयश्चतानेव मिथ्यात्वादीन् दोषान्द्वारगाथया संजिधृक्षुराह[भा.२७०८] मिच्छत्तसोहिसागारियाइ गेलन्ने अहव कालगए।
अद्धाणउमसंभम भएयरुद्धेय उसरिए ।। वृ-तेषामगीतार्थानांमतिभेदादिनामिथ्यात्वं स्यात्, तथाशोधिस्तैर्न ज्ञायते, तथाससागारिकायां वसतौयेदोषाः परिहार्यास्तेषामपरिज्ञानंअथवा स्लानत्वे अथवाकालगतेअध्वनिमार्गेअवमे अवमौदर्ये अग्न्यादिसंभ्रमे बोधिकम्लेच्छस्तेन भये अकालवर्षेण रुद्ध तथा अपसृते पथि गच्छतां कस्मिंश्चित् मन्दगतित्वास्फिटितेयायतनातांनजानन्ति । एषद्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः[भा.२७०९] मतिभेया १ पुव्वोग्गह २ संसगीएय ३ अभिनिवेसेनं ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org