________________
१९८
व्यवहार-छेदसूत्रम् -२-६/१४९ तेन तत्प्रायोग्यं विष्वक् गृह्यते । एवं शेषाणामपि इत्यस्मात् कारणात् अतिशेषा अतिशया आचार्ये भवन्ति, शेषाः पुनःसाधवःप्रान्तेन-लाटयन्ति ।आत्मानं यापयन्ति ।गतस्तृतीयोऽतिशयः । ।सम्प्रति चतुर्थपञ्चमंचातिशयं अंतो उवसयस्सएगरायं वा दुरायं वा इत्यादि लक्षणं विभावयिषुरिदमाह[भा.२६८९] अंतो बहिंच विसुंवसमाणो मासियंतुभिक्खुस्स ।
संजम आयविराधनसुन्ने असुभोदओ होइ ।। - यदि भिक्षुरुपाश्रयस्यान्तरपवरके विष्वक् वसति, यदि वा बहिरुपाश्रयात् शून्यगृहादिषु तदा तस्यप्रायश्चित्तंमासिकंलघुन केवलमिदंप्रायश्चित्तं किन्तुदोषाश्च । तानेवाह-अन्तर्वहिर्याशून्ये स्थाने वसतोऽशुभोदयोऽशुभकर्मोदयोभवति । तद्भावाच्चात्मविराधनासंयमविराधनाच । एनामेवभावयति[भा.२६९०] तब्भावुवयोगेणंरहिएकम्मादिसंजमे भेदो ।
मेरावलंबिया मेवेहानिसमादि निव्वेदो ।। वृ-तस्वभावस्तभावः ।पुंवेद इत्यर्थः । तस्मिन्नुपयोगस्तद्भावोपयोगेन विजने स्थाने वर्तमानः सहायरहितो हस्तकर्मादि कुर्यात् । एवं संयमे संयमस्य भेदो विराधना । तथा कोऽप्यतिप्रबल'वेदोदयपीडित एव चिन्तयेत् । यथा-मया मर्यादा सकलजनसमक्षं गुरुपादसमीपेऽवलम्बिता; । सम्प्रति चाहमतिपीडितआसितुंन शक्नोमिततो निर्वेदात्वैहानसमुक्तलम्बनमादिशब्दादन्यद्वाआत्मधातादिकमाचरेत् । एषात्मविराधनातस्मादहिरंतर्वा एकाकिनानस्थातव्यम्, आह यदिसंयमानिर्गतभावस्ततस्तस्य सहाया अपि किं करिष्यन्तितत आह[भा.२६९१] जइविय निग्गयभावो तहविथ रक्खिज्जएस अन्नेहिं ।
वंसकडिल्लच्छिन्नो विवेनुतो पावए नमहिं ।। वृ- यद्यपि च स संयमानिर्गतभावस्तथापि सोऽन्यैर्हस्तकर्मादि वैहानसादि वा समाचरन् रक्षते । अत्रैवार्थेप्रतिवस्तूपमामाह-वंयकडिलेवंश-गहनेच्छिन्नोपिवेणुकोवंशो महीन प्राप्नोति । अन्यैरन्यैर्वशै रपान्तराले स्खलितत्वात्, । एवं संयमभावान्निर्गतोऽपि शेषसाधुभिः सर्वथा पतन् रक्ष्यते तदेतद्भिक्षोरुक्तमिदानींगणावच्छेदकाचार्ययोराह ।। [भा.२६९२] वीसु वसंतेदप्पा गणिआयरिएयहोतिएमेव ।
सुत्तंपुन कारणियंभिक्खुस्सवि कारणेणुना ।। वृ-विष्वग्दर्पात्कारणमन्तरेण गणिनि गणावच्छेदके आचार्येच एवमेव भिक्षोरविच प्रायश्चित्तं संयमात्मविराधने च भवतः, यद्येव तर्हि सूत्रमनक्काशमत आह-सूत्रं पुनः कारणिकं कारणमधिकृत्य प्रवृत्तं, ततोनानवकाशं, न केवलंगणावच्छेदकाचार्ययोः कारणे वसतेरन्तर्बहिर्वा वसनमनुज्ञातं किन्तु भिक्षोरपिकारणे बहिरन्तर्वा वसनस्यानुज्ञा । अथ किंतत्कारणं यदधिकृत्य सूत्रप्रवृत्तमत आह[भा.२६९३] विजाणं परिवाडीपव्वे पव्वे य देंतिआयरिया ।
मासद्धमासियाणं पव्वं पुन होइ मज्झंतु ।। वृ- आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति, । विद्याः परावर्तन्ते इति भावः । अथ पर्व किमुच्यते तत आह-मासार्धमासयोर्मध्यं नः पर्व भवति, । एतदेवाह[भा.२६९४] पक्खस्स अठमीखलुमासस्स य पक्खिअंमुणेयव्वं ।
अन्नंपिहोइपव्वं उवरागोचंदसूराणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org