________________
१८४
व्यवहार - छेदसूत्रम् - २ ६ / १४९
अप्पाणगच्छमुभयं परिचयती तत्थिमं नायं ।।
वृ- उत्पन्नेऽपि कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुर्भिक्षां हिंडते तर्हि स गुरुरात्मानं गच्छमुभयं च परित्यजति । तत्र चेदं वक्ष्यमाणज्ञातमुदाहरण । तदेवाह - सोउं परबलमायं सहसा एकागिओ उ जो राया । निग्गच्छति सोचयती अप्पाणं रजमुभयं च ।।
[भा. २६१२]
वृ- यो निरपेक्षो राज्ये परबलमागतं श्रुत्वा बलवाहनान्यमेलयित्वा सहसा एकाकी परबलस्य संमुखो निगर्च्छति, स आत्मानं राज्यमुभयं च त्यजति, बलवाहव्यतिरेकेण युद्धारंभे मरणभावात् । एवमाचार्योऽपि निरपेक्षः समुत्पन्नेऽपि कारणे सहसा भिक्षामटन्नात्मानं गच्छ्मुभयं च परित्यजति । सावेक्खो पुन राया कुमारमादीहि परबलं क्खविया । अजिएसपि जुज्झइ उवमा एसेव गच्छेवि ।।
[भा. २६१३]
वृ- सापेक्षः पुना राजा प्रथमं कुमारादीन् युद्धाय प्रेपयति ततः कुमारादिभिः परखलं क्षपयित्वा वदा कुमारैर्न परिजीयते परबलं तदा तस्मिन्नजिते स्वयमपि राजा युध्यते । एषा एवोपमा गच्छेऽपि द्रष्टव्या । आचार्योऽपि पूर्वं यतनां करोति तथापि असंस्तरणे स्वयमपि हिण्डते एव चात्मानं गच्छमुभयं च निस्तारयतीति भावः । । सम्प्रति यैः कारणैराचार्येण भिक्षार्थमदितव्यं तानि कारणान्याह - अद्धाणकक्खडासति गेलणादेसमाईएसुच ।
[भा. २६१४ ]
संथरमाणे भइतो हिंडेज असंथरंतंमि ||
वृ- अध्यानं प्रपन्नः सार्धेन सममाचार्यो गच्छंस्तत्र चासंस्तरणे यदि सार्थिका आचार्यस्य गौरवेण प्रयच्छन्ति, ततः स्वयमेव आचार्यो हिण्डते, एवं कर्कशेऽपि क्षेत्रे भावनीयं, तथा असति सहायानामभावे को भिक्षामानीय ददाति स्वयं हिण्डते । तथा ग्लाना बह्वस्ततस्तेषां सर्वेषामपि गच्छसाधवः प्रायोग्यमुत्पाटयितुशक्ता अथवा ग्लानप्रायोग्यमन्यः कोऽपि न लभते तत आचार्यो हिण्डते । एवमादेशाः प्राघूर्णिका आदिशब्दात् बालवृद्धासहपरिग्रहस्तेष्वपि भावनीयं । एतेषु विषयेष्वसंस्तरति गच्छे नियमाचादाय कुर्वन् हिण्डते । शेषकाले नेत्यर्थः । एष द्वारगाथा संक्षेपार्थः । अत्र यदुक्तं संस्तरणे न हिण्डते इति तत्र संस्तरणं त्रिविधं जघन्यं मध्यममृत्कृष्टं च तत्र जघन्यमधिकृत्याहपंचवि आयरियादी अच्छंते जहन्नए वि संथरणे ।
[भा. २६१५]
एवं संथरंते सयमेव गणी अडतिगामे ।।
वृ- जघन्येऽपि वक्ष्यमाणस्वरूपे संस्तरणे पञ्चाप्याचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदिनस्तिष्ठन्ति । जघन्येऽपीत्यपिशब्दः संभाने । स चैतत् संभावयति यदि तावत् जघन्येऽपि संस्तरणे पञ्चाप्याचार्यादयस्तिष्ठन्ति । ततो मध्यमे उत्कृष्टे संस्तरणे नियमात् पञ्चभिरपि स्थातव्यं । एवमपि जघन्येनापि संस्तरणेनासंस्तरति गच्छे स्वयमेव गणी आचार्यो ग्रामे भिक्षामटति । स च प्रतिलोमपरिपाट्या पर्यन्ते तथा हि-जघन्येनापि संस्तरणेनासंस्तरति प्रथमं गणावच्छेदको हिण्डते, तथाप्यसंस्तरणे स्थविरो हिण्डते, एवमप्यसंस्तरणे प्रवर्त्यपि तथाप्यसंस्तरणे उपाध्यायोऽपि, तथापिचेन्न संस्तरति गच्छस्तत आचार्योऽपि तत्र प्रथमत उत्कृष्टसंस्तरणमाह
[ भा. २६१६ ]
Jain Education International
मंडलयंमि सूरे उत्तिणा जाब पठवणवेला. १ ता एंति भुत्ता सन्नागया च उक्कोससंथरणे ।।
For Private & Personal Use Only
www.jainelibrary.org