________________
उद्देशक :- ५, मूल- १४७, [ भा. २४२८ ]
१५१
यथा आयुष्कपरिहीना देवा लवसप्तमा जाता, आयुष्कपरिहान्या सिद्धिलाभतो भ्रष्टा यथा देवा लवसप्तमा जाता इत्यर्थः । सम्प्रति लवसप्तमदेवस्वरूपमाह
[ भा. २४२९]
सत्तलवा जइ आउं पहुप्पमाणं ततो उ सिज्झतो । तत्तियमेत्तं न हु ततो ते लवसत्तमा जाया ।।
वृ- यदि सप्तलवाः कालविशेषा आयुः प्रभवन् स्यात् सप्तलवप्रमाणं यद्यायुः प्राप्येतेत्यर्थः ततः सिद्धेयुः परंतद् आयुस्तावन्मात्रेन हुनैवाभवत् ततस्ते लवसप्तमा देवा जाता लवे सप्तमे सिद्धिरभविष्यत् यदि तावदायुर्भवेद्येषां ते लवसप्तमा नाम नाम्नैकार्थे समासो बहुलमितिसमासः । केतेलवसप्तमा इत्याह[भा. २४३० ] सव्वट्टसिद्धिनामे उक्कोसट्टिईय विजयमादीसु ।
गावसेसगभा भवंति लवसत्तमा देवा ।।
वृ- ये देवाः सर्वार्थसिद्धिनामके महाविमाने ये च विजयादिषूत्कृष्टस्थितय एकोऽवशेषो गर्भो येषां ते एकावएषगर्भास्ते भवन्ति लवसप्तमाः । उपसंहारमाह
[ भा. २४३१]
तम्हा उ सपक्खेणं कायच्च गिलाणगस्स तेगिच्छं ।
विवक्खेण न करेजा एवं उदितंमि चोदेति । ।
वृ- यस्माद्विपक्षे दोषास्तस्मात्सपक्षेण प्लानस्य चिकित्साकर्म कर्तव्यं विपक्षे पुनर्न कारयेतं तदेवं सम्बन्धस्ततः सूत्रव्याख्यालक्षणं तदन्याक्षेपपरिहारौ तत्प्रसक्त्याऽन्यदपि चाभिहितं सम्प्रति सूत्रव्याख्या क्रियते-निर्ग्रन्थञ्चशब्दान्निर्ग्रन्थी च रात्रौ वा विकालेवा दीर्घपृष्टः सर्पो लूषयेत् दशेत् । तत्र स्त्री वा पुरुषस्य हस्तेन तं विषमपमार्जयेत्, पुरुषो वा स्त्रिया हस्तेन एवं से तस्य स्थविरकल्पस्य कल्पते । स्थविरकल्पकस्यापवादबहुलत्वादेवं चामुना प्रकारेणापवादमासेवमानस्य से तस्य तिष्ठति पर्यावो न पुनः स्थविरकल्पात्परिभ्रश्यति, तेन च्छेदादयः प्रायश्चित्तविशेषास्तस्य न सन्ति परिहारं च तपो न प्राप्नोति । कारणेन यतनया प्रवृत्तेरेष कल्पः स्थविरकल्पिकानां । एवममुना प्रकारेण सपक्षेण विपक्षेण वा वैयावृत्त्यकारापणं से तस्य जिनकल्पिकस्य न कल्पते । केवलोत्सर्गप्रवृत्तत्तस्येति भावः । एवमपवादसेवनेन से तस्य जिनकल्पपर्यायोन तिष्ठति, जिनकल्पात् पततीत्यर्थः । परिहारंच तपोविशेषं न परिपालयति एष कल्पो जिनकलपिकानां, एवं सूत्रे व्यवस्थिते यदाचार्येण प्रागुदितंसपक्षेण वैयावृत्यं कारयितव्यम् न परपक्षेणेति तत्र चोदयति ब्रूते परः । यदुच्यते तदाह
[भा. २४३२]
सुत्तंमि अनुन्नायं इह पुन अत्थतो निसेहेह ।
कायव्व सपक्खेणं चोयग सुत्तं तु कारणियं ।।
वृ- सूत्रे सपक्षेणेति वैयावृत्त्यकारापणमनुज्ञातं इह इदानीं इ पादपूरणे पुनरर्थतो यूयं परपक्षेण वैयावृत्त्यकारापणं निषेधयत् कर्तव्यम् सपक्षेणेति वचनात् ततः सूत्रभवद्व्याख्यानयोर्विरोधः । अत्राचार्य आह-न विरोधो, यतो हे चोदक सूत्रमिदं कारणिकं कारणापेत्रम् । तदेव कारणमाहविज सपक्खाणसती गिहि परतित्थीउ तिविह संबंधी |
[भा. २४३३]
एमेव असंबंधी असोयवादेतरा सब्वे ।।
वृ- सपक्षाणांवैद्यानामसति अभावेगृही पिता भ्राता स्वजनोवा स्थविरादिभेदतस्त्रिविधो यः सम्बन्धी स वैयावृत्त्यं कारणीयः । तदभावेऽसम्बन्धी स्थविरमध्यमतरुणभेदतस्त्रिभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः, तस्याभावे परतीर्थिकः पितृभ्रातादिः संबन्धेन संबंधी स्थविरादिभेदतस्त्रिभेदः पूर्वपूर्वालाभे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org