________________
१५२
व्यवहार- छेदसूत्रम् - २-५/१४७
उत्तरोत्तरः कारणीयः तस्याप्लाभे असम्बन्ध्यपि स्थविरादिभेदतस्त्रिविध उक्तक्रमेण कारयितव्यः । एते सर्वेऽपि द्विधा - अशौचवादा इतरे च । तत्र प्रथमतः सर्वत्राप्यशौचवादः कारयितव्यस्तदसंभवे इतरोऽपि ।।
[ भा. २४३४ ]
एएसिं असतीए गिहि गिणि परतित्थिगी तिविहभेया । एएसिं असतीए समणी तिविहा करेइ जयणाए । ।
वृ- एतेषां प्राग्गाधानिर्दिष्टानां सर्वेषामसति अभावे गृहस्था माता भगिनी तदभावे स्वजनाः स्थविरमध्यमतरुणभेदतस्त्रिविधाः पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या । तदभावे असम्बन्धिनी स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति, तामेव यतनामाहदूती अद्दाए अंतेउरे यदब्भेया ।
[भा. २४३५ ]
वियणे य तालबंटे चवेडतो मज्जणा जयणा ।।
वृ- काचति द्यूतविद्या भवति । तया च द्यूतविद्यया योद्यूत आगच्छति, तस्य दंशस्थानमपमायते । तेनेतरस्य दंशस्थानमुपशाम्यति । अद्दाएत्ति अपरा आदर्शविद्या तया आतुरआदर्शे प्रतिबिम्बितोSपमाते आतुरः प्रगुणो जायते । अन्या विद्या वस्त्रविषया भवति तया परिजपितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति । अपरा विद्यान्तःपुरे आन्तःपुरिकी विद्या भवति यया आतुरस्य नाम गृहीत्वा आत्मनो अङ्गमपमार्जयति आतुरश्च प्रगुणो जायते सा आन्तःपुरिकी । अन्या दर्भे दर्भविषया भवति विद्या यया दब्भैरपमृज्यमान आतुरः प्रगुणो भवति । वियणेयत्ति व्यञ्जनविषया विद्या यया व्यञ्जनमभिमन्त्र्य तेनातुरोऽमृज्यमानः स्वस्थो भवति सा व्यञ्जनविद्या । एवं तालवृन्तविद्यापि भावनीया | चपेटा चापेटीविद्या, यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थी भवति, सा चापेटी । तत्र पूर्वं त्या विद्ययापमार्जनं कर्तव्यमं । तदभो आदर्शिक्या । एवं तावद्यावदन्ते चापेटया । एषा अपमार्जनायतना एतदेव स्पष्टतरमाह
[भा. २४३६ ]
दूयस्सोमाइजइ य सती अद्यागपरजवित्ताणं । परिजवियं वत्थं वा पाउज्जइ तेन वोमाए ।। एवं भादीसुं असं संतोय हत्थेण । चापेडीविज्जाएवउमाएवेडयं दिंतो ।।
[भा. २४३७]
वृ- दूत्या विद्यया दूतस्यागतस्यांगमप्रमार्ण्यते, तस्या विद्याया असति आदर्शे सङ्क्रान्तमातुरप्रतिबिम्बं परिजप्यातुरः प्रगुणी कर्तव्यः । तदभावे वस्त्र प्रावार्यते, तेन वा परिजपितेन वस्त्रेणातुरोऽ प्रमार्जते एवं दब्र्भादिभिः परिदर्भविद्यादिभहिस्तेनासंस्पृशन्नपमार्जयेत् । चापेटया वा विद्यया अन्यस्य चपेटां दददन्योपमाजयेत् ।
[ भा. २४३८ ]
एसेव गमो नियमा निग्गंधीणपि होइ नायव्वो ।
विज्जादी मुत्तूर्ण अकुसलकुसले य करणंच ।।
वृ- एष एवानन्तरोदितो यतनागमो नियमात् निर्ग्रन्थीनामपि ज्ञातव्यः । तदा निर्ग्रन्थीनां विद्यादिन दातव्यं मुक्त्वा पूर्वगृहीतमसाधनं मन्त्रं स हि कदाचिद्दीयेत न कश्चिद्दोषः । तथा यदि निर्ग्रन्थोऽकुशलो भवति निर्ग्रन्थीच कशला तत्र करणं निर्ग्रन्थ्या निर्ग्रन्थी कारयेदित्यर्थः । विद्यादी मुत्तूणमिति । मंतो हविज कोई विज्जाउ ससाहणा न दायव्वा ।
[भा. २४३९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org