________________
१७०
व्यवहार-छेदसूत्रम् -२-६/१४९ किन्तु वसतिंप्रविश्यात्मीय अवकाशे यतनयात्मनः पादौ प्रमार्जयेत् । प्रथमोऽतिशयोगतः । [भा.२५३८] बहिगमने चउगुरुगा आणादी वाणिएयमिच्छत्तं ।
पडियरणमनाभोगे खरिमुहमरुए तिरिक्खादी ।। वृ-आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुका आज्ञादयश्च दोषाः, । तथा वाणिएव मिच्छत्तमिति वणिजि अभ्युत्थानं पूर्वं कृतं भवति पश्चादकुर्वति केषांचिन्मिथ्यात्वमुपजायते ।इयमत्रभावना आचार्यसंज्ञाभूमिव्रजन्तंततः प्रत्यागच्छन्तंचदृष्ट्रावणिजोनिजनिजापणे स्थिता अभ्युत्थानं कृतवन्तस्तं च तथा वणिज्जांबहुमानेनाभ्युत्थानं दृष्टा केचिदन्ये मन्यन्ते गुणवानेष आचार्योयेनवणिज एवमनेमभ्युपतिष्ठन्ति । तस्मादस्माकमपिपूज्य इतितेऽपिपूजयन्तियदात्वाचार्यः कदाचित् द्वौ वारी संज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यम् । ते चालस्यं मन्यमाना अभ्युत्थातव्यं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति । तांश्च तथा कुर्वतो दृष्ट्रा अन्ये चिन्तयन्ति । नूनमेषप्रमादीजातोज्ञातोऽपिगुणवानपि यदीशः पतति तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्य लोकेन पूज्यमानं दृष्ट्रा मरुके बाह्यणस्व मारणबुद्धया प्रतिचरण भवति । ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् ।अनाभोगेनवा वनगहने प्रविष्टे तिर्यगादौचगर्दव्यादौकुलटादौ च प्रविष्टायामात्मपरोभवसमुत्थां दोषा एप गाथासंक्षेपार्थः ।। सम्प्रति वाणिएय मिच्छत्तमित्येतद्विभावंविषुराह[भा.२५३९] सुयवंतमि परिवारवंचवणियंतरावनुट्ठाणे ।
दुट्ठाणनगिमंमि यहाणी य परमुहावणा ।। वृ-संज्ञाभूमिव्रजतिततः प्रत्यागच्छतिवा तस्मिचार्ये श्रुतवानेष परिवारवांश्चेतिमन्यमाना अन्तरा निजनिजापणेषुस्थितावणिजोऽभ्युत्थानं कृतवन्तः । तेषांचोत्थाने लोक्सयचभूयान्बहुमान आसीत्। कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिं व्रजेत् ततो द्विस्थाननिर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं ततस्ते आलस्यं मन्यमाना अभ्थानस्य हानिं कुर्वन्ति ! ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यंभविष्यतीति कृत्वातमाचार्य दृष्टा परमुखा भवन्ति । अन्यतो मुखं कुर्वन्तीति भावः । अथवा अवर्णः स्यात्तथाहिद्वौवारी संज्ञाभूमिव्रजन्तमाचार्यं दृष्ट्रातेवदन्ति । नूनमेषआचार्यो द्वौ त्रीन्वारान्समुद्दिशतितेन द्वौ वारौ संज्ञाभूमिं याति ।। [भा.२५४०] गुणवंतुजतोवणियापूयं तन्नेव सन्नया तंमि |
पडियत्ति अनुठाणेदुविहनियत्ती अभिमुहाणं ।। वृ-वणिजांबहुमानेनाभ्युत्थानंदृष्टा केचिदन्येचिन्तयन्ति । गुणवानाचार्योयतोवणिजः पूजयन्ति। एवं चिन्तयित्वा तेऽप्यन्ये तस्मिन्नाचार्ये सन्नता भवन्ति । वारद्वयं संज्ञाभूमिगमने वणिजामनुत्थाने ते चिन्तयन्ति ।नूनमेष आचार्यः पतितः । कथमन्यथा वणिजः पूर्वमभ्युत्थानं कृतवन्तोनेदानीं कुर्वन्ति, तथा च सति तेषामभिमुखाणां द्विविधा निवृत्तिस्तथा ये श्रावकत्वं गृहीतुकामा ये च तस्य समीपे प्रव्रजितुकामास्ते चिन्तयंति यद्येषोपि प्रधानो ज्ञात्वा कुशीलत्वं प्रतिपद्यते तर्हि नूनं सर्वं जिनवचनमसारमितिमन्यमानाः श्रावकत्वात्व्रतग्रहणाद्वाप्रतिनिवर्तन्तेमिथ्यात्वंगच्छन्ति । सम्प्रति पडियरणमणाभोगे इत्यादिव्याख्यानमाह
[भा.२५४१] आउटोत्तिवलोगे पडियरिउच्छिन्नेमारुए मरुगो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org