________________
१८२
व्यवहार-छेदसूत्रम् -२-६/१४९ रायावि बितियदिवसेतइएअमच्ची यदेवीय ।। वृ- राज्ञो अमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः स च राज्ञस्तकमाचार्यं निवेदयति । यथा गुणवानतीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राज्ञा अमात्येन सहागतः । स धर्मं श्रुत्वा परितुष्टआगतो निजानमहिष्याः परिकथयति ।अमात्येनाप्यात्मीयभार्यायाः कथितं, ततोऽमात्यीदेवी चतृतीयदिवसे धर्मश्रवणाय समागता आचार्यो भिक्षार्थंगतस्ततः ।। [भा.२५९९] साउपडिच्छिऊण गया अहवा पडिच्छिन्ने खिंसां ।
हिंडंति होति दोसाकरेण पडिवत्ति कुसलेहिं ।। वृ-भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्रं प्रतीक्ष्य हीलग्नत्यौ गते, यदि वा यावदाचार्य आगच्छति, तावत्प्रतीक्ष्यमाणे हीलयतः अथवा प्रस्विन्नशरीर परिगलतप्रस्वेदमागतंद्दष्टा खिंसतो यदि वा क्लमेन सुष्टुकृतं न वदनं नवासोमं कथयतो वा परिश्रमेण न सुष्टु वचनविनिर्गमस्तत उत्थितेहीलयतोयथा पिएडोलक इवैषभिक्षामटतिकिमाचार्यत्वमेतस्य ।एते भिक्षां हिण्डमाने दोपाः । यदिपुनः कारणे वक्ष्यमाणेभिक्षार्थंगतोभवेतराजादयश्च तत्रागतास्तेचपृच्छेयुः क्व गत आचार्यस्तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यं भिक्षार्थं गत इतचित्यवन्दनमित्तं गत इति यदि ते राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीव दक्षा गीतार्थास्तेषां सुन्दरं पानकं प्रथमाकिं च सुन्दरं कल्पं चोलपट्टं च गृहीत्वांचार्यसमीपे गत्वा आचार्यस्य कथयन्ति । तत आचार्यो मुखहस्तपादादिप्रक्षाल्यप्रथमालिकां पानकं च कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादशवेषो वसतावानीयते यथाऽनाख्यातोऽपि राजादि भियिते एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति । पादप्रमार्जनान्तरंवसतेरंतरवसतेरंतःप्रविश्य पूर्वरचितावां निसद्यायामुपविशति, उपविष्टस्यचचरणकल्पकरणायकोपिसाधुरुपौक्ते, चरणप्रक्षालनानन्तरंसर्वे साधवः पुरतः पार्श्वतः पृष्टतो वा किंकरभूतास्तिष्ठन्तियथा राजा चकितस्तिष्ठति । एतदेवाह । (भा.२६०१] कारणेभिक्खस्सगते विकजं अन्नं निवस्ससाहित्ता ।
निजोग नयणपढमाकमादिधुवणंमणूनाई ।। ३-कारणे वक्ष्यमाणे लक्षणे समापतिते भैक्षस्य गतेऽप्याचार्ये नृपस्यान्यत्कार्यं कथयित्वा प्रथमालिकादेर्नियोगस्य नयनं, ततः क्रमादिप्रक्षालनं ततोमनोज्ञप्रथमालिकादिकरणम् ।। [भा.२६०२] कयकुरुकय आसत्यो पविसइपुचरइयनिसेजाए।
पवयायहोति सीसा जहचकितो होइराया वि ।। वृ-कृतकुरुकचः कृतकुल आस्वस्थः प्रविशति ।प्रविश्यचपूर्वरचितायां निषद्यायामुपविशति । ततः पादप्रक्षालनसमीपोपवेशनप्रयतास्तथा भवन्तियथाराजापिचकितोजायते । अत्रपरःप्रश्रमाह[भा.२६०३] सीसा यपरिचत्ता चोदगवयणंकुटुंबिज्झामणया ।
दिटुंतो दंडिएणसावेक्खे चेव निरवेक्खे ।। वृ-चोदकवचनमाचार्यं रक्षयित्वा शिष्या भिक्षायां प्रेषितास्तर्हि ते त्यक्ता, आचार्य आह-अत्र कुटुम्बिगृहपदीपनदृष्टान्तः । सापेक्षनिरपेक्षे चाचार्ये । एष द्वारगाथाक्षरार्थः । साम्प्रत्येनामेव विवरीषुः प्रथमतः सीसाय परिचत्ता इतिभावयति
[भा.२६०४] वायादीया दोसागुरुस्स इतरेसि किंनतेहोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org