________________
व्यवहार- छेदसूत्रम् - २५/१४७ आक्षेपहेतुकत्वात् । न खल्वाक्षेपसूचामन्तरेणापाय प्रदर्शनं विपक्षे भवतीति परिभावनीयमेतत्संप्रत्याक्षेपप्रसिद्धी एव वैयिक्त्येनाह ।
[भा. २३९५]
किं कारणं न कम्पइ अक्खेवो दोसदरिसणं सिद्धी । लोए वेदे समए विरुद्धसेवादयो नाया ||
वृ- किं कारणं विपक्षे वैयावृत्त्थं न कल्पते इत्याक्षेपः । विपक्षे दीषदर्शनं सिद्धि प्रसिद्धिः । अत्रार्थे लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि । किमुक्तं भवति ? यथा लोके वेदे समये च विरुद्धसेवयामकल्पिकसेवायां च दोषोपदर्शनं तदकरणेप्रसिद्धिरेवमिहापि विपक्षे वैयावृत्त्यकरणेऽपायदर्शनमेव तदकरणे प्रसिद्धिः ।
[भा. २३९६]
१४६
तम्हा सपक्खकरणे परिहरिया पुव्ववन्निया दोसा । कप्पे छठुद्देसे, तह चेव इहंपि दठव्वा ।।
बृ- यस्मादेव विपक्षे वैयावत्त्वकरणे प्रायश्चित्तादयो दोषास्तस्मात्सपक्षे वैयावृत्यं कर्तव्यं । सपक्षवैयावृत्त्यकरणे च ये पूर्ववर्णिता दोषास्ते यथा कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चेव इहापि द्रष्टव्याः । अत्र पर प्रश्नमाह[भा. २३९७]
चोएती परकरणं, नेच्छामो दोसपरिहरणहेतुं । किं पुन सज्जगणी घेतव्वो गिलाण रक्खठा ।।
वृ- चोदयति प्रश्रयति शिष्यः परकरणे परपक्षे वैयावृत्त्यकरणं दोषपरिहरणहेतोर्दोषपरिहरणानिमित्तं च्छामः । किं पुनः केवलं भैषज्यगणः औषधसमूहो म्लानरक्षार्थं गृहीतव्यः । अत्रैव विपक्षे दोषमाहपुव्वं तु अग्गहिपहिं दूरा जा ओसहाई आणंति ।
[भा. २३९८ ]
तावत्तो उगिलाणी, दिठतो दंडियाईहिं । ।
वृ- पूर्वमगृहीतेषुभैषजेषुगाथायांतृतीया सप्तम्यर्थेप्राकृतत्वात् । यावदार्यादूरादौषधान्यानयन्ति, तावत् ग्लानस्य आगाढादि परितापना भवति । तद्भावे च स परमार्थतस्त्यक्तो भवति, 1 अत्रार्थे च दृष्टान्तो दण्डिकादिभिस्तमेवविभावविषुराह ।।
[भा. २३९९]
उवयंम संगामे, रन्नो बलसमागमो । एगो वेजोत्थ वारेई, न तुब्भे जुद्धकोविया ॥। घेप्पतुं ओसहाई वणपट्टामक्खणाणि विविहाणि । सो बेइ अमंगलाई मा कुह अनागयं चेव ।।
[ भा. २४०० ]
वृ- द्वयोर्दण्डिकयोरुपस्थिते सङ्ग्रामे लिलिते च द्वयोर्बले द्वयोरपि राज्ञो वैद्या उपस्थिता । तत्र एको दण्डिको वैद्यानत्र संग्रामप्रस्थाने उपस्थितान् वारयति । न यूयं युद्धकोविदास्ततः किं युष्माभिः संग्रामे कर्तव्यमेवमुक्त ते वैद्याः प्राहर्यद्यपि न वयं युद्धकोविदास्तथापिप्रहाखणितेष्वस्माकं वैद्यक्रियोपयोगिनी तस्माद्वयमागच्छामो गृह्यन्तां चौषधानि व्रणपट्टा विविधानि चानेकप्रकाराणि च म्रक्षणानि । एवमुक्ते स दण्डिको ब्रवीति मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति ।
[भा. २४०१ ]
किं घेत्तव्धं रणे जोगं, पुच्छिया इतरेण ते ।
भांति वणतिल्लाई घयदव्वोसहाणिय ।।
वृ- इतरेणद्वितीयेन दण्डिकेन ते आत्मीया वैद्याः पृष्टाः । किंरणे संग्रामे योग्यं गृहीतव्यं । एवमुक्तास्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org