________________
उद्देशक :- ६, मूल- १४९, [भा. २६८२]
१९७
द्वे सूत्रार्थपौरुषी समुपस्थितानां तृतीयं कर्म चरमायां पौरुष्यांमियमत्र भावना सूत्रपौरुषी समाप्त्यनन्तरं यावत्नषद्या क्रियतेतावत् प्रथमा विश्रामणा द्वितीयार्थपौरुषी समाप्त्यनन्तरं तृतीया चरमपौरुषी पर्यन्ते कालप्रतिक्रमणानन्तरम् ||
[भा. २६८३ ]
सडूकुलेसु यतेसिंदोच्चंगादी उवीसु घेप्पंति । मंगुसन किकम्मं न य वीसुं घीप्पए किंचि ।।
वृ श्राद्धकुलेषुभक्तेषु तेषामाचार्यसमुद्राणामाचार्याणां योग्यानि कूरादीनि द्वितीयाङ्गादौ मात्रकादी विष्वक् गृह्यन्ते । आर्यमङ्गोः पुनराचार्यस्य न कृतिकर्म क्रियते नापि तद्योग्यं पौद्गलादि किञ्चित् विष्वक् मात्र गृह्यते। किंतु यदपि श्राद्धकुलेष्वतिभक्तेषूत्कृष्टंलभ्यते । तदपि गृहीत्वा ज्ञातोञ्चपतद्गृहे क्षिप्यते । विष्वगानीतमपि न भुङ्क्ते तौ च द्वावप्याचार्यौ विहरन्तावन्यदा सोपारके गतौ । तत्र च द्वौ श्रावकावेकः शाकटिकोऽपरो वैकटिको वैकटिको नाम सुरासन्धानकारी । तौ च द्वावपि श्रावकावार्यसमुद्राचार्याणां योग्यमतिशायि पौगलिकप्रभृतिकं विष्वङमात्रके गृह्यमाणमार्यमद्भूनां पुनर्योग्यमेकस्मिन्नेव पतद्गृहे गृह्यमाणं पश्यतो दृष्ट्राचार्यमङ्गुसमीपमागच्छतः !
[भा. २६८४ ]
बेति ततो नं सड्डा तुज्झ व वीसुं न घेप्पए कीस । ततो बेति अञ्जमंगू तुष्भे च्चिय इत्थ दिट्टंतो ।।
वृ- ततः समीपागमनान्तरं तौ श्रावकौ ब्रुवाते किन्नार्यसमुद्राणामिव युष्माकमपि विष्वग् प्रायोग्यं गृह्यते । ततो ब्रुवन्त्यार्यमङ्गव आचार्या अत्रार्थे यूयमेव दृष्टान्ताः । कथमित्याह
[भा. २६८५ ]
जा भंडि दुब्बला ऊ तुं तुझे बंधहा पयत्तेण । नवि बंधह बलिया ऊ दुब्बलबलिए च कुंडीवि ।।
वृ- अहो शाकटिक ! या तव भण्डी गन्त्री दुर्बला तां यूयं प्रयत्नेन बध्नीश । ततः सा वहति पुनरबध्वा वाह्यते तदा विनश्यति । या पुनर्बलिका तां नैव बध्नीय बन्धनव्यतिरेकेणापि तस्या वहनात् वैकटिकां प्रतिब्रुवते भो वैकटिक! या तव कुण्डी दुर्बला तां वंशदलैर्बध्वा तत्र मद्यं संधत्थ । या तु बलिका कुण्डी तस्या बन्धमकृत्वापि तत्र सन्धानं कुरुथ । दुब्बलबलिए व कुंडी वि एवं कुंड्यपि दुर्बला बलिका च भण्डीवत् वक्तव्या उक्तो दृष्टान्तः । साम्प्रतमुपनयमाह ।।
[भा. २६८६ ]
एवं अजसमुद्दा दुब्बलभंडीवा संठवणयाए । धारति सरीरं तू बलि भंडी सरिसग वयं तु ।।
- एवमुक्तेन प्रकारेण दुर्बलभंडी दुर्बलगन्त्रीव्रात्मीयं शरीरं संस्थापनया धारयन्ति नेतरथा ततस्तेषां योग्यं विष्वक मात्रके गृह्यते, वयं तु बलिकभण्डीसदृशास्ततो न शरीरस्य संस्थापनापेक्षामाहनिप्पडिकम्मो वि अहं जोगाण तरामि संधणं काउं ।
[भा. २६८७]
नेच्छामि य बितियंगे वीसुं इति बेति ते मंगू ।।
वृ- निःप्रतिकर्मापि योगानां सन्धानं कर्तुं शक्नोमि ततो नेच्छामि द्वितीयेऽङ्गमात्रके विष्वक् गृह्यमाणमिति ते मङ्गवाचार्या ब्रुवते ।।
[भा. २६८८ ]
न तरंति तेन विना अज्जसमुद्दा उ तेन वीसं तु ।
इय अतिसेसायरिए सेसा पंतेन लाटेंति ।।
वृ- आर्यसमुद्राः पुनराचार्यास्तेन विष्वक् प्रायोग्यग्रहणेन विना योगानां सन्धानं कर्तुं न शक्नुवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org