________________
१५४
व्यवहार-छेदसूत्रम्-२-६/१४८ दष्टस्ततो दीर्थ ग्लानत्वं जातं, तस्मिन् सति प्रायोग्यौषधहेतोतिविधौ गमनं भवति । ततस्तत्प्रतिपादनार्थमेव सूत्रारम्भइति सूत्रसम्बन्धः । अथवायंसम्बन्धः ।। [भा.२४४४] गेलनमहिकयं वा, गिलाणहेउं इमो विआरंभो ।
आगाढंचतदुत्तं, सहनीयतरं इमंहोति ।। वृ- वाशब्दः प्रकारान्तरद्योतने । ग्लानत्वमनन्तरसूत्रेऽधिकृतमयमपि च सूत्रारम्भो ग्लानहेतुरिति सूत्रसम्बन्धः । केवलं यदि अनन्तरसूत्रे उक्तं ग्लानत्वं तदागादं कालक्षेपासहनात् । इदं त्वधिकृतसूत्रसूचितंसहनीयतरंज्ञातविधिगन्तुंशक्तत्वादितिएवमनेनसम्बन्धेनायातस्यास्यव्याख्याभिक्षुश्च शब्दात् भिक्षुकी च इच्छेत् ज्ञातविधिस्वजनभेदमागन्तुंतस्यन कल्पते स्थविरान् अनापृच्छ्य ज्ञातविधिमागन्तुं यावत्करणादेवंपरिपूर्णपाठः । 'कप्पति थेरा आपुच्छित्ता नयाविहिं एत्तए थेरा य से वियरेजा । एवं से कप्पइ नायविहिं एत्तए जंतत्थ धेरैहिं अवित्तिन्ने नायविहिं एइ से अंतरा वा परिहारे वा ।।' इदं प्राग्वत् । नो से कप्पइ इत्यादि नसे तस्य कल्पते, । अल्पश्रुतस्वागीतार्थस्व अल्पागमस्य बहिः शास्त्रेष्वति परिचयस्याविद्यमाननिजागमस्य एकाकिनो ज्ञातविधिमागन्तुं, कल्पते से तस्य यः सूत्रगच्छेबहुश्रुतसूत्रापेक्षयाबागमार्थापेक्षया तेनसाधुज्ञातविधिमागन्तुं ।तत्रनमितिवाक्यालङ्कारे । तस्य ज्ञातविधिमागतस्य पश्चादागमनेन आगमनात् पश्चात् यः पूर्वायुक्तश्चाउलोदनः पूर्वायुक्त इति केचित् व्याचक्षते । आगमनात्पूर्व तुल्यमारब्धो रन्धनाया अपरे व्याचक्षते गमनात्पूर्व पाकाय समीहितमेतन् मतद्वयमप्यसंगतमारब्धे समीहिते च पुनः प्रक्षेपसंभवात्तस्मात्पूर्वायुक्त इति किमुक्तं भवति आगमनात्पूर्वे गृहस्थैः स्वभावेन रध्यमानः स तन्दुलौदनो भिलिङ्गसूपो नाम सस्नेहसूपः कल्पते प्रतिग्रहीतुं योऽसो तत्र पूर्वागमनेन पूर्वमागताः साधव इति हेतोः पश्चादायुक्तप्रवृत्तस्तंदलौदनो भिलिंगसूपोवानासौ कल्पते प्रतिग्रहीतुम् । एष सूत्रसंक्षेपार्थः ।
अत्रभाष्यकारो ज्ञातविधिपदं व्याख्यानयति ।। [भा.२४४५] अम्मापितिसंबंधो पुव्वंपच्छा वसंथुया जेतु।
एसोखलुनायविहिनेगाभेयाय एक्कक्के ।। वृ- मातृद्वारेण पितृद्वारेण च यः सम्बन्ध एष ज्ञातविधिः ।अथवा ये पूर्व संस्तुता मातापित्रादयो ये च पश्चात्संस्तुताः श्वश्रूश्वशूरादय एष समस्तोऽपिज्ञातविधिरेकैकस्मिंश्चमातृद्वारे पितृद्वारे वा यदि वा पूर्वसंस्तुतेपश्चात्संस्तुतेवानेकेभेदाः अनेन विधिशब्दोभेदवाची व्याख्यातः ।अधुनानियुक्तिविस्तरः[भा.२४४६] नायविहिगमने लहुगा आणाइविराहसंजमायाए।
संजमविराधनाखलु उग्गमदोसो तहिं हुन्जा ।। वृ-निष्कारणे विधिनापि ज्ञातविधौ गन्तुंन कल्पते, यदि विधिनापि निष्कारणे ज्ञातविधौ गमनं करोति, तर्हि प्रायश्चित्तं चत्वारो लघुकाः । तथा आज्ञादयो दोषास्तथा संयमे आत्मनिच विराधना तत्र संयमविराधनायतस्तत्रखलुनिश्चितमुद्रमदोषाआधाकर्मादयोभवेयुः ।। कथमुद्रमदोषाभवेयुरतआह[भा.२४४७] दुल्लभलाभासमणानीया नीहेण आहकम्मादी ।
चिर आगयस्सकुजा, उग्गमदोसंतुएगयरं ।। वृ- दुर्लमलाभाः खलु श्रमणाः, तथा महता स्नेहेनास्माकं वन्दापनाय नीता निर्गतास्ततश्चिरादागतस्य आत्मस्वजनस्य तस्य प्राधूर्णकत्वकरणायोद्गमदोषमाधाकर्मादिकमेकतरं कुर्यात् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org