________________
उद्देशक :- ६, मूल - १४९, [भा. २५४१]
खरियमुह संढगं वा लोभेउ तिरिक्खसंग्रहणं ।।
वृ- गुणवानाचार्य इति कृत्वा सर्वो लोक आचार्यस्यावृतोऽभवत् प्रणतोऽभूत्धिग्जातीयानां च केषाञ्चित् पापीयसां तथा पूजामाचार्यस्य दृष्ट्रा महामत्सरस्ततो मात्सर्येण संज्ञाभूमिगतमाचार्य प्रतिचर्य च्छन्ने प्रदेश मरुको ब्राह्मणः कोऽपि जीविताद्ध्यपरोष्य गर्तादिषु प्रच्छन्ने प्रदेशे स्थगयेत् । तथा खरिकामुखी दासी नपुंसकं वा प्रलोभ्य तत्र प्रेष्य संग्रहं कुर्यात् । तथा मैथुनमेष सेवमानो गृहीतस्ततः उड्डाहः स्यात्तथाऽनाभोगेनाचार्यो वनादि गुपिलमवकाशं संज्ञाव्युत्सर्जनाय प्रविष्टः स्यात्तत्र च तिरिक्खत्ति तिर्यग्योनिका गर्दभ्यादिका पूर्वगता पश्चाद्वा प्रविष्टा भवेत् । तां च केचित्प्रत्यनीका दृष्ट्रा उड्डाहं कुर्युः । मूलगाथायां यदुक्तं तिरिक्खादीति । तत्रादिशब्दव्याख्यानार्थमाह
[ भा. २५४२ ]
909
आदिग्गहाउभामिगाव तहा अन्नतित्थिगा वावि । अहवा वि अन्नदोसा हवंति सेवादिमादीया ||
बृ- आदिग्रहणात् उद्भामिका कुलटा तथा अन्यतीर्थिकी वा परिगृह्यते । सा तस्मिन् गहने पूर्वगता पश्चाद्वा प्रविष्टा भवेत् । तऊवात्मपरो भयसमुत्था दोषाः संग्रहणादयश्चप्रागुक्ताः । अथवा इमे वक्ष्यमाणा अन्य वाद्यादयो दोषा भवन्ति तानेव संजिघृक्षुर्द्वारगाथामाह
[भा. २५४३ ]
वादी दंडियमादी सुत्तस्थाणं व गच्छपरिहानी । आवस्सगदितो कुमार अकरते करतेय ।।
बृ - वादि दण्डिकादयो वादिदण्डिकादिविषया बहवो दोषास्तथा सूत्रार्थानां गच्छस्य च परिहानिः । अथवा सूत्रार्थानां परिहानिर्गच्छेच ज्ञानादीनां परिहानिस्तथा आवश्यकं उच्चारावश्यकं कुवन् अकुर्वंश्च कुमारो दृष्टान्तः एष द्वारगाथासंक्षेपार्थः । । साम्प्रतमेनामेव विवरीषुः प्रथमतो वादिद्वारमाहसन्नागतोत्ति सिद्धे भवातिसारोत्ति बेति परिवादी ।
[भा. २५४४ ]
मा होहिरिसिवज्झा वच्चामि अलं विवाएण ।।
वृ- कोऽपि परप्रवादी बहुश्रुतमाचार्यं लोकपूजितं श्रुत्वा तेन समं वादं करिष्यामीत्यागतो भवेत् । आचार्यश्चसंज्ञाभूमिं तदा गतस्तेन चागतेन वसतौ पृष्टंक्व आचार्याः ? साधुभिः कथितमाचार्याः संज्ञाभूमिं गताः एवं श्रुत्वा स परप्रवादी ब्रूयात् स मम भयेन पलायित्तो यदि वा मम भयेनातसारो जातः । अथवा मा भविष्यत्येषां हत्येति व्रजामि अलं पर्याप्तं विवादेन । अधुना दंडियमादिति व्याख्यानयतिचंदगवेज्जासरिसं आगमनं रायइडिमंताणं । पव्वज्जसागभट्टइच्चादिगुणाण परिहानी ||
[ भा. २५४५ ]
वृ- यथा इन्द्रपुरे इन्द्रदत्तस्स राज्ञः सुतेन कथमपि पुत्तलिकाक्षिचन्द्रकस्य वेधः कृतस्तत् सदृशं राज्ञऋद्धिमतां वान्येषामाचार्यसमीपे आगमनं आचार्ये च संज्ञाभूमिं गते दण्डिकादिरागतो भवेत् । ततः संज्ञाभूमिं गतश्चाचार्य इति श्रुत्वा प्रतिवर्तते यदि पुनः संज्ञाभूमिं न गता आचार्या भवेयुस्ततो धर्म श्रुत्वा कदाचित्ते प्रव्रज्यां गृह्णीयुः । प्रव्रजितेषु च राजादिषु महती प्रवचनप्रभायना तथा श्रावकत्वं केचित्कदाचित्प्रतिपद्येरन् । यथा भद्रका वा भवेयुस्तथा च चैत्यसाधूनां महानुपग्रहः । संज्ञाभूमिगमने चैतेषां गुणानां हानिः । सम्प्रत सुत्तत्थाणं च गच्छे परिहाणी इत्येतद्व्याख्यानार्थमाह
. [ भा. २५४६ ]
Jain Education International
सुत्तत्थे परिहानी वीयारं गंतु जा पुनो एइ । तत्येव य वोसरणे सुत्तत्येसुं न सीयंति ।।
For Private & Personal Use Only
www.jainelibrary.org