________________
उद्देशक : - ५, मूल - १४२, [भा. २३२२]
१३१
वृ कोइ अनेग वनफत्ति पत्त सागादि कलिए फलए केनाविनिउत्तो, सो विसयपमाएणं जुयपमाएण वान रक्ख न य पाणिएणं पालेति, सो य फलहो लोगेण गोख्वेहि य उल्लडितो सुक्को य न किंचि ततो वनफलादि आगच्छइ, फलहसामिणा भणियं, किमियं सो भाइ-किं करोमि रक्खेमि ताव अहं नत्थि मे पमादो, ततो फलहसामिणा फलहो गवेसावितो ! तथा चाह-फालकिकस्य फलकस्वामिन एवं पूर्वदृष्टान्तेषु राज्ञ इव फलगवेषणा चिन्ता जाता, यदि फलको भग्नलुम्नो भविष्यति, ततोऽस्य भोगी हरिष्यते । गाथायां वर्तमानसामीप्ये वर्तमानवद्वेति वचनतो भविष्यति वर्तमानः । कस्मात् हरिष्यते इत्याह कार्ये प्रयोजने समापतिते सर्वेषामपि कुटुम्बजनानां भोगाहारो न स्यादिति हेतोस्तत्र गवेषणे कृते फलको भग्नलुग्रो दृष्टः । भग्नो गोरुपादिभिर्विध्वंसनात्, लुग्गो जलसेचनाकरणतः ततस्तस्य वृत्तिछिन्ना । ततो नाहं भूय एवं करिष्यामीति याचमानोऽपि यावज्जीवं न लभते वृत्तिम् ।।
एवं लोकोत्तरेऽप्युपनयः कर्तव्यस्तमेवाह
[ भा. २३२३]
एवं दप्पपनासितेन विदिति गणं पकप्पमज्झवणे । आवाहेणं नासिए गेलन्नादीण दलयंति ।।
वृ एवं पूर्वोक्तदृष्टान्तप्रकारेण दर्पतो धर्मकथाध्यययनतः व्याकरणाध्ययनतो निमित्तशास्त्राद्यध्ययनतो वा इत्यर्थः । प्रणाशिते प्रकल्पनाम्यध्ययने यावज्जीवमाचार्यास्तस्या गणन ददति । आवाधेन ग्लानत्वादिना पुनर्नशिते भूयोऽप्युज्ज्वालिते दलयन्ति प्रयच्छन्ति । । एतदेव भावयति[भा. २३२४] गेलने असिवे वा उमोयर थिए रायदुट्ठे वा ।
एएहिं नासियमी संधेमाणीए दिंति गणं । ।
वृ - ग्लानत्वे वा जाते ग्लानप्रतिजागरणे वा कृते, अशिवेवा समुपस्थिते, अवमौदर्य वा दुर्भिक्षे जाते। भिक्षापरिभ्रमणतो राजद्विष्टे वा पलायनतो, यदि नष्टं एकल्पनामकम्ध्ययनं, तत एतैः कारणैः नाशितेऽपि पुनः सन्दन्धत्या गणं ददति प्रयच्छन्ति । तदेवं निर्ग्रन्थीसूत्रं भावितमधुना निर्ग्रन्थसूत्रं विभावयिषुराह[भा. २३२५] एमेव य साहूणं, वागरणनिमित्तच्छंदकहमादी । बिइयं गिलाणतो मे अद्धाणे चेव थूभेय ।
वृ- एवमेव अनेनैव प्रकारेण साधूनामपि सूत्रं भावनीयं, नवरं तत्र प्रमादो व्याकरणनिमितच्छन्दःकथाद्यधीयानस्य प्रतिपत्तव्यः द्वितीयमाबाधलक्षणं ततो ग्लाने ग्लानप्रतिजागरणेवा, अवमौदर्ये, अशिवादिकारणतोऽध्वनि वा गमने, स्तूपे वा द्रष्टव्यम् । इयमत्र भावना, यदि व्याकरणाध्ययनतो निमित्तशास्त्राध्ययनतश्छन्दः शास्त्राध्ययनतो धर्मकथाध्ययनतः, आदिशब्दाद्विधामन्त्रादिव्याक्षेपतो यदि प्रकल्पाध्ययनं नाशितं, तदा पश्चादुज्ज्चालितेऽपि यावज्जीवं तस्मै गणं सूरयो न प्रयच्छन्ति । अथ ग्लानत्वाद्याबाधतो नाशितं, तदा तस्मिन् पुनरुज्वालिते प्रयच्छन्ति प्रमाददोषाभावात् तत्रग्लानत्वादिविषयआबाधः प्रतीतः । सम्प्रति स्तूपविषयमाह
[भा. २३२६]
महुरा खमगाय वनदेवय आउट आग विजत्ति ।
[भा. २३२७]
किं मम असंजतीए अप्पत्तिय होहिती कजं ।। थूम विउ घन भिच्छू विवाय छम्मास संघो को सत्तो । गुस्सा कंपण खिंसण सुक्का कय पडागा ।।
वृ-मथुरायां नगर्यां कोऽपि क्षपक आतापयति, यस्यातापनां दृष्ट्वा देवता आहता तमागत्य वन्दित्वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
→