________________
१९६
व्यवहार-छेदसूत्रम् -२-६/१४९ [भा.२६७६] खंतादिगुणोवेओ, पहाणनाणतवसंजमावसहो ।
एमाइसंतगुरुणविकत्थणंसंसणातिसये ।। वृ- गंभीरोऽपरश्रावी, मार्दवितो मार्दवोपेतस्तथाभ्युपगतस्य शिष्यस्य प्रातीच्छिकस्य वत्सलो यथोचितवात्सल्यकारी, तथा शिवोऽनुपद्रवस्तथा सोमः शांताकृतिः तथा विस्तीर्णकुलोत्पन्नो दाता कृतज्ञः श्रुतवान्तथाक्षान्त्यादिगुणोपेतःज्ञानप्रधानतपः संयमानामावसथो गृहंएवमादीनांसतांगुरुणां गुणानां विकथनं श्लाघनमेव चतुर्थः प्रशंसनातिशयः । अधुना प्रशंसनस्य फलमाह[भा.२६७७] संतगुणकित्तणया अवणवादीनचेव पडिघातो ।
अविहोजसंसईणंपुच्छाभिगमे दुविहं लाभो ।। वृ- सद्गुणोत्कीर्तनायां महती निर्जरा भवति । तथा सद्गुणकीर्तनाया अवर्णवादिनां प्रतिघातः कृतोभवति, अपिभवेदयंमहान्गुणोगुणोगुणवन्तमाचार्यश्रुत्वाबहूनांराजेश्चरतलवरप्रभृतीनांसंशयिनां पृच्छार्थमभिगमो भवति । पृच्छानिमित्तमाचार्यसमीपमागच्छन्ति आगताश्च धर्मं श्रुत्वा अगारधर्ममनगारधर्मवाप्रतिपद्यन्ते इति द्विविधो लाभः पञ्चमातिशयप्रतिपादनार्थमाह[भा.२६७८] करचरण नयन दसणाइधावणं पंचमो उअतिसेसो ।
आयरियस्स उसययं, कायव्योहोति नियमेन ।। वृ- करचरणनयनदशनादि प्रक्षालनं पञ्चमोऽतिशयः । सततमाचार्यस्य नियमेन भवति । कर्तव्यः । अत्र पर आह[भा.२६७९] मुहनयनदंतपायादिधोवणेको गुणोत्तितेबुद्धी ।
अग्गिमतिवाणिपड्डुयातो होइअनोतप्पयाचेव ।। वृ-मुखनयनदंतपादादिधोवने को गुणइतिएषातेबुद्धिः स्यात् । अत्रोच्यते-मुखदन्तादिप्रक्षालनेऽग्निपटुता जाठराग्निप्राबल्यं, मतपिटुतावाक्पटुता च नयनपादादि प्रक्षालने अनोत्तप्पया अलज्जनीयशरीरता भवति । एष गुणो मुखादिप्रक्षालेन । एते पञ्चातिशयाः । पञ्च उपलक्षणमन्यदपि यथायोगमाचार्यस्य कर्तव्यम् ।। तथा चाह[भा.२६८०] असढस्सजेनजोगाण संधणंजह उहोइथेरस्स ।
तंतंकरेंति तस्स उजह से जोगानहायंति ।। वृ- यथास्थविरस्याशठस्यसतोयेन येन क्रियमाणेन योगानांसन्धानभवतितत्तस्याचार्यस्य साधवः कुर्वन्ति, ।तथा से तस्याचार्यस्य योगान हीयन्तेनहानिमुपगच्छन्ति ।। [भा.२६८१] एए पुन अतिसेसे उवजीवेयावि कोविदढदेहो ।
निदरिसणं एत्थभवे अजसमुदायमंगूअ ।। वृ- एतान् पुनरतिशयान् कोऽप्याचार्यो दृढदेहः सन् नोपजीवति यस्तु दृढदेहः सोऽशठो भूत्वा उपजीवतिनतुतैरतिशयैर्गवं करोति हर्ष वामनसि मन्यते,त्रनिदर्शनं भवन्त्यार्यसमुद्रामंग्वाचार्याश्च । [भा.२६८२] अजसमुद्दा दुब्बलकिति(त)कम्मा तिन्नितस्स कीरति ।
सुतत्थ पोरिसि समुट्ठियाणतइयंतुचरमाए || वृ- आर्यसमुद्राः सूरयो दुर्बलाः दुर्बलशरीरास्ततस्तेऽतिशयानुपजीवितवन्तोऽनुपजीवने. योगसन्धानकरणाशक्तेस्तथा च तस्य प्रतिदिवसंत्रीणिकृतकर्माणिविक्षामणारूपाणि क्रियन्ते । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org