________________
१७२
व्यवहार - छेदसूत्रम् - २ ६/१४९ वृ- विचारं विचारभूमिं गत्वा यावत् तावत्सूत्रार्थपरिहानिः । इयमत्र भावना संज्ञाभूमिर्दूर भवेत्सूत्रपौरुष्यामर्थपौरुष्यांचार्धकृतायां आचार्यः संज्ञावान् जातस्ततो गतः संज्ञाभूमिं ततः उद्घाटायां पौरुष्यामर्धपौरुष्यां कालवेलायां समागतस्ततः सूत्रार्थपरिहानिः । तद्भावाच्च शिष्याः व्रतीच्छिकाश्चान्यं गणं व्रजन्ति, ततो गच्छस्यापि परिहानिस्तत्रैव पुनरुपाश्रये संज्ञाया व्युत्सर्जने सूत्रार्थेषु साधवो न सीदन्ति । अत्र चावश्यकं कुर्वन्नकुर्वन् कुमारो दृष्टान्स्तमेव भावयतितीरगए ववहारे खीरगते होंति तदिह उड्डाणे । कोसस्स हानि परचमुपेल्लण रजस्स अपसत्थे ।।
[भा. २५४७ ]
वृ- कुमारस्यास्थाने समुपविष्टस्यार्थिनः प्रत्यर्थिनश्च व्यवहारेणोपस्थितास्तेषां चोत्तरोत्तरेण व्यवहरतां व्यवहारस्तीरं गतः, । परंनाद्यापि समाप्तिमुपयाति । तस्मिंश्चासमाप्ते व्यवहारे सति राजकुमारः संज्ञावान् जातस्तत उत्थाय संज्ञाभूमिं गतः । स च यावन्नायाति तावदर्थिनः प्रत्यर्थिनश्च क्षीरोदकसंयोगादिवदेकीभूतास्ततो राजकुमारस्य प्रत्यागतस्य ते ब्रुवते वयं परस्परं सुस्थीभूताः । एवं सदा कुर्वन् समस्तादपि लक्षादिप्रमाणान् दण्डाय पदात्परिभ्रष्टस्ततः कोशस्य हानिर्जाता । तां च ज्ञात्वा परचमूः परबलमागतं तया च राज्यस्य प्रेरणमेषोऽप्रशस्ते दृष्टान्तः । प्रथस्ते पुनर्दृष्टान्तः स्वयं भावनीयः । स चायं-प्रथमत एवावश्यकमुच्चारादेः कृत्वा आस्थाने समुपविशति उपविष्टो यदि संज्ञावान् भवति । ततः प्रच्छन्ने प्रदेशे व्युत्सृजति । एवं तस्य कुर्वतः प्रभूतं प्रभूततरं दण्डाय पदं जातं । तथा च सति कोशस्यमही वृद्धिस्ततः परबलस्य प्रेरणं राज्यान्तरसंग्रहः । एष दृष्टान्तोऽयमर्थोपनयः । य आचार्यो बहिः संज्ञाभूमिं व्रजति, तस्य प्रागुक्तप्रकारेण सूत्रार्थपरिहानिस्तत्परिहान्या गच्छस्यापि परिहानिः शिष्याणां प्रातीच्छिकानां चान्यत्र गणान्तरे गमनात् । यस्तु तत्रैवोपाश्रये व्युत्सृजति तस्य न किञ्चिदपि परिहीयते इति सर्वं सुस्थं । एतदेवाह
[भा. २५४८ ]
वेलं सुत्तत्थाणं न भंजए दंडियादिकहणं वा । पच्छण अमयकोसे पुच्छा पुन साहणा विनए ।।
बृ- यथा बहिर्नगन्तव्यमेवं ग्रामादीनामन्तरेऽपि सूत्रार्थानामपरिहानिमित्तं दण्डिकादीनामागतानां धर्मकथाया अविघ्ननिमित्तं च संज्ञा व्युत्सृजनाय न गन्तव्यं किन्तूपाश्रस्यान्तर्व्युत्मृजनीयम् । येन सूत्रार्थं वेलायां न भनक्ति । नापि दण्डिकादीनामागतनां धर्मकथनं विघ्नयति । पूर्वमेव चोपयोगः कर्तव्यः । किं मम संज्ञा भवेन्न वा तत्र यदि शङ्का तदा कृतावश्यकेन सुत्रपौरुष्यामर्थपौरुष्यां च सूत्रार्थप्रदानायोवेष्टव्यम् । तत्रापिन तावदासितव्यं यावदवश्यमुत्थेयं भवति । किन्त्वग्रे अत्रार्थे निदर्शनमेक आचार्य आवश्यकं शोधयित्वा तिष्ठति । दण्डिकश्च धर्मश्रवणार्थमागत आचार्येण धर्मकथा प्रारब्धा । स च धर्मकथाक्षिप्तो राजकुमारो धर्मं शृण्वन्नभीक्ष्णमभीक्ष्णं कायिकी व्युत्सृजनायोत्तिष्ठति । आचार्यस्य च प्रच्छन्नो भृतकोशः समर्प्यते । प्रच्छन्नं कायिकी मात्रकं साधवः समर्पयन्ति । तत्र कायिकीः · व्युत्सृजति । ततो विनये लोकोत्तरिकेवलवति गज्ञः पृच्छा आचार्यस्य कथनमेतदेव विभावयिषुरिदमाह[भा. २५४९ ] निद्धाहारो वि अहं असई उठेमिन 'स' कहयंतो ।
पासगतो मन्ने मत्तं तत्थंतरिय पणामेइ ।।
वृ- राजा चिन्तयति ममास्ति स्निग्ध आहारस्तथापि कायिकी व्युत्सर्गाय पुनः पुनुत्तिष्ठामि । आचार्यस्तु कथयन् रुक्षाहरोऽपिकायिकी व्युत्सर्गायनोत्तिष्ठति नूनं मन्ये य एष आचार्यस्य पार्श्वे स्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org