________________
उद्देशक :- ५, मूल- १४४, [भा. २३४१] भाषमाणस्यानुग्रहप्रवृत्तस्तिष्ठति । । पर आह
[भा. २३४२ ]
१३५
थेरस्स तस्स किं तु एद्दणं किलेसकरणेण । भन्नइ एगुत्तुवयोग सद्धजणणं च तरुणाणं ।।
वृ- अथ तस्य स्थविरस्य जीर्णमहतः किमेतावन्मात्रेण क्लेशकरणेन । सूरिराह भण्यते, अत्रोत्तरं दीयते एवमाचारतस्तस्य सूत्रार्थाभ्यां सह एकत्वोपयोगोपयुक्तस्य तु सूत्रार्थाः सम्यग् लगन्ति तथा तरुणानां च श्रद्धाजननं कृतं भवति, तथा हि व्याख्यानमण्डल्या उत्थितमपि निजमाचार्य जीर्णमहान्तमेवं विनयं कुर्वन्तं दृष्ट्रा चिन्तयन्ति । यद्यस्माकमाचार्यो जीर्णमहानप्येवं श्रुतस्य विनयं करोति ततोऽस्माभिस्तरुणैः सुतरां कर्तव्यः । । आह-शिष्यो यथा जीर्णमहत आचार्यस्यानुर्गहः क्रियते यथानुभाषमाणस्य एकपार्श्वे सन्निषन्नस्त्वग्वर्तितो वा तष्ठितु । एवमन्यस्यापि क्रियते ? क्रियते इति ब्रूमस्तथा चाह
[भा. २३४३ ] सोउगणी अगणी वा अनुभास्संतस्स सुणति पासंमि । न वइ जुन्नदेहो होउ बद्धासणो सुचिरं ।।
वृ- सजीर्णो महान् गणी आचार्य उपाध्यायो गणावच्छेदको वा अगणीचा अन्यो यः स्थाननियुक्तः सोऽनुभाषमाणस्य चिन्तापयत एकस्मिन् पार्श्वे सन्निषन्नस्त्वग्वर्तितो वा शृणोति, यतो न शक्नोति जीर्णदेही बद्धासनो भवितुं सुचिरं कालम् ।
मू. (१४५) जेनिमगंधानिगंधीओ यसंभोइया सिया, नो हकप्पइ अन्नमन्नस्स अंतिए आलोएतए। अत्थिया इत्थ केइ आलोयणारिहे: कप्पइ से तेसिं अंतिए आलोएत्तए; नत्थि वा इत्थ केइ आलोयणारिहे, एव एहं कप्पइ अनमन्नस्स अंतिए आलोएत्तए ।
[भा. २३४४]
धेरो अरिहो आलोयणाए आयारकप्पिती जोग्गो ।
सायन हइ विवक्खेनेव सपक्खे अगीएसु ।।
वृ- स्थविर: पूर्वसूत्रेऽभिहितः, स च आलोचनाया अर्हः, सोऽपि च योग्य आलोचनाया भवति आचारकल्पिक आचारप्रकल्पाभिधानाध्ययनधारी तत एवं सति सा आलोचना न विपक्षे नापि सपक्षे अगीतेष्वगीतार्थेषु भवति, तत्र संयताः संयतीनां विपक्षः, संयत्यः संयतानाम् सपक्षः, संयताः संयतानां संयत्यः संयतीनाम् ।। तत्र विपक्षे सपक्षे चाऽगीतार्थेष्वालोचनाप्रतिषेधार्थमधिकृतं सूत्रम् अनेन सम्बन्धेनायातस्यास्य व्याख्या ये निर्ग्रन्था निर्ग्रन्थ्यो वा सांभोगिकाः स्युस्तेषां नो व्हं व्याक्यालङ्कारे, कल्पतेऽन्योन्यस्य परस्परस्यान्तिके आलोचयितुमगीतार्थत्वात् । अस्ति चेदत्र कश्चिदालोचनार्ह एवं सति कल्पते अन्योन्यस्यान्तिके आलोचयितुम्, एष सूत्रसंक्षेपार्थः । । अधुना भाष्यविस्तरःसंभोइत्ति भणिते संभोगाच्छविहो उ आदीए । भेदप्पभेदतो वि यनेगविहो होति नायव्वो ।।
[भा. २३४५ ]
वृ- संभोइत्ति इति भणिते संभोगो विचार्यते, तत्रादौ संभोगः षड्विधो भवति । प्रभेदतोऽपि च, एकैकस्य भेदस्य प्रभेदतः पुनरनेकविधो भवति । । तत्र प्रथमतः षड्विधमाहओह अभिग्गह दानग्गहणे अनुपालनाए उववाए । संवासंमि यछट्टो संभोगविही मुणेयच्वी ||
[भा. २३४६ ]
वृ- ओघे उपध्यादौ अभिग्रहे दानग्रहे अनुपालनायामुपपाते । एवमेते पञ्च संभोगा भवन्ति, षष्ठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org