________________
उद्देशक :- ६, मूल- १४९, [भा. २६१६ ]
१८५
वृ- नभोमण्डलस्य मध्यगते सूर्ये मध्याह्ने इत्यर्थः । भिक्षार्थमवतीर्णास्ततः पर्याप्तं हिंडित्वा यावत् तृतीयपौरुष्या आदी स्वाध्यायप्रस्थापनवेला तावत्सन्निवर्तते। एतावदुत्कृष्टं संस्त अनुवा तृतीयपीरुष्या आदौ स्वाध्यायप्रस्थापनावेला तावत्सन्निवर्तन्ते । एतदुत्कृष्टं संस्तरणम् । मध्यमं जघन्यं चाहसणातो आगयाणं च पोरिसी मज्झिमं हवंति एयं । विसुयावियमत्तदिणे समतित्थं ते जहणंतु ।।
[भा. २६१७]
वृ- मध्याह्लादारभ्य भिक्षार्थमवतीर्णानां पर्याप्तं हिण्डित्वा वसतावागतानां भुक्तानां संज्ञातः संज्ञाभूमीत आगतानां यदि चतुर्थी पौरुषी अवगाहते एतत् मध्यमं संस्तरणं भवति मध्याह्लादारभ्य भिक्षामटित्वा भुक्त्व संज्ञाभूमीतः प्रत्यागत्यमात्रेषु चतुर्थी पौरुषी अवगाहते एतत् मध्यमं संस्तरणं भवति । मध्याह्नादारभ्य भिक्षामटित्वा भुक्त्वा संज्ञाभूमीतः आगतानां यदि विसूयादिएसु विशोधितेषु सूरास्तमयेन दिनं समतिक्रामति जघन्यं संस्तरणवसातव्यं तदेवमुक्तं जघन्यादिभेदभिन्नं संस्तरणाभिदानीमध्वादिद्वारव्याख्यानार्थमाह
[ भा. २६१८]
अद्धाणे असंथरणे अकोवियाणं विकरणपलंबे । एमेव कक्खडंमि वि असतित्ति सहायगा नत्थि ।।
बृ- अध्वनि सार्थेन समं व्रजतामसंस्तरणे भिक्षार्थमाचायो हिण्डते, अथवा ते सहाया अकोविदाः सार्थे च प्रलम्बान्यविकरणकृतान्यखण्डीकृतानि लभ्यन्ते । ततः आचार्यः स्वयमेव हिण्डमानस्तानि विकरणानि कृत्वा सन्निवर्तते अथवा ददतामुपदेशं ददाति विकरणानि कृत्वा ददध्वमिति । एवमकोविदानां सहायानां भावे प्रलम्बविकरणनिमित्तमाचार्यो गच्छति । एवमेव कर्कशेपि क्षेत्रे भिक्षार्थं गमनमाचार्यस्य भवति । तत्राप्यसंस्तरणे अकोविदसहायभावे प्रलम्बविकरणाय वा गच्छतीति । तथा असतित्ति नाम सहायका न सन्ति ततः स्वयमेव भिक्षामटति ।।
[भा. २६१९]
7
बहुया तत्थ अतरंता अव गिलाणस्स सो परं लहति । एमेव य आदेस सेसेसु विभासबुद्धीए ।।
वृ- बहवस्तत्र गच्छे अतरन्तो ग्लानास्ततः सर्वेषां गच्छसाधवः प्रायोग्यमुत्पादयितुमशक्ता अथवा ग्लानस्य परं प्रायोग्यमन्यो न लभते किन्तु स एवाचार्यस्ततः स हिण्डते । एवमेवादेशेषु प्राघूर्णक शेषेषु च बालवृद्धासहेषु विभाषा विविधं भाषणं स्वबुद्धया कर्तव्यं । तच्चैवं यद्यादेशादयो बहवः सर्वेषां साधवः कर्तुं न शक्नुवन्ति । यदिवा स एवादेशादिप्रायोग्यं लभते नान्यः कोऽपि ततः स हिण्डते सम्प्रति संथरमाणे भइओ इति व्याख्यानयति
[भा. २६२० ]
अब्भुज्जयपरिकम्मं कुणमाणं जा गणं न वोसिरिति ।
ताव सयं सो हिंडइ इति भयणा संथरंतंमि ।।
वृ- अभ्युद्यतविहारपरिकर्म कुर्वन् यावत् गणं न व्युत्सृजति तावत्स्वयं स आचार्यो हिण्डते, इत्येषा भजना संस्तरति गच्छे
[भा. २६२१]
Jain Education International
अद्धाणादिसुवेहं सुहसीलतेण जो करेजाहि । गुरुगाय जंच जत्थ व सव्वपयत्तेण कायव्वं ॥
बृ- अध्वादिषु अध्वकर्कशादिष्वसंस्तरति गच्छे सुखशीलत्वेन सुखमाकांक्षमाण आचार्योऽहमित्यालम्बनमाधाय य उपेक्षामाचार्यः करोति भिक्षां न हिण्डते इत्यर्थः । तस्य प्रायश्चित्तं
For Private & Personal Use Only
www.jainelibrary.org