________________
पीठिका - [ भा. १८० ]
६५
वृ- या भंडी मंत्री एकदेशे क्वचित् अध्ढा सा शीलाप्यते तस्याः परिशीलनं कार्यते तुशब्दो यस्मादर्थे यतः सा तथाशीलिता सती करोति कार्यं, या पुनः संस्थापिता सती दुर्बलान कार्यकरणक्षमा तां विषन्नदारुं नैव तुशब्द एवकारार्थी भिन्नक्रमत्वादत्र संबध्यते, शीलयंति, कार्यकरणाक्षमत्वात् एष भंडीदृष्टांत एतदनुसारेण पोतदृष्टांतोपि भावनीयः । तद्यथा
[भा. १८१]
जो गदेसे अदढा उ पोतो, सीलप्पए सोड करेइ कज्जुं । जो दुब्बली संठवितोवि संतो न तंतुसीलंति विसन्नदारुं ।।
- दातिकयोजना त्वेवं, यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संवमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालं संयमपरिपालनाय युक्ता चिकित्सा, अल्पेन प्रभूतमन्वेषयेदिति वचनात्, यदा चायुः संदिग्धं न प्रगुणीकृतोपि देहः संयमव्यापारक्षमस्तदैवं प्रज्ञापनानिष्फला चिकित्संति न चिकित्सा कारयितुमुचितोति अन्यच्च [ भा. १८२ ]
संदेहियमारोग्गं, पटणोवि न पञ्च्चलोनुजोगाणं । इइ सेवतो दप्पे वट्टइ नय सो तहा कजी ।।
वृ- संदिग्धमारोग्यप्रतिरोगग्रस्तत्वात् न च प्रगुणोपि प्रगुणीकृतोपि योगानां संयमव्यापाराणां करणे प्रत्यः समर्थ इति जानानो यदि यतनयाप्यकल्प्यं प्रतिसंवते, तदा स दर्पे वर्त्तते, न च स तथारूपो सेवनाया दीर्घसंसारमूलत्वात् इति प्रज्ञाप्यते यदि पुनरेवमपि प्रज्ञाप्यमानी नावबुध्यते, तदा यतनया रुपेक्षितव्यं; यः पुनस्तरुणो मनाक् वृद्धो वा प्रगुणीकृतः सन् तपःसंयमादिषु प्रत्यलो भवितेति ज्ञायते, तदा तं चिकित्सामप्रतिपद्यमानं प्रत्येवं प्रज्ञापना ।।
[ भा. १८३ ]
कोहं अछित्तिं अदुवाअहीहं तवोविहाणसुयउज्जमिज्जं ।। गणं बनीइएयसारविस्सं सालंबसेवी समुवेइ मोक्खं ।।
वृ- यो ग्लानः सन्नेवमवबुध्यते, समर्थो भूतः सन्नछित्तिं प्रभूतलोकप्रव्राजनादिना तीर्थाव्यवच्छेदं करिष्यामि । अदुविति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शनप्रभावकाणि वा शास्त्राणि । यदिवा तपी लब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु उज्जमिस्साति उद्यमिष्यामि उद्यमं करिष्यामि, गणं वा गच्छं वा नीत्या सूत्रोक्तया सारयिष्यामि गुणैः प्रवृद्धं करिष्यामि स एवं सालंबसेवी एतैरनंतरोदितैरालंबनैर्यतनया चिकित्सार्थमकल्पमपि प्रतिसेवमानः समुपैति प्राप्नोतिमोक्षं सिद्धिमिति। व्यवहार सूत्रस्य पीठिका समाप्ता
मुनि दीपरत्नसागरेण संशोधिता सम्पादिताव्यवहारसूत्रस्य पीठिकायाः [ सनिर्युक्तिः ] भाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
उद्देशक : १
- गतो नाम निष्पन्नो निक्षेपः संप्रति सूत्रालापक निष्पन्नस्य निक्षेपस्वावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, सचानुगमोद्विधा सूत्रानुगमो निर्युक्त्य नुगमश्च, तत्र नियुक्त्य नुगमस्त्रिविधस्तद्यथा निक्षेप निर्युक्त्यनुगमः उपोद्घात निर्युक्त्यनुगमः सूत्र स्पर्शिक निर्युक्त्यनुगमश्च, निक्षेप निर्युक्त्त्य नुगमोऽनुगतः; सूत्र स्पर्शिक नियुक्त्य नुगमो वक्ष्यते, उपोद्घात निर्युक्त्य नुगम स्त्वाभ्यां द्वार गाथाभ्यां समवगंतव्यः,
तद्यथा
215
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org