________________
उद्देशक
:-६, मूल १४९ [भा. २६०४ ]
१८३
रक्खय सिस्सच्चाए हिंडणतुल्ले समताया ।।
बृ- वातादयो दोषा गुरोर्भवन्ति । इतरेषां साधुनां किं तेन भवन्तिभवन्त्येवेति भावः । ततो हिण्डते हिण्डनदोषे तुल्ये आत्मनो रक्षा क्रियते । शिष्याणां च त्याग इत्यसमता नेदं समंजसमित्यर्थः । अन्यच्च[भा. २६०५ ] दसविहवेयावच्चे निच्चं अब्भुट्टिया असढभावा । ने दानि परिवन्ना अनुजमंताण दणडोय ।।
बृ- दशविधि आचार्यादिभेदतो दशप्रकारे वैयावृत्त्ये नित्यं सर्वकालमशठभावाः सन्तो अभ्युत्थितास्ते सम्प्रति वातादिदोषान्पश्यद्मिरपि भिक्षाटने प्रेष्यमाणपरित्यक्ताः तथा दशविधवैद्यावृत्त्येनोद्यच्छन्ति ततस्तेषामनुद्यच्छतामाचार्यादिवैयावृत्त्यकरणे यथार्हं प्रायश्चित्तं दण्डो दीयते । तदेवं 'सीसाय परिचत्ता' इतिभावितमिदानीं कुटुंम्बिका पणयेति दृष्टान्तं भावयति ।
[भा. २६०६]
वड्ढि धन्नसुभरियं कोट्ठागारे डज्झते कुटुंबस्स । किं अम्ह मुहा देई केई तहिय न अल्लीणा ।।
वृ- एक कौटुम्बिकः स कर्षकाणां कारणे समुत्पन्ने वृद्धया कालान्तररूपया धान्यं ददाति । तया च वृद्धया कौटुंबिकस्य कोष्ठागाराणि धान्यस्य सुभृतानि जातानि । अन्यदा च तस्यैकं कोष्ठागारं वृद्धिधान्यसुभृतं वह्निना प्रदीप्तेन दह्यते । तत्केचित्कर्षका विध्यायननिमित्तं तत्र प्रदह्यमाने कोष्ठागारे समागता किमेष कौटुम्बिकोऽस्माकं मुधा ददाति येन वयं विध्यापनार्थमभ्युद्यता भवामः । 1 [भा. २६०७] एयरस पभावेणं जीवा अम्हेति एव नाऊणं । अणे उ समल्लीणा विजविए तेसि सो तुट्टो ।।
वृ- अन्ये कर्षका एतस्य कौटुम्बिकस्य प्रभावेन बयं जीवन्ति स्म जीवा अचप्रत्ययः जीविता इत्यथः एवं ज्ञात्वा समालीनास्तत्र समागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्टागारे सा कौटुम्बिकस्तेषां तुष्टः किमकार्षीदित्यत आह
[भा. २६०८ ]
जे उ सहायत्तं करेसु तेसिं अवद्धियं दिनं । दिनंति न दिन्नियेरे अकासंगा दुक्खजीविया ।।
वृ- ये तु विध्यापने सहायत्वमकार्षुस्तेषामवृद्धिकं कालान्तररहितं धान्यं दत्तं, इतरेषां तु सहायत्वमकृतवतां दग्धमित्युत्तरं विधायन दत्तंततस्ते कर्षकाः सन्तो दुःखजीविनो जाताः ।
[ भा. २६०९]
आयरियकुटुंबी वा सामाणिया भवे साह ।
८
बाबाह अगनितुल्ला सुत्तत्त्था जाण धनंतु ।।
वृ- आचार्यः कुटुम्बीक: कुटुम्बितुल्य इत्यर्थः । सामान्य कर्षक स्थानीयाः साधवः आचार्यस्य भिक्षाटने वातादिव्याबाधाग्नितुल्या, सूत्रार्थान् जानीहि धान्यं धान्य तुल्यान् ।
[भा. २६१०]
एमेव विनीयाणं करेति सुतत्थ संग थेरा ।
होवेंति उदासीने किलेस भागी य संसारे ॥
- कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्या सूत्रार्थसंग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति, यत्र उदासीनः तत्र हायन्तीति न प्रयच्छन्तीति भावः । स चोदासीनो वर्तमानो न केवलं सूत्रार्थयोग्यो भवेत्, क्लेशभागी च संसारे जायते । गतं ध्यापनद्वारं सम्प्रति दण्डिकदृष्टान्तंउप्पन्नकारणे पुन जइ सयमेव सहसा गुरू हिंडे ।
[भा. २६११]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org