SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१. पनवणमनिच्छंते, दिटुंतोभंडिपोएहिं ।। वृ- त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे चिकित्स्थमाने गीतार्थे इति गम्यते, उजुयत्ति ऋजुकं स्फुटमेव व्याप्त साधुनाव्यापृतक्रियाकथनं कर्त्तव्यं इयमत्रभावना आचार्याणामुपाध्यायानां गीतार्थानांच भिक्षूणां विचिकित्स्यमानानांयदिशुद्ध प्रासुकमेषणीयं लभ्यते, तदा समीचीनमवंनतत्र विचार: अथ प्रासुकमेषणीयं न लभ्यते, अवश्यं च चिकित्सा कर्तव्या, तदा ऽशुद्धमप्यानीव दीयते, तथाभूते च दीयमाने स्फूटमेव निवेद्यते, इदमेवंभूतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्यातिपारिणामदोषस्य चासंभवात् । अगीतार्थभिक्षाः पुनः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनयाकुर्वति, नचाशुद्धंकथयति ।यदिपुनःकथयत्ययतनयाकुर्वति,तदासोऽपरिणामत्वादनिच्छन् यत् आगाढादि परितापनममनुभवति । तन्निमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वातिपरिणामतया सोतिप्रसंगं कुर्यात्, तस्मान कथनीयं नाप्ययतना कर्त्तव्या, अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत् यथा अकल्पिकमानीय मह्यं दीयते इति, तदा तदनिच्छन् प्रज्ञाप्यते तथाचाह पनवणमणिच्छते इति अकल्पिकमनिच्छत्यगीतार्थे भिक्षी प्रज्ञापना कर्तव्या । यथा ग्लानार्थ यदकल्पिकमपियतनया सेव्यते, तत्रशुद्धो प्लानो, यतनवा प्रवृत्तरल्पीयान् दोषोऽशुद्धग्रहणात् सोपि चपश्चात्प्रायश्चित्तेनशोधयिष्यतेनचासावल्पीयान् दोषोनांगीकर्तव्यः ।उत्तरकालं प्रभूतसंयमलाभात् । तथाहि चिकित्साकरणतः प्रगुणीभूतः सन्परिपालयिष्यतिचिरकालंसंयम,संयमप्रभावतश्चकदाचित् गम्यते तद्भव एव मोक्षो, यदि पुनश्चिकित्सां न कारयिष्यसि । ततस्तदकरणतो मृतः सन्त्रसंयतो भविष्यसि, असंयतस्य च भूयान् कर्मबंधस्तस्म्मादल्पेन बान्वेष्यतामेताद्विद्वत्ताया लक्षणं, उक्तंच, अप्पेण बहुमेसेजा एवं पंडियलक्खणमिति, एवं प्रज्ञापना तरुणे क्रियते, यः पुनः बालः स बालत्वात् यथा भणितंकरोत्येव यस्तु वृद्धस्तरुणो वातिरोगग्रस्तोऽचिकित्सनीयः स प्रोत्साह्यते महानुभाव! कुरु भक्तप्रत्याख्यानं,साधय! पूर्वमहर्षिरिवोत्तमार्थमेतजिनवचनाधिगमफलमिति, यदि पुनरेवमुत्साह्यमानोपिनभक्तप्रत्याख्यानं कर्तुमिच्छति, तदाभंडीपोताभ्यां दृष्टांतःकरणीयः,भंडीगंत्री, पोतः प्रवहणं, दृष्टांतकरणंचाग्रे स्वयमेव दर्शयिष्यति । एष गाथासमासार्थः सांप्रतमेनामेव गाथां विवृणोति ।। [भा.१७९] सुद्धालाभे अगीते अजयणकरणकहणे भवे गुरुगा | कुञा व अति पसंग, असंवमानेव असमाही ।। वृ-अगीते अगीतार्थे भिक्षौशुद्धालाभप्रासुकैषणीवालाभे अशुद्धेन चिकित्स्यमाने यदि अवतना क्रियते कथ्यतेवा, तदामुनिवृषभाणामयतनाकारिणां कथयतांप्रायश्चित्तं भवति, गुरुकाश्चत्वारा मासा गुरवः, इवमत्र भावना यदि अयतनाकरणतोऽकरणता वा ज्ञातं भवति । यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारा गुरुकाः एतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तं, या पुनरनिच्छतोऽसमाधिप्रवृतेश्नागाढादिपरिताफ्ना तनिष्प्रन्नमन्यदेव पृथगिति, यदिवा सोतिपरिणामकत्वादतिप्रसंग कुर्यात् । अथवा चिकित्सायाः प्रतिपेधतोऽकन्ल्पनीयमसेवमाने रोगवृद्विवशापदसमाधिस्तस्यस्यात् असमाहितस्यचकुगतिप्रपातस्तस्मात्तस्मिन्यतनयाकर्तव्यं, नच कथनीयमिति, सांप्रतं यदुक्तंभंडीपाताभगांदृष्टांतः कर्त्तव्य इति तत्रमंडोष्टांतंभावयति । [भा.१८०] जाएगदेसे अदढाउभंडी, सीलप्पए साउ करेइकर्ज । जादुब्बला संटवियाविसंती नतंतुसीलंति विसन्नदारूं ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy