________________
व्यवहार - छठसूत्रम्-१. एतेन कारणेनाचार्यादयस्त्रिविधा भवंति, सूत्रे भवे इति बहुत्वेप्यकवचनं प्राकृतत्वात् प्राकृते हि वचनव्यत्ययोपिक्वचिद्भवति इति, एनामेव गाथांव्याख्यानयति ।। [भा.१७१) कजाकजजयाजय अविजाणतो अगीतोजंसेवे ।
सो होइतस्सदप्पोगीये दप्पोजहदोसा ।। वृ-कार्यं नाम प्रयोजनं, यच्च प्रयोजनं तच्च अधिकृतप्रवृत कारणं, अतएवान्यत्रोक्तं कारणंति वा कजंति वा एगढ़, ततोयमर्थः अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्त प्रतिसेवना क्रियते । अकारणं न जानाति यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्ते सेवनं कुर्वन यतनामयतनांवा नजानाति, एतान्यजानानो यःसेवतेप्रतिसेवते, तस्यदोभवति ।सातस्य दर्पिका प्रतिसेवनाभवतीतिभावः,गीतार्थः पुनः सर्वाण्यप्येतानि जानातिततः कारणेप्रतिसेवते,ना कारणेपि यतनयानपुनरयतनया ततःशुद्धएवनप्रायश्चित्तविषयोऽगीतार्थस्यत्वज्ञानतवादर्पणप्रतिसेवमानस्य प्रायश्चित्तं यदि पुनः गीतार्थोपि दर्पण प्रतिसेक्ते, कारणेप्ययतनया च तदा तुल्यामगीतार्थेन समंतस्य प्रायश्चित्तं । तथाचाहगीए दप्पा जए दोसा, गीते गीतार्थे दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते कारणेपिप्रतिसेवनाया अयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः, प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमाणायां प्रति सेवनायां यतनया प्रवृत्तो न तुल्यं प्रायश्चित्तं, कारणे पुनर्यतनया प्रवर्तमानः शुद्ध एव न प्रायश्चित्तविषयः । तत्राचार्या उपाध्यायश्च नियमात गीतार्था इति गीतार्थत्वापेक्षया समाः केवलंप्रतिसंव्यमानंवस्तुप्रतीत्य विषमाः भिक्षवो गीतार्थाऽगीतार्थाश्चभवंति प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति, वस्तुभेदतो गीतार्थत्वागीतार्थत्वतश्च पृथक् विभिन्न विभिन्न प्रायश्चित्तं, सहासहपुरुषाद्यपेक्षया तु तुल्येप्याभवति प्रायश्चित्ते पृथक् विभिन्नं विभिन्न प्रायश्चित्तदानं तथाचाह - [भा.१७२} दोसविहवानुरुवो लोएदंडोवि किमुतउत्तरिए ।
तित्थुच्छेदो इहरा निरानुकंपानय विसोही ।। वृ-दंडोवीत्यपिशब्दो भिन्नक्रमत्वात्लोकेपीत्येवं द्रष्टव्यः लोकेपिदंडोदोषानुरुपो विभवानुरुपश्च, तथाहिमहत्यपराधेमहान दंडोऽल्पेऽल्पीयान तथा समानेऽपि दोषेऽल्पधनस्याल्पो महाधनस्य महान लोकपि तावदेवं किमुत किंपुनरौत्तरिक लोकोत्तरसंबंधिनि व्यवहारे, तत्र सुतरां दोषसामर्थ्यानुरुपो दंडस्तस्यसकलजगदनुकंपायाः प्रधानत्वात्यदिपुनरल्पेपिदोषेमहान्दंडोमहत्यप्यल्पीयान्तथा यदि समानेप्यपराधेकृतकरणत्वमकृतकरणत्वंवाचार्योपाध्याययोर्भिक्षोरपिकृतकरणत्वमकृतकरणत्वमधिगतत्वं स्थिरत्वमस्थिरत्वं चानपेक्ष्य न तदनुरुपो दंड: स्यात् किंतु तुल्य एव, तदा व्यवस्थाया अभावतः संतानप्रवृत्यसंभवे तीर्थोच्छेदः स्यात्, तथा निरनुकंपा अनुकंपाया अभावः । प्रायश्चित्तदायकस्य असमर्थभिक्षुप्रभृतीनामनुग्रहात्नच तस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य प्रायश्चित्तेप्यतिमात्रप्रायश्चित्तस्य दानतो महाऽशातनासंभवात् अप्पच्छिते व देइ पच्छित्तं पच्छिते आसायणा तस्स महतीउ, इतिवचनात् ततः सापेक्षा आचार्यादयस्त्रिविधा उक्ताः अत्रैव प्रकारांतरमाह । [भा.१७३] अहवा कज्जाकज्जे जयाजयंतेय कोविदो गीयो ।
दप्पाजातोनिसेवे, अनुरुवं पावए दोसं ।। वृ-अथवेति प्रकारांतरेगीतार्थःसकारणमपिजानाति ।अकारणमपिजानाति,यतनामपिजानाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org