SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ १४० व्यवहार-छेदसूत्रम् -२- ५/१४५ नभविस्सतिदोसोत्ति तो वायंती उच्छेदसुयं ।। वृ- यावदार्यरक्षितास्तावदागमव्यवहारिणोऽभूवन् । ते चागमव्यवहारबलेन विज्ञाय यथा एतस्याश्छेदश्रुतवाचनायां दोषो न भविष्यतीति संयतीमपि च्छेदश्रुतं वाचयन्तिस्म ।। [भा.२३६२] आरेणागमरहियामा विदाहितितोनवाएंति । तेन कहंकुब्वंतंसोहिंतुअयाणमानीतो ।। वृ- आर्यरक्षितादारात् आगमरहितास्ततस्ते मा च्छेदश्रुताध्ययनतः संयत्यो विद्रास्यन्ति विनक्ष्यन्तीति हेतोछेदश्रुतानि संयतीन वाचयन्तीति अत्राह-तेन श्रुताध्ययनाभावेन कथं ताः संयत्योऽजानानाः शोधिंकुर्वन्तु । अत्राचार्य आह[भा.२३६३] तोजाव अज्जरक्खिय सट्टाणे पगासयंसुवइणीतो। असतीए विवक्खंमि वि एमेवय होतिसमणा वि ।। वृ- यतः पूर्वमागमव्यवहारिणः स्युः च्छेदश्रुतं च संयत्योऽधीयेरन् ततो वावदार्यरक्षितास्तावत् व्रतिन्यः स्वस्थाने स्वपक्षे संयतीनां प्रकाशने प्रकाशनामकार्युः । स्वपक्षाभावेऽपि विपक्षेऽप्यालोचितवत्यः श्रमण्यः । एवमेव श्रमणा अपिभवन्तिज्ञातव्याः किमुक्तंभवति? श्रमणा अपि सपक्षे आलोचितवन्तः। तदलाभेविपक्षेऽपिश्रमणीनां पार्श्वे इत्यर्थः दोषाभावात्, आगमव्यवहारव्वहारिभिर्हि दोषाभावमवबुध्य च्छेदश्रुतवाचना संयतीनां दत्ता नान्यथेति, आर्यरक्षितादारतः पुनः श्रमणानामेव समीपे आलोचयंतिश्रमण्योऽपि श्रमणानामगमव्यवहारच्छेदाद् । अत्रैव परमतमाशंक्य दूषयति ।। [भा.२३६४] मेहुणवजं आरेणकेइसमणेसुतापगासंति । तनजुजइजम्हालहसगदोसा सपक्खे वि ।। वृ- आर्यरक्षितादारतः श्रमणेषु श्रमणानां पार्श्वे ताः श्रमण्यः प्रकाशयन्त्यालोचयन्ति मैथुनवर्ज, मैथुनं पुनः श्रमण्यः श्रमणीनामेव सकाशे शालोचयन्ति इति केचिद् व्याचक्षते, तत्तु न युज्यते यस्माल्लघुस्वकदोषाः सपक्षेऽपि किमुक्तं भवति ? श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वकदोषपरश्रिवित्वं कुर्युः परिभवं वा समुत्पादयेयुः । तस्मान्मैथुनमपिश्रमणानामेवान्तिके विकटनीयम् । [भा.२३६५] असती कडजोगी पुन मुत्तूणंसंकियाइंठाणाई । आइन्नेधुवकम्मिय तरुणी थेरस्स दिलिपहे ।। वृ- आर्यरक्षितकालेऽपि यदि संयत्या मूलगुणापराध आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते । तस्यासति अभावे यः कृतयोगी सूत्रतोऽर्थतश्च च्छेदग्रन्थधरः स्थविरस्तस्य समीपे आलोचयति । नवरंशङ्कितानि स्थानानि वक्ष्यमाणानिशून्यगृहादीनि मुक्त्वा किन्त्वाची”उचितेप्रदेशे आलोचयितव्यम् । यत्र ध्रुवकर्मिको दृष्टिपथेवर्तते दृष्टया पश्यति, न तुशृणोति, तत्र नवनिकान्तरिता आलोचयति । तरुणी थेरस्सेत्येष तृतीयभङ्ग उपात्तः । स च शेषभङ्गानां त्रयाणामप्युपलक्षणं ते चेमे स्थविरा स्थविरस्यालोचयति । स्थविरा तरुणस्यालोचयति । तरुणी स्थविरस्यालोचयति | तरुणी तरुणस्य ।। यदुक्तंमुक्त्वा शङ्कितानिस्थानानि, सम्प्रतितान्येवोपदर्शयति. [भा.२३६६] सुन्नघर देउलज्जाणरन्नपत्थन्नुवस्सयस्संतो । __एयविवजे ठायंतितिन्निचउरो हवा पञ्च ।। वृ- शून्यगृहं देवकुलं उद्यानमरण्यं प्रच्छन्नं च स्थान तथा उपाश्रयस्यान्तर्मध्ये एतद्विवर्जे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy