________________
उद्देशक : - ५, मूल - १४३, [भा. २३३१]
१३३
इत्यादि । जीर्णो नामैको नो महान् यस्तरुणक एव सन् जरसा परिणतो जातः, नो जीर्णो महानिति द्वितीयः यो वृद्धोऽपि सन् दृढशरीरः, जीर्णोऽपि च महानपि च तृतीयः, नो जीर्णो नो महानिति चतुर्थः एष शून्यः । शेषाणां तु त्रयाणां एकतरो न शक्नोति प्रत्युज्वालयितुं अतः सूत्रं तस्य नश्यति ।। उभयधरंमि उसीसे विजते धारणा उ इच्छाए । मा परिभव नयनं वा गच्छे व अनिच्छमाणंमि ||
[भा. २३३२]
वृ- उभयधरे सूत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्य धारणा इच्छया, स्वयं वा गणं धारयति तस्य वा शिष्यस्योभयधरस्य ददाति । स हि गणस्य शिष्यस्य वा भावं जानाति । यदि शिष्यस्य गणं दास्यामि तत एते मम परिभवं करिष्यन्ति, अथवा मां त्यक्त्वा गच्छमादाय गमिष्यति । यदि वा तमुभयधरं गणधरे स्थाप्यमानं गणो नेच्छति ततो मा परिभवं एते कार्षुर्नयनं वा मां त्यक्त्वाऽन्यत्र गच्छस्य कार्षीदिति हेतोरनिच्छति वा गणे तस्य गणं न ददाति किन्तु स्वयं धारयति । तत्र सूत्रम्तेनोभयसूत्रेण शिष्येण वाचयत्यर्थमात्मना ददाति, प्रागुक्तदोषाभावे तस्य गणं समर्पयति ।
भू. (१४४) थेराणं थेरभूमिपत्ताणं आयारपकप्पे नामं अज्झयणे परिब्भट्ठे सिया, कप्पइ तेसि संनिसन्नाण वा संतुयट्टाण वा उत्ताणयाण वा पासिल्लयाण वा आयारपक्कं नामं अज्झयणं दोघंपि तचंपि पडिपुच्छित्तए वा पडिसारेतए ।
वृ-राणं थेरभूमिपत्ताणं इत्यादि । स्थविराणां स्थविरभूमिं प्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभ्रष्टंस्यात्कल्पते तेषां सन्निषिन्नानां वा निषद्यागतानां 'संतुयद्वाण' चेति सम्यक्त्वग्वर्तनेन स्थितानां उत्तानानां वा पासिल्लयाणवेत्ति पार्श्वतः संतिष्ठतां वा आचारप्रकल्पनामैकमध्ययनं द्वितीयमपि तृतीयमपि, आदिशब्दाच्चतुर्थमपि वारं प्रत्येष्टुं वा प्रतिसारयितुं वा अवमरत्नाधिकः प्रतिसारयति । स्थविराः प्रतीच्छन्ति । एष सूत्रसंक्षेपार्थः । । अधुना भाष्यविस्तरः
[भा. २३३३]
एमेव वि इय सुत्तं कारणियं संति बले न हावेति ।
जं जत्थउ कित्तिकम्मं निहाणसम ओमरायनिए ।।
- यथा प्राक्तनं सूत्रं कारणियं संति बलेन हावेति । सच प्रत्युज्ज्वालयन् सति विनयं न हापयति । अथ कोऽसौ विनयो यस्तेन सूत्रं प्रत्युज्वालयता सति बलेन हापयितव्य इत्यत आह । जं जत्थ उ इत्यादि यत् कृतिकर्म वन्दकं यत्र सूत्रेऽर्थे वाधिकृतं तत्रावमरत्नाधिके निधानसमे सूत्रमर्थं च प्रत्युज्ज्वालयता तत् न हापयितव्यं । निधानसमे इति वदता निधानदृष्टान्तः सूचितः । स चैवं यथा महति क्षुल्लके वा निधाने उत्खनितव्ये तस्य तदनुरूपचारमुत्खानको यदि करोति ततस्तमुत्खनितुं शक्नोति । अथ न करोति तदनरूपमुपचारं तर्हि वृश्चिकाद्युपद्रवतो न शक्नोति । एवं यदि समरत्नाधिकेऽवमरत्नाधिके बा सूत्रमर्थं वा प्रत्युज्ज्वालयन् अपूर्वं वा पठन् तदनुरूपं विनयं न करोति, तदा निर्जरालाभस्तस्य नोपजायते, न चशास्त्रं स्थिरपरिचितं भवति, विभङ्गंवा तस्यज्ञानं विनयभ्रंशितया प्रान्तदेवता कुर्यात्कलहं वा । एवाभिधित्सुः प्रथमतः प्रायश्चित्तमाह
[भा. २३३४ ] सुत्तमि य चउ लहुणा, अत्थंमि यचउ गुरुं च गव्वेण । कितिकम्ममकुवंती पावति थेरो सति बलामि ।।
बृ- स्थविरः प्रत्युज्ज्वालयन्नपूर्वं पठित्वा सति बले यदि गर्वेण कृतिकर्म न करोति, तर्हि तत् अकुर्वन सूत्रे सूत्रविषये चतुरो लघुकान् प्राप्नोति, अर्थे चतुर्गुरुकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org